View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.35 सुन्दरकाण्ड - पञ्चत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ पञ्चत्रिंशस्सर्गः ।

तां तु रामकथां श्रुत्वा वैदेही वानरर्षभात् ।
उवाच वचनं सान्त्वमिदं मधुरया गिरा ॥ 1 ॥

क्व ते रामेण संसर्गः कथं जानासि लक्ष्मणम् ।
वानराणां नराणां च कथमासीत्समागमः ॥ 2 ॥

यानि रामस्य लिङ्गानि लक्ष्मणस्य च वानर ।
तानि भूयस्समाचक्ष्व न मां शोकस्समाविशेत् ॥ 3 ॥

कीदृशं तस्य संस्थानं रूपं रामस्य कीदृशम् ।
कथमूरू कथं बाहू लक्ष्मणस्य च शंस मे ॥ 4 ॥

एवमुक्तस्तु वैदेह्या हनुमान्मारुतात्मजः ।
ततो रामं यथातत्त्वमाख्यातुमुपचक्रमे ॥ 5 ॥

जानन्ती बत दिष्ट्या मां वैदेहि परिपृच्छसि ।
भर्तुः कमलपत्त्राक्षि संस्थानं लक्ष्मणस्य च ॥ 6 ॥

यानि रामस्य चिह्नानि लक्ष्मणस्य च यानि वै ।
लक्षितानि विशालाक्षि वदतश्शृणु तानि मे ॥ 7 ॥

रामः कमलपत्त्राक्ष स्सर्वसत्त्वमनोहरः ।
रूपदाक्षिण्यसम्पन्नः प्रसूतो जनकात्मजे ॥ 8 ॥

तेजसाऽदित्य सङ्काशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या यशसा वासवोपमः ॥ 9 ॥

रक्षिता जीवलोकस्य स्वजनस्याभिरक्षिता ।
रक्षिता स्वस्य वृत्तस्य धर्मस्य च परन्तपः ॥ 10 ॥

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ॥ 11 ॥

अर्चिष्मानर्चितोऽत्यर्थं ब्रह्मचर्यव्रते स्थितः ।
साधूनामुपकारज्ञः प्रचारज्ञश्च कर्मणाम् ॥ 12 ॥

राजविद्याविनीतश्च ब्राह्मणानामुपासिता ।
श्रुतवान्शीलसम्पन्नो विनीतश्च परन्तपः ॥ 13 ॥

यजुर्वेदविनीतश्च वेदविद्भिस्सुपूजितः ।
धनुर्वेदे च वेदेषु वेदाङ्गेषु च निष्ठितः ॥ 14 ॥

विपुलांसो महाबाहुः कम्बुग्रीवश्शुभाननः ।
गूढजत्रुस्सुताम्राक्षो रामो देवि जनै श्श्रुतः ॥ 15 ॥

दुन्दुभिस्वननिर्घोष स्स्निग्धवर्णः प्रतापवान् ।
सम स्समविभक्ताङ्गो वर्णं श्यामं समाश्रितः ॥ 16 ॥

त्रिस्थिरस्त्रिप्रलम्बश्च त्रिसमस्त्रिषु चोन्नतः ।
त्रिताम्रस्त्रिषु च स्निग्धो गम्भीरस्त्रिषु नित्यशः ॥ 17 ॥

त्रिवलीवांस्त्र्यवनतश्चतुर्व्यङ्गस्त्रिशीर्षवान् ।
चतुष्कलश्चतुर्लेखश्चतुष्किष्कुश्चतु स्समः ॥ 18 ॥

चतुर्दशसमद्वन्द्वश्चतुर्दंष्ट्रश्चतुर्गतिः ।
महोष्ठहनुनासश्च पञ्चस्निग्धोऽष्टवंशवान् ॥ 19 ॥

दशपद्मो दशबृहत्त्रिभिर्व्याप्तो द्विशुक्लवान् ।
षडुन्नतो नवतनुस्त्रिभिर्व्याप्नोति राघवः ॥ 20 ॥

सत्यधर्मपरश्श्रीमान् सङ्ग्रहानुग्रहे रतः ।
देशकालविभागज्ञस्सर्वलोकप्रियंवदः ॥ 21 ॥

भ्राता तस्य च द्वैमात्रस्सौमित्रिरपराजितः ।
अनुरागेण रूपेण गुणैश्चैव तथाविधः ॥ 22 ॥

तावुभौ नरशार्दूलौ त्वद्दर्शनसमुत्सुकौ ।
विचिन्वन्तौ महीं कृत्स्नामस्माभिरभिसङ्गतौ ॥ 23 ॥

त्वामेव मार्गमाणौ तौ विचरन्तौ वसुन्धराम् ।
ददर्शतुर्मृगपतिं पूर्वजेनावरोपितम् ॥ 24 ॥

ऋश्यमूकस्य पृष्ठे तु बहुपादपसङ्कुले ।
भ्रातुर्भयार्तमासीनं सुग्रीवं प्रियदर्शनम् ॥ 25 ॥

वयं तु हरिराजं तं सुग्रीवं सत्यसङ्गरम् ।
परिचर्यामहे राज्यात्पूर्वजेनावरोपितम् ॥ 26 ॥

ततस्तौ चीरवसनौ धनुः प्रवरपाणिनौ ।
ऋश्यमूकस्य शैलस्य रम्यं देशमुपागतौ ॥ 27 ॥

स तौ दृष्ट्वा नरव्याघ्रौ धन्विनौ वानरर्षभः ।
अवप्लुतो गिरेस्तस्य शिखरं भयमोहितः ॥ 28 ॥

ततस्स शिखरे तस्मिन्वानरेन्द्रो व्यवस्थितः ।
तयोस्समीपं मामेव प्रेषयामास सत्वरम् ॥ 29 ॥

तावहं पुरुषव्याघ्रौ सुग्रीववचनात्प्रभू ।
रूपलक्षणसम्पन्नौ कृताञ्जलिरुपस्थितः ॥ 30 ॥

तौ परिज्ञाततत्त्वार्थौ मया प्रीतिसमन्वितौ ।
पृष्ठमारोप्य तं देशं प्रापितौ पुरुषर्षभौ ॥ 31 ॥

निवेदितौ च तत्त्वेन सुग्रीवाय महात्मने ।
तयोरन्योन्यसल्लापाद्भृशं प्रीतिरजायत ॥ 32 ॥

ततस्तौ प्रीतिसम्पन्नौ हरीश्वरनरेश्वरौ ।
परस्परकृताश्वासौ कथया पूर्ववृत्तया ॥ 33 ॥

ततस्स सान्त्वयामास सुग्रीवं लक्ष्मणाग्रजः ।
स्त्रीहेतोर्वालिना भ्रात्रा निरस्तमुरुतेजसा ॥ 34 ॥

ततस्त्वन्नाशजं शोकं रामस्याक्लिष्टकर्मणः ।
लक्ष्मणो वानरेन्द्राय सुग्रीवाय न्यवेदयत् ॥ 35 ॥

स श्रुत्वा वानरेन्द्रस्तु लक्ष्मणेनेरितं वचः ।
तदासीन्निष्प्रभोऽत्यर्थं ग्रहग्रस्त इवांशुमान् ॥ 36 ॥

ततस्त्वद्गात्रशोभीनि रक्षसा ह्रियमाणया ।
यान्याभरणजालानि पातितानि महीतले ॥ 37 ॥

तानि सर्वाणि रामाय आनीय हरियूथपाः ।
संहृष्टा दर्शयामासुर्गतिं तु न विदुस्तव ॥ 38 ॥

तानि रामाय दत्तानि मयैवोपहृतानि च ।
स्वनवन्त्यवकीर्णानि तस्मिन्विगतचेतसि ॥ 39 ॥

तान्यङ्के दर्शनीयानि कृत्वा बहुविधं तव ।
तेन देवप्रकाशेन देवेन परिदेवितम् ॥ 40 ॥

पश्यतस्तानि रुदतस्ताम्यतश्च पुनः पुनः ।
प्रादीपयन्दाशरथेस्तानि शोकहुताशनम् ॥ 41 ॥

शयितं च चिरं तेन दुःखार्तेन महात्मना ।
मयापि विविधैर्वाक्यैः कृच्छ्रादुत्थापितः पुनः ॥ 42 ॥

तानि दृष्ट्वा महाबाहुर्दर्शयित्वा मुहुर्मुहुः ।
राघवस्सह सौमित्रिस्सुग्रीवे स न्यवेदयत् ॥ 43 ॥

स तवादर्शनादार्ये राघवः परितप्यते ।
महता ज्वलता नित्यमग्निनेवाग्निपर्वतः ॥ 44 ॥

त्वत्कृते तमनिद्रा च शोकश्चिन्ता च राघवम् ।
तापयन्ति महात्मानमग्न्यगारमिवाग्नयः ॥ 45 ॥

तवादर्शनशोकेन राघवः प्रविचाल्यते ।
महता भूमिकम्पेन महानिव शिलोच्चयः ॥ 46 ॥

काननानि सुरम्याणि नदीः प्रस्रवणानि च ।
चरन्न रतिमाप्नोति त्वामपश्यन्नृपात्मजे ॥ 47 ॥

स त्वां मनुजशार्दूलः क्षिप्रं प्राप्स्यति राघवः ।
समित्रबान्धवं हत्वा रावणं जनकात्मजे ॥ 48 ॥

सहितौ रामसुग्रीवावुभावकुरुतां तदा ।
समयं वालिनं हन्तुं तव चान्वेषणं तथा ॥ 49 ॥

ततस्ताभ्यां कुमाराभ्यां वीराभ्यां स हरीश्वरः ।
किष्किन्धां समुपागम्य वाली युद्धे निपातितः ॥ 50 ॥

ततो निहत्य तरसा रामो वालिनमाहवे ।
सर्वर्क्षहरिसङ्घानां सुग्रीवमकरोत्पतिम् ॥ 51 ॥

रामसुग्रीवयोरैक्यं देव्येवं समजायत ।
हनुमन्तं च मां विद्धि तयोर्दूतमिहागतम् ॥ 52 ॥

स्वराज्यं प्राप्य सुग्रीवस्समानीय हरीश्वरान् ।
त्वदर्थं प्रेषयामास दिशो दश महाबलान् ॥ 53 ॥

आदिष्टा वानरेन्द्रेण सुग्रीवेण महौजसा ।
अद्रिराजप्रतीकाशास्सर्वतः प्रस्थितौ महीम् ॥ 54 ॥

ततस्ते मार्गमाणा वै सुग्रीववचनातुराः ।
चरन्ति वसुधां कृत्स्नां वयमन्ये च वानराः ॥ 55 ॥

अङ्गदो नाम लक्ष्मीवान्वालिसूनुर्महाबलः ।
प्रस्थितः कपिशार्दूलस्त्रिभागबलसंवृतः ॥ 56 ॥

तेषां नो विप्रणष्टानां विन्ध्ये पर्वतसत्तमे ।
भृशं शोकपरीतानामहोरात्रगणा गताः ॥ 57 ॥

ते वयं कार्यनैराश्यात्कालस्यातिक्रमेण च ।
भयाच्च कपिराजस्य प्राणांस्त्यक्तुं व्यवस्थिताः ॥ 58 ॥

विचित्य वनदुर्गाणि गिरिप्रस्रवणानि च ।
अनासाद्य पदं देव्याः प्राणांस्त्यक्तुं समुद्यताः ॥ 59 ॥

दृष्ट्वा प्रायोपविष्टांश्च सर्वान्वानरपुङ्गवान् ।
भृशं शोकार्णवे मग्नः पर्यदेवयदङ्गदः ॥ 60 ॥

तव नाशं च वैदेहि वालिनश्च वधं तथा ।
प्रायोपवेशमस्माकं मरणं च जटायुषः ॥ 61 ॥

तेषां नस्वामिसन्देशान्निराशानां मुमूर्षताम् ।
कार्यहेतोरिवायातश्शकुनिर्वीर्यवान्महान् ॥ 62 ॥

गृध्रराजस्य सोदर्यः सम्पातिर्नाम गृध्रराट् ।
श्रुत्वा भ्रातृवधं कोपादिदं वचनमब्रवीत् ॥ 63 ॥

यवीयान्केन मे भ्राता हतः क्व च निपातितः ।
एतदाख्यातुमिच्छामि भवद्भिर्वानरोत्तमाः ॥ 64 ॥

अङ्गदोऽकथयत्तस्य जनस्थाने महद्वधम् ।
रक्षसा भीमरूपेण त्वामुद्दिश्य यथातथम् ॥ 65 ॥

जटायुषो वधं श्रुत्वा दुःखितस्सोऽरुणात्मजः ।
त्वां शशंस वरारोहे वसन्तीं रावणालये ॥ 66 ॥

तस्य तद्वचनं श्रुत्वा सम्पातेः प्रीतिवर्धनम् ।
अङ्गदप्रमुखास्तूर्णं ततस्सम्प्रस्थिता वयम् ॥ 67 ॥

विन्ध्यादुत्थाय सम्प्राप्ता स्सागरस्यान्तमुत्तरम् ।
त्वद्धर्शनकृतोत्साहा हृष्टास्तुष्टाः प्लवङ्गमाः ॥ 68 ॥

अङ्गदप्रमुखास्सर्वे वेलोपान्तमुपस्थिताः ।
चिन्तां जग्मुः पुनर्भीतास्त्वद्दर्शनसमुत्सुकाः ॥ 69 ॥

अथाहं हरिसैन्यस्य सागरं प्रेक्ष्य सीदतः ।
व्यवधूय भयं तीव्रं योजनानां शतं प्लुतः ॥ 70 ॥

लङ्का चापि मया रात्रौ प्रविष्टा राक्षसाकुला ।
रावणश्च मया दृष्टस्त्वं च शोकपरिप्लुता ॥ 71 ॥

एतत्ते सर्वमाख्यातं यथावृत्तमनन्दिते ।
अभिभाषस्व मां देवि दूतो दाशरथेरहम् ॥ 72 ॥

तं मां रामकृतोद्योगं त्वन्निमित्तमिहागतम् ।
सुग्रीवसचिवं देवि बुद्ध्यस्व पवनात्मजम् ॥ 73 ॥

कुशली तव काकुत्स्थस्सर्वशस्त्रभृतां वरः ।
गुरोराराधने युक्तो लक्ष्मणश्च सुलक्षणः ॥ 74 ॥

तस्य वीर्यवतो देवि भर्तुस्तव हिते रतः ।
अहमेकस्तु सम्प्राप्त स्सुग्रीववचनादिह ॥ 75 ॥

मयेयमसहायेन चरता कामरूपिणा ।
दक्षिणा दिगनुक्रान्ता त्वन्मार्गविचयैषिणा ॥ 76 ॥

दिष्ट्याहं हरिसैन्यानां त्वन्नाशमनुशोचताम् ।
अपनेष्यामि सन्तापं तवाभिगमशंसनात् ॥ 77 ॥

दिष्ट्या हि मम न व्यर्थं देवि सागरलङ्घनम् ।
प्राप्स्याम्यहमिदं दिष्ट्या त्वद्दर्शनकृतं यशः ॥ 78 ॥

राघवश्च महावीर्यः क्षिप्रं त्वामभिपत्स्यते ।
समित्रबान्धवं हत्वा रावणं राक्षसाधिपम् ॥ 79 ॥

माल्यवान्नाम वैदेहि गिरीणामुत्तमो गिरिः ।
ततो गच्छति गोकर्णं पर्वतं केसरी हरिः ॥ 80 ॥

स च देवर्षिभिर्दिष्टः पिता मम महाकपिः ।
तीर्थे नदीपतेः पुण्ये शम्बसादनमुद्धरत् ॥ 81 ॥

तस्याहं हरिणः क्षेत्रे जातो वातेन मैथिलि ।
हनुमानिति विख्यातो लोके स्वेनैव कर्मणा ॥ 82 ॥

विश्वासार्थं तु वैदेहि भर्तुरुक्ता मया गुणाः ।
अचिराद्राघवो देवि त्वामितो नयिताऽनघे ॥ 83 ॥

एवं विश्वासिता सीता हेतुभिश्शोककर्शिता ।
उपपन्नैरभिज्ञानैर्दूतं तमवगच्छति ॥ 84 ॥

अतुलं च गता हर्षं प्रहर्षेण च जानकी ।
नेत्राभ्यां वक्रपक्ष्माभ्यां मुमोचानन्दजं जलम् ॥ 85 ॥

चारु तद्वदनं तस्यास्ताम्रशुक्लायतेक्षणम् ।
अशोभत विशालाक्ष्या राहुमुक्त इवोडुराट् ॥ 86 ॥

हनुमन्तं कपिं व्यक्तं मन्यते नान्यथेति सा ।
अथोवाच हनूमांस्तामुत्तरं प्रियदर्शनाम् ॥ 87 ॥

एतत्ते सर्वमाख्यातं समाश्वसिहि मैथिलि ।
किं करोमि कथं वा ते रोचते प्रतियाम्यहम् ॥ 88 ॥

हतेऽसुरे संयति शम्बसादने कपिप्रवीरेण महर्षिचोदनात् ।
ततोऽस्मि वायुप्रभवो हि मैथिलि प्रभावतस्तत्प्रतिमश्च वानरः ॥ 89 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे पञ्चत्रिंशस्सर्गः ॥




Browse Related Categories: