श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ द्विषष्टितमस्सर्गः ।
एवमुक्ता मुनिश्रेष्ठ मरुदं दुःखितो भृशम् ।
अथ ध्यात्वा मुहूर्तं तु भगवानिदमब्रवीत् ॥ 1 ॥
पक्षौ तु ते प्रपक्षौ च पुनरन्यौभविष्यतः ।
प्राणाश्च चक्षुषी चैव विक्रमश्च बलं च ते ॥ 2 ॥
पुराणे सुमहत्कार्यं भविष्यति मया श्रुतम् ।
दृष्टं मे तपसा चैव श्रुत्वा च विदितं मम ॥ 3 ॥
राजा दशरथो नाम कश्चिदिक्ष्वाकुनन्दनः ।
तस्य पुत्रो महातेजा रमोनाम भविष्यति ॥ 4 ॥
अरण्यं च सह र्भात्रा लक्ष्मणेनगमिष्यति ।
अस्मिन्नर्थे नियुक्त स्सन्पित्रा सत्यपराक्रमः ॥ 5 ॥
नैऋतो रावणो नाम तस्य भार्यां हरिष्यति ।
राक्षसेन्द्रो जनस्थनादवध्य स्सुरदानवैः ॥ 6 ॥
सा च कामैः प्रलोभ्यन्ती भक्ष्यैःभोज्यैश्च मैथिली ।
नभोक्ष्यति महाभागा दुःखे मग्ना यशस्विनी ॥ 7 ॥
परमान्नन्तु वैदेह्या ज्ञात्वा दास्यति वा सः ।
यदन्नममृतप्रख्यं सुराणामपिदुर्लभम् ॥ 8 ॥
तदन्नं मैथिलीप्राप्य विज्ञायेन्द्रादिदन्त्विति ।
अग्रमुदृत्य रामाय भूतले निर्वपिष्यति ॥ 9 ॥
यदि जीवति मे भर्ता लक्ष्मणेन सह प्रभुः ।
देवत्वं गच्छ्तो र्वापि तयो रन्नमिदन्त्विति ॥ 10 ॥
एष्यन्त्यन्वेषका स्तस्या रामदूताः प्लवाङ्गमाः ।
आख्येया राम महीषी त्वया तेभ्यो विहङ्गम ॥ 11 ॥
सर्वथा हि नगन्तव्यमीदृशः क्व गमिष्यसि ।
देशकालौ प्रतीक्षस्व पक्षौ त्वं प्रतिपत्स्यसे ॥ 12 ॥
नोत्सहेयमहङ्कर्तुमध्यैव त्वां सपक्षकम् ।
इहस्थ स्त्वं तु लोकानां हितं कार्यं करिष्यसि ॥ 13 ॥
त्वयापि खलु तत्कार्यं तयोश्चनृपपुत्रयोः ।
ब्राह्मणानां सुराणां च मुनीनां वासवस्य च ॥ 14 ॥
इच्छाम्यहमपिद्रष्टुं भ्रातरौ रामलक्ष्मणौ ।
नेच्छेचिरं धारयुतुं प्राणां स्त्यक्ष्ये कलेबरम् ।
महर्षि स्त्वब्रवीदेवं दृष्टतत्वार्थदर्शनः ॥ 15 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे द्विषष्टितमस्सर्गः ॥