श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ अष्टादशस्सर्गः ।
इत्युक्तः प्रश्रितं वाक्यं धर्मार्थसहितं हितम् ।
परुषं वालिना रामो निहतेन विचेतसा ॥ 1 ॥
तं निष्प्रभमिवादित्यं मुक्ततोयमिवाम्बुदम् ।
उक्तवाक्यं हरिश्रेष्ठमुपशान्तमिवानलम् ॥ 2 ॥
धर्मार्थगुणसम्पन्नं हरीश्वरमनुत्तमम् ।
अधिक्षिप्तस्तदा रामः पश्चाद्वालिनमब्रवीत् ॥ 3 ॥
धर्ममर्थं च कामं च समयं चापि लौकिकम् ।
अविज्ञाय कथं बाल्यान्मामिहाद्य विगर्हसे ॥ 4 ॥
अपृष्ट्वा बुद्धिसम्पन्नान्वृद्धानाचार्यसम्मतान् ।
सौम्य वानरचापल्यात्किं मावक्तुमिहेच्छसि ॥ 5 ॥
इक्ष्वाकूणामियं भूमिस्सशैलवनकानना ।
मृगपक्षिमनुष्याणां निग्रहप्रग्रहावपि ॥ 6 ॥
तां पालयति धर्मात्मा भरतस्सत्यवागृजुः ।
धर्मकामार्थतत्त्वज्ञो निग्रहानुग्रहे रतः ॥ 7 ॥
नयश्च विनयश्चोभौ यस्मिन्सत्यं च सुस्थितम् ।
विक्रमश्च यथा दृष्टस्स राजा देशकालवित् ॥ 8 ॥
तस्य धर्मकृतादेशा वयमन्ये च पार्थिवाः ।
चरामो वसुधां कृत्स्नां धर्मसन्तानमिच्छवः ॥ 9 ॥
तस्मिन्नृपतिशार्दूले भरते धर्मवत्सले ।
पालयत्यखिलां भूमिं कश्चरेद्धर्मनिग्रहम् ॥ 10 ॥
ते वयं धर्मविभ्रष्टं स्वधर्मे परमे स्थिताः ।
भरताज्ञां पुरस्कृत्य निगृह्णीमो यथाविधि ॥ 11 ॥
त्वं तु सङ्क्लिष्टधर्मा च कर्मणा च विगर्हितः ।
कामतन्त्रप्रधानश्च न स्थितो राजवर्त्मनि ॥ 12 ॥
ज्येष्ठो भ्राता पिता चैव यश्च विद्यां प्रयच्छति ।
त्रयस्ते पितरो ज्ञेया धर्म्ये च पथि वर्तिनः ॥ 13 ॥
यवीयानात्मनः पुत्रशशिष्यश्चापि गुणोदितः ।
पुत्रवत्ते त्रयश्चिन्त्या धर्मश्चेदत्रकारणम् ॥ 14 ॥
सूक्ष्मः परमदुरजेयस्सतां धर्मः प्लवङ्गम ।
हृदिस्थस्सर्वभूतानामात्मा वेद शुभाशुभम् ॥ 15 ॥
चपलश्चपलैस्सार्धं वानरैरकृतात्मभिः ।
जात्यन्ध इव जात्यन्धैर्मन्त्रयन् प्रेक्षसे नु किम् ॥ 16 ॥
अहं तु व्यक्ततामस्य वचनस्य ब्रवीमि ते ।
न हि मां केवलं रोषात्त्वं विगर्हितुमर्हसि ॥ 17 ॥
तदेतत्कारणं पश्य यदर्थं त्वं मया हतः ।
भ्रातुर्वर्तसि भार्यायां त्यक्त्वा धर्मं सनातनम् ॥ 18 ॥
अस्य त्वं धरमाणस्य सुग्रीवस्य महात्मनः ।
रुमायां वर्तसे कामात्स्नुषायां पापकर्मकृत् ॥ 19 ॥
तद्व्यतीतस्य ते धर्मात्कामवृत्तस्य वानर ।
भ्रातृभार्यावमर्शेऽस्मिन्दण्डोऽयं प्रतिपादितः ॥ 20 ॥
न हि धर्मविरुद्धस्य लोकवृत्तादपेयुषः ।
दण्डादन्यत्र पश्यामि निग्रहं हरियूथप ॥ 21 ॥
न हि ते मर्षये पापं क्षत्रियोऽहं कुलोद्भवः ।
औरसीं भगिनीं वापि भार्यां वाप्यनुजस्य यः ॥ 22 ॥
प्रचरेत नरः कामात्तस्य दण्डो वधः स्मृतः ।
भरतस्तु महीपालो वयं त्वादेशवर्तिनः ॥ 23 ॥
त्वं तु धर्मादतिक्रान्तः कथं शक्यं उपेक्षितुम् ।
गुरूर्धर्मव्यतिक्रान्तं प्राज्ञो धर्मेण पालयन् ॥ 24 ॥
भरतः कामवृत्तानां निग्रहे पर्यवस्थितः ।
वयं तु भरतादेश विधिं कृत्वा हरीश्वर ।
त्वद्विधान्भिन्नमर्यादान्नियन्तुपर्यवस्थिताः ॥ 25 ॥
सुग्रीवेण च मे सख्यं लक्ष्मणेन यथा तथा ।
दारराज्यनिमित्तं च निःश्रेयसि रत स्स मे ॥ 26 ॥
प्रतिज्ञा च मया दत्ता तदा वानरसन्निधौ ।
प्रतिज्ञा च कथं शक्या मद्विधेनानवेक्षितुम् ॥ 27 ॥
तदेभिः कारणैस्सर्वैर्महद्भिर्धर्मसंहितैः ॥ 28 ॥
शासनं तप यद्युक्तं तद्भवाननुमन्यताम् ।
सर्वथा धर्म इत्येव द्रष्टव्यस्तव निग्रहः ॥ 29 ॥
वयस्यस्योपकर्तव्यं धर्ममेवानुपश्यतः ।
शक्यं त्वयाऽपि तत्कार्यं धर्ममेवानुपश्यता ॥ 30 ॥
श्रूयते मनुना गीतौ श्लोकौ चारित्रवत्सलौ ।
गृहीतौ धर्मकुशलैस्तत्तथा चरितं हरे ॥ 31 ॥
राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः ।
निर्मलास्स्वर्गमायान्ति सन्तस्सुकृतिनो यथा ॥ 32 ॥
शासनाद्वाऽपिमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते ।
राजात्वशासन्पापस्य तदवाप्नोति किल्बिषम् ॥ 33 ॥
आर्येण मम मान्धात्रा व्यसनं घोरमीप्सितम् ।
श्रमणेन कृते पापे यथा पापं कृतं त्वया ॥ 34 ॥
अन्यैरपि कृतं पापं प्रमत्तैर्वसुधाधिपैः ।
प्रायश्चित्तं च कुर्वन्ति तेन तच्छाम्यते रजः ॥ 35 ॥
तदलं परितापेन धर्मतः परिकल्पितः ।
वधो वानरशार्दूल न वयं स्ववशे स्थिताः ॥ 36 ॥
शृणु चाप्यपरं भूयः कारणं हरिपुङ्गव ।
यच्छ्रुत्वा हेतुमद्वीर न मन्युं कर्तुमर्हसि ॥ 37 ॥
न मे तत्र मनस्तापो न मन्युर्हरिपुङ्गव ।
वागुराभिश्च पाशैश्च कूटैश्च विविधैर्नराः ॥ 38 ॥
प्रतिच्छन्नाश्च दृश्याश्च गृह्णन्ति सुबहून्मृगान् ।
प्रधावितान्वा वित्रस्तान्विस्रब्धांश्चापि निष्ठितान् ॥ 39 ॥
प्रमत्तानप्रमत्तान्वा नरा मांसार्थिनो भृशम् ।
विध्यन्ति विमुखांश्चापि न च दोषोऽत्र विद्यते ॥ 40 ॥
यान्ति राजर्षयश्चात्र मृगयां धर्मकोविदाः ।
तस्मात्त्वं निहतो युद्धे मया बाणेन वानर ॥ 41 ॥
अयुध्यन्प्रतियुध्यन्वा यस्माच्छाखामृगो ह्यसि ।
दुर्लभस्य च धर्मस्य जीवितस्य शुभस्य च ॥ 42 ॥
राजानो वानरश्रेष्ठ प्रदातारो न संशयः ।
तान्न हिंस्यान्न चाक्रोशेन्नाक्षिपेन्नाप्रियं वदेत् ॥ 43 ॥
देवा मानुषरूपेण चरन्त्येते महीतले ।
त्वं तु धर्ममविज्ञाय केवलं रोषमास्थितः ॥ 44 ॥
प्रदूषयसि मां धर्मे पितृपैतामहे स्थितम् ।
एवमुक्तस्तु रामेण वाली प्रव्यथितो भृशम् ॥ 45 ॥
न दोषं राघवे दध्यौ धर्मेऽधिगतनिश्चयः ।
प्रत्युवाच ततो रामं प्राञ्जलिर्वानरेश्वरः ॥ 46 ॥
यत्त्वमात्थ नरश्रेष्ठ तदेवं नात्र संशयः ।
प्रतिवक्तुं प्रकृष्टे हि नापकृष्टस्तु शक्नुयात् ॥ 47 ॥
यदयुक्तं मया पूर्वं प्रमादाद्वाक्यमप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ।
तदयुक्तं मया पूर्वं प्रमादादुक्तमप्रियम् ।
तत्रापि खलु मे दोषं कर्तुं नार्हसि राघव ॥ 48 ॥
त्वं हि दृष्टार्थतत्त्वज्ञः प्रजानां च हिते रतः ।
कार्यकारणसिद्धौ च प्रसन्ना बुद्धिरव्यया ॥ 49 ॥
मामप्यगतधर्माणं व्यतिक्रान्तपुरस्कृतम् ।
धर्मसंहितया वाचा धर्मज्ञ परिपालय ॥ 50 ॥
न त्वात्मानमहं शोचे न तारां न च बान्धवान् ।
यथा पुत्रं गुणज्येष्ठमङ्गदं कनकाङ्गदम् ॥ 51 ॥
स ममादर्शनाद्दीनो बाल्यात्प्रभृति लालितः ।
तटाक इव पीताम्बुरुपशोषं गमिष्यति ॥ 52 ॥
बालश्चाकृतबुद्धिश्च एकपुत्रश्च मे प्रियः ।
तारेयो राम भवता रक्षणीयो महाबलः ॥ 53 ॥
सुग्रीवे चाङ्गदे चैव विधत्स्व मतिमुत्तमाम् ।
त्वं हि शास्ता च गोप्ता च कार्याकार्यविधौ स्थितः ॥ 54 ॥
या ते नरपते वृत्तिर्भरते लक्ष्मणे च या ।
सुग्रीवे चाङ्गदे राजंस्तां त्वमाधातुमिहासि ॥ 55 ॥
मद्दोषकृतदोषां तां यथा तारां तपस्विनीम् ।
सुग्रीवो नावमन्येत तथाऽवस्थातुमर्हसि ॥ 56 ॥
त्वया ह्यनुगृहीतेन राज्यं शक्यमुपासितुम् ॥ 57 ॥
त्वद्वशे वर्तमानेन तव चित्तानुवर्तिना ।
शक्यं दिवं चार्जयितुं वसुधां चापि शासितुम् ॥ 58 ॥
त्वत्तोऽहं वधमाकाङ्क्षन्वार्यमाणोऽपि तारया ।
सुग्रीवेण सह भ्रात्रा द्वन्द्वयुद्धमुपागतः ॥ 59 ॥
इत्युक्त्वा सन्नतो रामं विरराम हरीश्वरः ।
स तमाश्वासयद्रामो वालिनं व्यक्तदर्शनम् ॥ 60 ॥
सामसम्पन्नया वाचा धर्मतत्त्वार्थयुक्तया ।
न सन्तापस्त्वया कार्य एतदर्थं प्लवङ्गम ॥ 61 ॥
न वयं भवता चिन्त्या नाप्यात्मा हरिसत्तम ।
वयं भवद्विशेषेण धर्मतः कृतनिश्चयाः ॥ 62 ॥
दण्ड्ये यः पातयेद्दण्डं दण्ड्यो यश्चापि दण्ड्यते ।
कार्यकारणसिद्धार्था वुभौ तौ नावसीदतः ॥ 63 ॥
तद्भवान्दण्डसंयोगादस्माद्विगतकल्मषः ।
गतस्स्वां प्रकृतिं धर्म्यं धर्मदृष्टेन वर्त्मना ॥ 64 ॥
त्यज शोकं च मोहं च भयं च हृदये स्थितम् ।
त्वया विधानं हर्यग्र्य न शक्यमतिवर्तितुम् ॥ 65 ॥
यथा त्वय्यङ्गदो नित्यं वर्तते वानरेश्वर ।
तथा वर्तेत सुग्रीवे मयि चापि न संशयः ॥ 66 ॥
स तस्य वाक्यं मधुरं महात्मन स्समाहितं धर्मपथानुवर्तिनः ।
निशम्य रामस्य रणावमर्दिनो वचस्सुयुक्तं निजगाद वानरः ॥ 67 ॥
शराभितप्तेन विचेतसा मया प्रदूषितस्त्वं यदजानता प्रभो ।
इदं महेन्द्रोपम भीमविक्रम प्रसादितस्त्वं क्षम मे नरेश्वर ॥ 68 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे अष्टादशस्सर्गः ॥