View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.40 बालकाण्ड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चत्वारिंशस्सर्गः ।

. देवतानां वचश्श्रुत्वा भगवान्वै पितामहः ।
प्रत्युवाच सुसन्त्रस्तान्कृतान्तबलमोहितान् ॥ 1 ॥

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ 2 ॥

तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ।
पृथिव्याश्चापि निर्भेदोऽदृष्ट एव सनातनः ॥ 3 ॥

सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ।
पितामहवचश्श्रुत्वा त्रयस्त्रिंशदरिन्दम ॥ 4 ॥

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ 5 ॥

पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ।
ततो भित्वा महीं सर्वे कृत्वा चाभिप्रदक्षिणम् ॥ 6 ॥

सहिता स्सगरास्सर्वे पितरं वाक्यमब्रुवन् ।
0 परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ॥ 7 ॥

देवदानवरक्षांसि पिशाचोरगकिन्नराः ।
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ॥ 8 ॥

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ 9 ॥

समन्युरब्रवीद्वाक्यं सगरो रघुनन्दन ।
भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ॥ 10 ॥

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।
पितुर्वचनमासाद्य सगरस्य महात्मनः ॥ 11 ॥

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ॥ 12 ॥

दिशागजं विरूपाक्षं धारयन्तं महीतलम् ।
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ॥ 13 ॥

शिरसा धारयामास विरूपाक्षो महागजः ।
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ॥ 14 ॥

खेदाच्चालयते शीर्षं भूमिकम्पस्तदाभवेत् ।
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ 15 ॥

मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ।
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ॥ 16 ॥

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।
महापद्मं महात्मानं सुमहत्पर्वतोपमम् ॥ 17 ॥

शिरसा धारयन्तं ते विस्मयं जग्मुरुत्तमम् ।
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ 18 ॥

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
पश्चिमायामपि दिशि महान्तमचलोपमम् ॥ 19 ॥

दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।
खनन्त स्समुपक्रान्ता दिशं हैमवतीं ततः ॥ 20 ॥

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ॥ 21 ॥

भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ।
समालभ्य तत स्सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ 22 ॥

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ 23 ॥

रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।
ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ 24 ॥

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
हयं च तस्य देवस्य चरन्तमविदूरतः ॥ 25 ॥

प्रहर्षमतुलं प्राप्तास्सर्वे ते रघुनन्दन ।
ते तं हयवरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ 26 ॥

खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ।
अभ्यधावन्त सङ्क्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ 27 ॥

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।
दुर्मेधस्त्वं हि सम्प्राप्तान् विद्धि नस्सगरात्मजान् ॥ 28 ॥

श्रुत्वा तु वचनं तेषां कपिलो रघुनन्दन ।
रोषेण महताऽऽविष्टो हुङ्कारमकरोत्तदा ॥ 29 ॥

ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
भस्मराशीकृतास्सर्वे काकुत्स्थ सगरात्मजाः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चत्वारिंशस्सर्गः ॥




Browse Related Categories: