View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

5.4 सुन्दरकाण्ड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ चतुर्थस्सर्गः ।

स निर्जित्य पुरीं श्रेष्ठां लङ्कां तां कामरूपिणीम् ।
विक्रमेण महातेजा हनुमान् कपिसत्तमः ॥ 1 ॥

अद्वारेण च महाबाहुः प्राकारमभिपुप्लुवे ।
प्रविश्य नगरीं लङ्कां कपिराजहितङ्करः ॥ 2 ॥

चक्रेऽथ पादं सव्यं च शत्रूणां स तु मूर्धनि ।
प्रविष्टः सत्त्वसम्पन्नो निशायां मारुतात्मजः ॥ 3 ॥

स महापथमास्थाय मुक्तापुष्पविराजितम् ।
ततस्तु तां पुरीं लङ्कां रम्यामभिययौ कपिः ॥ 4 ॥

हसितोत्कृष्टनिनदैस्तूर्यघोषपुरस्सरैः ।
वज्राङ्कुशनिकाशैश्च वज्रजालविभूषितैः ॥ 5 ॥

गृहमेघैः पुरी रम्या बभासे द्यौरिवाम्बुदैः ।
प्रजज्वाल ततो लङ्का रक्षोगणगृहैः शुभैः ॥ 6 ॥

सिताभ्रसदृशैश्चित्रैः पद्मस्वस्तिकसंस्थितैः ।
वर्धमानगृहैश्चापि सर्वतः सुविभूषिता ॥ 7 ॥

तां चित्रमाल्याभरणां कपिराजहितङ्करः ।
राघवार्थं चरन् श्रीमान् ददर्श च ननन्द च ॥ 8 ॥

भवनाद्भवनं गच्छन् ददर्श पवनात्मजः ।
विविधाकृतिरूपाणि भवनानि ततस्ततः ॥ 9 ॥

शुश्राव मधुरं गीतं त्रिस्थानस्वरभूषितम् ।
स्त्रीणां मदसमृद्धानां दिवि चाप्सरसामिव ॥ 10 ॥

शुश्राव काञ्चीनिनदं नूपुराणां च, निःस्वनम् ।
सोपाननिनदांश्चैव भवनेषु महात्मनाम् ॥ 11 ॥

अस्फोटितनिनादांश्च क्ष्वेलितांश्च ततस्ततः ।
शुश्राव जपतां तत्र मन्त्रान् रक्षोगृहेषु वै ॥ 12 ॥

स्वाध्यायनिरतांश्चैव यातुधानान् ददर्श सः ।
रावणस्तवसंयुक्तान् गर्जतो राक्षसानपि ॥ 13 ॥

राजमार्गं समावृत्य स्थितं रक्षोबलं महत् ।
ददर्श मध्यमे गुल्मे रावणस्य चरान् बहून् ॥ 14 ॥

दीक्षितान् जटिलान् मुण्डान् गोजिनाम्बरवाससः ।
दर्भमुष्टिप्रहरणानग्निकुण्डायुघांस्तथा ॥ 15 ॥

कूटमुद्गरपाणींश्च दण्डायुधधरानपि ।
एकाक्षानेककर्णांश्च लम्बोदरपयोधरान् ॥ 16 ॥

करालान् भुग्नवक्त्रांश्च विकटान् वामनांस्तथा ।
धन्विनः खङ्गिनश्चैव शतघ्नीमुसलायुधान् ॥ 17 ॥

परिघोत्तमहस्तांश्च विचित्रकवचोज्ज्वलान् ।
नातिस्थूलान्नातिकृशान्नातिदीर्घातिह्रस्वकान् ॥ 18 ॥

नातिगौरान्नातिकृष्णान्नातिकुब्जान्न वामनान् ।
विरूपान् बहुरूपांश्च सुरूपांश्च सुवर्चसः ॥ 19 ॥

ध्वजीन् पताकिनश्चैव ददर्श विविधायुधान् ।
शक्तिवृक्षायुधांश्चैव पट्टिसाशनिधारिणः ॥ 20 ॥

क्षेपणीपाशहस्तांश्च ददर्श स महाकपिः ।
स्रग्विणस्त्वनुलिप्तांश्च वराभरणभूषितान् ॥ 21 ॥

नानावेषसमायुक्तान् यथास्स्वैरगतान् बहून् ।
तीक्ष्णशूलधरांश्चैव वज्रिणश्च महाबलान् ॥ 22 ॥

शतसाहस्रमव्यग्रमारक्षं मध्यमं कपिः ।
रक्षोधिपतिनिर्दिष्टं ददर्शान्तःपुराग्रतः ॥ 23 ॥

स तदा तद्गृहं दृष्ट्वा महाहाटकतोरणम् ।
राक्षसेन्द्रस्य विख्यातमद्रिमूर्ध्नि प्रतिष्ठितम् ॥ 24 ॥

पुण्डरीकावतंसाभिः परिखाभिरलङ्कृतम् ।
प्राकारावृतमत्यन्तं ददर्श स महाकपिः ॥ 25 ॥

त्रिविष्टपनिभं दिव्यं दिव्यनादनिनादितम् ।
वाजिहेषितसङ्घुष्टं नादितं भूषणैस्तथा ॥ 26 ॥

रथैर्यानैर्विमानैश्च तथा हयगजैः शुभैः ।
वारणैश्च चतुर्थन्तैः श्वेताभ्रनिचयोपमैः ॥ 27 ॥

भूषितं रुचिरद्वारं मत्तैश्च मृगपक्षिभिः ।
रक्षितं सुमहावीर्यैर्यातुधानैः सहस्रशः ।
राक्षसाधिपतेर्गुप्तमाविवेश महाकपिः ॥ 28 ॥

सहेमजाम्बूनदचक्रवालं महार्हमुक्तामणिभूषितान्तम् ।
परार्थ्यकालागुरुचन्दनाक्तं स रावणान्तःपुरमाविवेश ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे चतुर्थस्सर्गः ॥




Browse Related Categories: