श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ सप्तपञ्चाशस्सर्गः ।
तत्तु श्रुत्वा तथा वाक्यमङ्गदस्य मुखोद्गतम् ।
अब्रवीद्वचनं गृध्रस्तीक्ष्णतुण्डो महास्वनः ॥ 1 ॥
कोऽयं गिरा घोषयति प्राणैः प्रियतमस्य मे ।
जटायुषो वधं भ्रातुः कम्पयन्निव मे मनः ॥ 2 ॥
कथमासीज्जनस्थाने युद्धं राक्षसगृध्रयोः ।
नामधेयमिदं भ्रातुश्चिरस्याद्य मया श्रुतम् ॥ 3 ॥
इच्छेयं गिरिदुर्गाच्च भवद्भिरवतारितुम् ।
यवीयसो गुणज्ञस्य श्लाघनीयस्य विक्रमैः ॥ 4 ॥
अतिदीर्घस्य कालस्य परितुष्टोऽस्मि परिकीर्तनात् ।
तदिच्छेयमहं श्रोतुं विनाशं वानरर्षभाः ॥ 5 ॥
भ्रातुर्जटायुषस्तस्य जनस्थाननिवासिनः ।
तस्यैव च मम भ्रातुस्सखा दशरथः कथम् ॥ 6 ॥
यस्य रामः प्रियः पुत्रो ज्येष्ठो गुरुजनप्रियः ।
सूर्यांशुदग्धपक्षत्वान्न शक्नोम्युपसर्पितुम् ॥ 7 ॥
इच्छेयं पर्वतादस्मादवतर्तु मरिन्दमाः ।
शोकाद्भ्रष्टस्वरमपि श्रुत्वा ते हरियूथपाः ।
श्रद्दधुर्नैव तद्वाक्यं कर्मणा तस्य शङ्किताः ॥ 8 ॥
ते प्रायमुपविष्टास्तु दृष्ट्वा गृध्रं प्लवङ्गमाः ।
चक्रुर्बुद्धिं तदा रौद्रां सर्वान्नो भक्षयिष्यति ॥ 9 ॥
सर्वथा प्रायमासीनान्यदि नो भक्षयिष्यति ।
कृतकृत्या भविष्यामः क्षिप्रं सिद्धिमितो गताः ॥ 10 ॥
एतां बुद्धिं ततश्चक्रुस्सर्वे ते वानरर्षभाः ।
अवतार्य गिरेश्शृङ्गाद्गृध्रमाहाङ्गदस्तदा ॥ 11 ॥
बभूवर्क्षरजा नाम वानरेन्द्रः प्रतापवान् ।
ममार्यः पार्थिवः पक्षिन् धार्मिक स्तस्य चात्मजौ ॥ 12 ॥
सुग्रीवश्चैव वाली च पुत्रावोघबलावुभौ ।
लोकेविश्रुतकर्माभूद्राजा वाली पिता मम ॥ 13 ॥
राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः ।
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् ॥ 14 ॥
लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।
पितुर्निदेशनिरतो धर्म्यं पन्थानमाश्रितः ॥ 15 ॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।
रामस्य तु पितुर्मित्रं जटायुर्नाम गृध्रराट् ॥ 16 ॥
ददर्श सीतां वैदेहीं ह्रियमाणां विहायसा ।
रावणं विरथं कृत्वा स्थापयित्वा च मैथिलीम् ।
परिश्रान्तश्च वृद्धश्च रावणेन हतो रणे ॥ 17 ॥
एवं गृध्रो हतस्तेन रावणेन बलीयसा ।
संस्कृतश्चापि रामेण गतश्च गतिमुत्तमाम् ॥ 18 ॥
ततो मम पितृव्येण सुग्रीवेण महात्मना ।
चकार राघवस्सख्यं सोऽवधीत्पितरं मम ॥ 19 ॥
मम पित्रा विरुद्धो हि सुग्रीवस्सचिवैस्सह ।
निहत्य वालिनं रामस्ततस्तमभिषेचयत् ॥ 20 ॥
स राज्ये स्थापितस्तेन सुग्रीवो वानराधिपः ।
राजा वानरमुख्यानां येन प्रस्थापिता वयम् ॥ 21 ॥
एवं रामप्रयुक्तास्तु मार्गमाणास्ततस्ततः ।
वैदेहीं नाधिगच्छामो रात्रौ सूर्यप्रभामिव ॥ 22 ॥
ते वयं दण्डकारण्यं विचित्य सुसमाहिताः ॥ 23 ॥
अज्ञानात्तु प्रविष्टास्स्म धर्मिण्या विवृतं बिलम् ।
मयस्य मायाविहितं तद्बिलं च विचिन्वताम् ॥ 24 ॥
व्यतीतस्तत्र नो मासो यो राज्ञा समयः कृतः ।
ते वयं कपिराजस्य सर्वे वचनकारिणः ॥ 25 ॥
कृतां संस्थामतिक्रान्ता भयात्प्रायमुपास्महे ।
क्रुद्धे तस्मिंस्तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तपञ्चाशस्सर्गः ॥