View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.100 अयोध्याकाण्ड - शततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ शततमस्सर्गः ।

जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
ददर्श रामो दुर्दर्शं युगान्ते भास्करंयथा ॥ 1 ॥

कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2 ॥

आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
अङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥ 3 ॥

क्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः ।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ 4 ॥

चिरस्य बत पश्यामि दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥ 5 ॥

कच्चिद्धारयते तात राजा यत्त्वमिहाऽगतः ।
कच्चिन्न दीन स्सहसा राजा लोकान्तरं गतः ॥ 6 ॥

कच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ।
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 7 ॥

कच्चिद्धशरथो राजा कुशली सत्यसंङ्गरः ।
राजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ॥ 8 ॥

स कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 9 ॥

सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥ 10 ॥

कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 11 ॥

कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥ 12 ॥

कच्चिद्देवान्पित्रून् मातृर्गुरून्पितृसमानपि ।
वृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 13 ॥

इष्वस्त्रवरसम्पन्नमर्थशास्त्र विशारदम् ।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 14 ॥

कच्चिदात्मसमा श्शूरा श्श्रुतवन्तो जितेन्द्रियाः ।
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ 15 ॥

मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैरमात्यै श्शास्त्रकोविदैः ॥ 16 ॥

कच्चिन्निद्रावशं नैषीः कच्चित् कालेऽवबुध्यसे ।
कच्चिच्चापररात्रेषु चिन्तियस्यर्थनैपुणम् ॥ 17 ॥

कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ 18 ॥

कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥ 19 ॥

कच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ 20 ॥

कच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।
त्वया वा तवामात्यैर्बुध्यते तात मन्त्रितम् ॥ 21 ॥

कच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् ॥ 22 ॥

सहस्राण्यपि मूर्खाणां युद्युपास्ते महीपतिः ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ 23 ॥

एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ 24 ॥

कच्चिन्मुख्या महात्स्वेव मध्यमेषु च मध्यमाः ।
जघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥ 25 ॥

अमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन् ।
श्रेष्ठाञ्छ्रेष्ठेषुकच्चित्वं नियोजयसि कर्मसु ॥ 26 ॥

कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।
राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ 27 ॥

कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 28 ॥

उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हन्ति स हन्यते ॥ 29 ॥

कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः ।
कुलीनश्चानुरक्तश्च दक्षस्सेनापतिः कृतः ॥ 30 ॥

बलवन्तश्च कच्चित्ते मुख्या युध्दविशारदाः ।
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः ॥ 31 ॥

कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ 32 ॥

कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।
भर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थ स्सुमहान् स्मृतः ॥ 33 ॥

कच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणां स्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ 34 ॥

कच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् ।
यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ 35 ॥

कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 36 ॥

कच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा ।
दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥ 37 ॥

कच्चिन्न लौकायतिकान्ब्राह्मणांस्तात सेवसे ।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ 38 ॥

धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ 39 ॥

वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।
सत्यनामां दृढ द्वारां हस्त्यश्वरथसङ्कुलाम् ॥ 40 ॥

ब्राह्मणैः क्षत्रियैर्वैश्यै स्स्वकर्मनिरतैस्सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यै स्सहस्रशः ॥ 41 ॥

प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 42 ॥

कच्चिच्चैत्यशतैर्जुष्ट स्सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ 43 ॥

प्रहृष्टनरनारीकस्समाजोत्सवशोभितः ।
सुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः ॥ 44 ॥

अदेवमातृको रम्य श्श्वापदैः परिवर्जितः ।
परित्यक्तो भयैस्सर्वैः खनिभिश्चोपशोभितः ॥ 45 ॥

विवर्जितो नरैः पापैर्मम पूर्वै स्सुरक्षितः ।
कच्चिज्जनपदस्स्फीतः सुखं वसति राघव ॥ 46 ॥

कच्चित्ते दयितास्सर्वे कृषिगोरक्षजीविनः ।
वार्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 47 ॥

तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 48 ॥

कच्चिस्त्रिय स्सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्धास्यासां कच्चिद्गुह्यं न भाषसे ॥ 49 ॥

कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ 50 ॥

कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ 51 ॥

कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 52 ॥

कच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ 53 ॥

आयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 54 ॥

देवतार्थे च पित्रर्थेब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ 55 ॥

कच्चिदार्यो विशुद्धात्मा क्षारित श्चापरकर्मणा ।
अपृष्ट श्शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 56 ॥

गृहीतश्चैव पृष्टश्च काले दृष्टस्सकारणः ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 57 ॥

व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ 58 ॥

यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव ।
तानि पुत्रान्पशून्घ्नन्ति प्रीत्यर्थमनुशासतः ॥ 59 ॥

कच्चिद्वृद्धांश्च बालांश्च वैद्यामुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 60 ॥

कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान्सिध्दार्थान्ब्राह्मणांश्च नमस्यसि ॥ 61 ॥

कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 62 ॥

कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान्वरद सेवसे ॥ 63 ॥

कच्चित्ते ब्राह्मणा श्शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते महाप्राज्ञ पौरजानपदैस्सह ॥ 64 ॥

नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ 65 ॥

एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 66 ॥

मङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः ।
कच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥ 67 ॥

दशपञ्चचतुर्वर्गान्सप्तवर्गं च तत्त्वतः ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ 68 ॥

इन्द्रियाणां जयं बुद्ध्या षाड्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ॥ 69 ॥

यात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ ।
कच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे ॥ 70 ॥

मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।
कच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥ 71 ॥

कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 72 ॥

कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थ संहिता ॥ 73 ॥

यां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः ।
तां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा ॥ 74 ॥

कच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्य स्सम्प्रयच्छसि ॥ 75 ॥

राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युत स्स्वर्गमुपैति विद्वान् ॥ 76 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे शततमस्सर्गः ॥




Browse Related Categories: