View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.5 अयोध्याकाण्ड - पञ्चम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ पञ्चमस्सर्गः ।

सन्दिश्य रामं नृपति श्श्वोभाविन्यभिषेचने ।
पुरोहितं समाहूय वशिष्ठमिदमब्रवीत् ॥ 1 ॥

गच्छोपवासं काकुत्स्थं कारयाद्य तपोधन ।
श्रीयशोराज्यलाभाय वध्वा सह यतव्रतम् ॥ 2 ॥

तथेति च स राजानमुक्त्वा वेदविदां वरः ।
स्वयं वसिष्ठो भगवान्ययौ रामनिवेशनम् ॥ 3 ॥

उपवासयितुं रामं मन्त्रवन्मन्त्रकोविदः ।
ब्राह्मं रथवरं युक्तमास्थाय सुदृढव्रतः ॥ 4 ॥

स रामभवनं प्राप्य पाण्डुराभ्रघनप्रभम् ।
तिस्रः कक्ष्या रथेनैव विवेशमुनिसत्तमः ॥ 5 ॥

तमागतमृषिं रामस्त्वरन्निव ससम्भ्रमः ।
मानयिष्यन्समानार्हं निश्चक्राम निवेशनात् ॥ 6 ॥

अभ्येत्य त्वरमाणश्च रथाभ्याशं मनीषिणः ।
ततोऽवतारयामास परिगृह्य रथात्स्वयम् ॥ 7 ॥

स चैनं प्रश्रितं दृष्ट्वा सम्भाष्याभिप्रसाद्य च ।
प्रियार्हं हर्षयन्राममित्युवाच पुरोहितः ॥ 8 ॥

प्रसन्नस्ते पिता राम यौवराज्यमवाप्स्यसि ।
उपवासं भवानद्य करोतु सह सीतया ॥ 9 ॥

प्रातस्त्वामभिषेक्ता हि यौवराज्ये नराधिपः ।
पिता दशरथः प्रीत्या ययातिं नहुषो यथा ॥ 10 ॥

इत्युक्त्वा स तदा राममुपवासं यतव्रतम् ।
मन्त्रवत्कारयामास वैदेह्या सहितं मुनिः ॥ 11 ॥

ततो यथावद्रामेण स राज्ञो गुरुरर्चितः ।
अभ्यनुज्ञाप्य काकुत्स्थं ययौ रामनिवेशनात् ॥ 12 ॥

सुहृद्भिस्तत्र रामोऽपि सहासीनः प्रियंवदैः ।
सभाजितो विवेशाऽथ ताननुज्ञाप्य सर्वशः ॥ 13 ॥

हृष्टनारीनरयुतं रामवेश्म तदा बभौ ।
यथा मत्तद्विजगणं प्रफुल्लनलिनं सरः ॥ 14 ॥

स राजभवनप्रख्यात्तस्माद्रामनिवेशानात् ।
निर्गत्य ददृशे मार्गं वसिष्ठो जनसंवृतम् ॥ 15 ॥

बृन्दबृन्दैरयोध्यायां राजमार्गास्समन्ततः ।
बभूवुरभिसम्बाधाः कुतूहलजनैर्वृताः ॥ 16 ॥

जनबृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा ।
बभूव राजमार्गस्य सागरस्येव निस्वनः ॥ 17 ॥

सिक्तसम्मृष्टरथ्या हि तदहर्वनमालिनी ।
आसीदयोध्यानगरी समुच्छ्रितगृहध्वजा ॥ 18 ॥

तदा ह्ययोध्यानिलयः सस्त्रीबालाबलो जनः ।
रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं रवेः ॥ 19 ॥

प्रजालङ्कारभूतं च जनस्यानन्दवर्धनम् ।
उत्सुकोऽभूज्जनो द्रष्टुं तमयोध्यामहोत्सवम् ॥ 20 ॥

एवं तज्जनसम्बाधं राजमार्गं पुरोहितः ।
व्यूहन्निव जनौघं तं शनै राजकुलं ययौ ॥ 21 ॥

सिताभ्रशिखरप्रख्यं प्रासादमधिरुह्य सः ।
समीयाय नरेन्द्रेण शक्रेणेव बृहस्पतिः ॥ 22 ॥

तमागतमभिप्रेक्ष्य हित्वा राजासनं नृपः ।
पप्रच्छ स च तस्मै तत्कृतमित्यभ्यवेदयत् ॥ 23 ॥

चैव तदा तुल्यं सहासीनास्सभासदः ।
आसनेभ्यस्समुत्तस्थुः पूजयन्तः पुरोहितम् ॥ 24 ॥

गुरुणा त्वभ्यनुज्ञातो मनुजौघं विसृज्य तम् ।
विवेशान्तः पुरं राजा सिंहो गिरिगुहामिव ॥ 25 ॥

तदग्य्रवेषप्रमदाजनाकुलं महेन्द्रवेश्मप्रतिमं निवेशनम् ।
विदीपयंश्चारु विवेश पार्थिव श्शशीव तारागणसङ्कुलं नभः ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे पञ्चमस्सर्गः ॥




Browse Related Categories: