View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.80 अयोध्याकाण्ड - अशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अशीतितमस्सर्गः ।

अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः ।
स्वकर्माभिरताश्शूराः खनका यन्त्रकास्तथा ॥ 1 ॥

कर्मान्तिकाः स्थपतयः पुरुष यन्त्रकोविदाः ।
तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ 2 ॥

कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ 3 ॥

अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः ।
स्वकर्माभिरताश्शूराः खनका यन्त्रकास्तथा ॥ 4 ॥

कर्मान्तिकाः स्थपतयः पुरुष यन्त्रकोविदाः ।
तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ 5 ॥

कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ 6 ॥

स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगस्समुद्र इव पर्वणि ॥ 7 ॥

ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः ।
करणैर्विविधोपेतैः पुरस्तात्सम्प्रतस्थिरे ॥ 8 ॥

लतावल्ली श्च गुल्मांश्च स्थाणूनश्मन एव च ।
जनायाञ्चक्रिरे मार्गं छिन्दन्तो विविधान्द्रुमान् ॥ 9 ॥

अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।
केचित्कुठारैष्टङ्कैश्च दात्रैश्चिन्दन्क्वचित्क्वचित् ॥ 10 ॥

अपरे वीरणस्तम्भान्बलिनो बलवत्तराः ।
विधमन्ति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ 11 ॥

अपरेऽपूरयन्कूपान्पांसुभि श्श्वभ्रमायतम् ।
निम्नभागान्स्ततः केचित्समान्श्चक्रु स्समन्ततः ॥ 12 ॥

बबन्धुर्बन्धनीयांश्च क्षोद्यान्सञ्चुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तान्देशान्नरा स्तदा ॥ 13 ॥

अचिरेणैव कालेन परिवाहान्बहूदकान् ।
चक्रुर्बहुविधाकारान् सागरप्रतिमान्बहून् ॥ 14 ॥

निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान्बहुविधान्वेदिकापरिमण्डितान् ॥ 15 ॥

ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्ट द्विजगणः पताकाभिरलङ्कृतः ॥ 16 ॥

चन्दनोदकसंसिक्तो नानाकुसुमभूषितः ।
बह्वशोभत सेनायाः पन्था स्सुरपथोपमः ॥ 17 ॥

आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ 18 ॥

यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः ।
भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् ॥ 19 ॥

नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशान् स्थापयामासुर्भरतस्य महात्मनः ॥ 20 ॥

बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तत्रेन्द्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥ 21 ॥

प्रासादमालावितता स्सौधप्राकारसंवृताः ।
पताकाशोभिता स्सर्वे सुनिर्मितमहापथाः ॥ 22 ॥

विसर्पद्भिरिवाऽकाशे विटङ्काग्रविमानकैः ।
समुच्छ्रितैर्निवेशास्ते बभुश्शक्रपुरोपमाः ॥ 23 ॥

जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम् ॥ 24 ॥

सचन्द्रतारागणमण्डितं यथा नभः क्षपायाममलं विराजते ।
नरेन्द्रमार्गस्स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अशीतितमस्सर्गः ॥




Browse Related Categories: