श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ एकोनविंशत्यधिकशततमस्सर्गः ।
एवमुक्तातुवैदेहिपरुषंरोमहर्षणम् ।
राघवेणसरोषेणश्रुत्वाप्रव्यथिताऽभवत् ॥ 1 ॥
सातदश्रुतपूर्वंहिजनेमहतिमैथिली ।
श्रुत्वाभर्तृर्वचोरूक्षंलज्जयावनताभवत् ॥ 2 ॥
प्रविशन्तीवगात्राणिस्वानिसाजनकात्मजा ।
वाक्षरैस्स्सैःसशल्येवभृशमाश्रूण्यवर्तयत् ॥ 3 ॥
ततोबाष्पपरिक्लिन्नम्प्रमार्जन्तीस्वमाननम् ।
शनैर्गद्गदयावाचाभर्तारमिदमब्रवीत् ॥ 4 ॥
किम्मामसदृशंवाक्यमीदृशंश्रोत्रदारुणम् ।
रूक्षंश्रावयसेवीर प्राकृतःप्राकृतमिव ॥ 5 ॥
न तथास्मिमहाबाहो यथामामवगच्छसि ।
प्रत्ययङ्गच्छमेस्वेनचारित्रेणैवतेशपे ॥ 6 ॥
पृथकस्त्रीणाम्प्रचारेणजातिन्त्वम्परिशङ्कसे ।
परित्यजैनांशङ्कान्तुयदितेऽहम्परीक्षिता ॥ 7 ॥
यदहङ्गात्रसम्पर्शङ्गतास्मिविशवाप्रभो ।
कामकारो न मेतत्रदैवन्तत्रापराध्यति ॥ 8 ॥
मदधीनन्तुयत्तन्मेहृदयन्त्वयिवर्तते ।
पराधीनेषुगात्रेषुकिङ्करिष्याम्यनीश्वरी ॥ 9 ॥
सहसम्वृद्धभावेनसंसर्गेण च मानद ।
यदितेऽहं न विज्ञाताहतातेनास्मिशाश्वतम् ॥ 10 ॥
प्रेषितस्तेमहावीरोहनुमानवलोककः ।
लङ्कास्थाहन्त्वयाराजन्किन्तदा न विसर्जिता ॥ 11 ॥
प्रत्यक्षंवानरस्यास्यतद्वाक्यसमनन्तरम् ।
त्वयासन्त्यक्तयावीरत्यक्तंस्याजजीवितम्मया ॥ 12 ॥
न वृथातेश्रमोऽयंस्यात्संशयेन्यस्यजीवितम् ।
सुहृज्जनपरिक्लेशो न चायंविपुलस्तव ॥ 13 ॥
त्वयातुनृपशार्दूलदोषमेवानुवर्तता ।
लघुनेवमनुष्येणस्त्रीत्वमेवपुरस्कृतम् ॥ 14 ॥
अपदेशेनजनकादुत्पततिर्वसुथातलात् ।
ममवृत्तं च वृत्तज्ञबहुते न पुरस्कृतम् ॥ 15 ॥
न प्रमाणीकृतम्पाणिर्भाल्येममनिपीडितः ।
ममभक्तिश्चशीलं च सर्वन्तेपृष्ठतःकृतम् ॥ 16 ॥
इतिब्रुवन्तीरुदतीबाष्पगद्गगभाषिणी ।
उवाचलक्ष्मणंसीतादीनन्ध्यानपरायणम् ॥ 17 ॥
चिताम्मेकुरुसौमित्रेव्यवनस्यास्यभेषजम् ।
मिध्यापवादोपहतानाहञ्जीवितुमुत्सहे ॥ 18 ॥
अप्रीतेनगुणैर्भर्त्रात्यक्तायाजनसंसदि ।
याक्षमामेगतिर्गन्तुम्प्रवेक्ष्येहव्यवाहनम् ॥ 19 ॥
एवमुक्तस्तुवैदेह्यालक्ष्मणःपरवीरहा ।
अमर्षवशमापन्नोराघवंसमुदैक्षत ॥ 20 ॥
स विज्ञायततश्छन्दंरामस्याकारसूचितम् ।
चिताञ्चकारसौमित्रिर्मतेरामस्यवीर्यवान् ॥ 21 ॥
नहिरामन्तदाकश्चित्कालान्तकयमोपमम् ।
अनुनेतुमथोवक्तुन्द्रष्टुंवाप्यशकत्सुहृत् ॥ 22 ॥
अधोमुखंस्थितंरामन्ततःकृत्वाप्रदक्षिणम् ।
उपावर्ततवैदेहीदीप्यमानंहुताशनम् ॥ 23 ॥
प्रणम्यदैवतेभ्यश्चब्राह्मणेभ्यश्चमैथिली ।
बद्धाञ्जलिपुटाचेदमुवाचानगिसमीपतः ॥ 24 ॥
यथामेहृदयन्नित्यन्नापसर्पतिराघवात् ।
तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ॥ 25 ॥
यथामांशुद्धचरितान्दुष्टाञ्जानातिराघवः ।
तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ॥ 26 ॥
कर्मणामनसावाचायथानातिचराम्यहम् ।
राघवंसर्वधर्मज्ञन्तथामाम्पातुपावकः ॥ 27 ॥
आदित्योभगवान्वायुर्धिशश्चन्द्रस्तथैव च ।
अहश्चापितथासन्ध्येरात्रिश्चपृथिवीतथआ ॥ 28 ॥
यथान्येऽपिविजानन्तितथाचारित्रसंयुताम् ।
एवमुक्त्वातुवैदेहीपरिक्रम्यहुताशनम् ।
विवेशज्वलनन्दीप्तन्निःशङ्केनान्तरात्मना ॥ 29 ॥
नश्चसुमहांस्तत्रबालवृद्धसमाकुलः ॥ 30 ॥
ददर्शमैथिलीन्दीप्ताम्प्रविशन्तींहुताशनम् ।
सातप्तनवहेमाभातप्तकाञ्चनभूषणा ॥ 31 ॥
पपातज्वलनन्दीप्तंसर्वलोकस्यसन्निधौ ।
ददृशुस्तांविशालाक्षीम्पतन्तींहव्यवाहनम् ॥ 32 ॥
सीतांसर्वाणिरूपाणिरुक्मवेदिनिभान्तदा ।
ददृशुस्ताम्महाभागाम्प्रविशन्तींहुताशनम् ॥ 33 ॥
सीताङ्कृत्स्नास्त्रयोलोकाःपुण्यामाज्याहुतीमिव ।
प्रचुक्रुशुःस्त्रियःसर्वास्तान्दृष्टवाहव्यवाहवे ॥ 34 ॥
पतन्तींसंस्कृताम्मन्रन्स्सैर्वसोर्दारामिवाध्वरे ।
ददृशुस्तान्त्रयोलोकादेवगन्धर्वदानवाः ॥ 35 ॥
शस्ताम्पतन्तीन्निरयेत्रिविवाद्धेवतामिव ।
तस्यामग्निंविशन्त्यान्तुहाहेतिविपुलःस्वनः ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे एकोनविंशत्यधिकशततमस्सर्गः ॥