श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ त्रिपञ्चाशस्सर्गः ।
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥ 1 ॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।
रुदन्ती करुणं सीता ह्रियमाणेदमब्रवीत् ॥ 2 ॥
न व्यपत्रपसे नीच कर्मणानेन रावण ।
ज्ञात्वा विरहितां यन्मां चोरयित्वा पलायसे ॥ 3 ॥
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।
ममापवाहितो भर्ता मृगरूपेण मायया ॥ 4 ॥
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥ 5 ॥
परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥ 6 ॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।
स्त्रियाश्च हरणं नीच रहिते च परस्य च ॥ 7 ॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।
सुनृशंसमधर्मिष्ठं तव शौण्डीर्यमानिनः ॥ 8 ॥
धिक्ते शौर्यं च सत्त्वं च यत्त्वं कथितवांस्तदा ।
कुलाक्रोशकरं लोके धिक्ते चारित्रमीदृशम् ॥ 9 ॥
किं कर्तुं शक्यमेवं हि यज्जवेनैव धावसि ।
मुहूर्तमपि तिष्ठस्व न जीवन्प्रतियास्यसि ॥ 10 ॥
न हि चक्षुष्पथं प्राप्य तयोः पार्थिवपुत्रयोः ।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥ 11 ॥
न त्वं तयोश्शरस्पर्शं सोढुं शक्तः कथञ्चन ।
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहङ्गमः ॥ 12 ॥
साधु कुर्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण ।
मत्प्रधर्षणरुष्टो हि भ्रात्रा सह पतिर्मम ॥ 13 ॥
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ।
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥ 14 ॥
व्यवसायस्स ते नीच भविष्यति निरर्थकः ।
न ह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥ 15 ॥
उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ।
न नूनं चात्मनः पथ्यं श्रेयो वा समवेक्षसे ॥ 16 ॥
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ।
मुमूर्षूणां हि सर्वेषां यत्पथ्यं तन्न रोचते ॥ 17 ॥
पश्याम्यद्य हि कण्ठेत्वां कालपाशावपाशितम् ।
यथा चास्मिन्भयस्थाने न बिभेषि दशानन ॥ 18 ॥
व्यक्तं हिरण्मयान् हि त्वं सम्पश्यसि महीरुहान् ।
नदीं वैतरणीं घोरां रुधिरौघनिवाहिनीम् ॥ 19 ॥
असिपत्रवनं चैव भीमं पश्यसि रावण ।
तप्तकाञ्चनपुष्पां च वैडूर्यप्रवरच्छदाम् ॥ 20 ॥
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ।
न हि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥ 21 ॥
धरितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृणः ।
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ 22 ॥
क्वगतो लप्स्यसे शर्म भर्तुर्मम महात्मनः ।
निमेषान्तरमात्रेण विना भ्रात्रा महावने ॥ 23 ॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।
स कथं राघवो वीरस्सर्वास्त्रकुशलो बली ॥ 24 ॥
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ।
तच्चान्यच्च परुषं वैदेही रावणाङ्कगा ॥ 25 ॥
भयशोकसमाविष्टा करुणं विललाप ह ।
तथा भृशार्तां बहुचैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् ।
जहार पापः करुणं विचेष्टतीं नृपात्मजामागतगात्रवेपथुम् ॥ 26 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रिपञ्चाशस्सर्गः ॥