View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.27 युद्धकाण्ड - सप्तविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ सप्तविंशस्सर्गः ।

तांस्तुतेऽहम्प्रवक्ष्यामिप्रेक्षमाणस्ययूथपान् ।
राघवार्थेपराक्रान्तायेनरक्षन्तिजीवितम् ॥ 1 ॥

स्निग्धायस्यबहुव्यामावालालाङ्गूलमाश्रिताः ।
ताम्राःपीतास्सिताश्श्वेताःप्रकीर्णाघोरकर्मणः ॥ 2 ॥

प्रगृहीताःप्रकाशन्तेसूर्यस्येवमरीचयः ।
पृथिव्याञ्चानुकृष्यन्तेहरोनामैषयूथपः ॥ 3 ॥

यम्पृष्ठतोऽनुगच्छन्तिशतशोऽथसहस्रशः ।
द्रुमानुद्यम्यसहसालङ्कारोहणतत्पराः ॥ 4 ॥

यूथपाहरिराजस्यकिङ्करास्समुपस्थिताः ।
नीलानिवमहामेघांस्तिष्ठतोयांस्तुपश्यसि ॥ 5 ॥

असिताञ्जनसङ्काशान् युद्धेसत्यपराक्रमान् ।
असङ् ख्येयाननिर्देश्यान्परम्पारमिवोदधेः ॥ 6 ॥

पर्वतेषुचयेकेचिद्विषमेषुनदीषुच ।
एतेत्वामभिवर्तन्तेराजन्नृक्षास्सुदारुणाः ॥ 7 ॥

एषां मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥ 8 ॥

ऋक्षवन्तङ्गिरिश्रेष्ठमध्यास्तेनर्मदाम्पिबन् ।
सर्वऋक्षाणामधिपतिर्धूम्रोनामैषयूथपः ॥ 9 ॥

यवीयानस्यतुभ्रातापश्यैनम्पर्वतोपमम् ।
भ्रात्रासमानोरूपेणविशिष्टस्तुपराक्रमैः ॥ 10 ॥

सएषजाम्बवान्नाममहायूथपयूथपः ।
प्रक्रान्तोगुरुवर्तीचसम्प्रहारेष्वमर्षण ॥ 11 ॥

एतेनसाह्यंसुमहत्कृतंशक्रस्यधीमता ।
देवासुरेजाम्बवतालब्धाश्चबहवोवराः ॥ 12 ॥

आरुह्यपर्वताग्रेभ्योमहाभ्रविपुलाः शिलाः ।
मुञ्चन्तिविपुलाकारानमृत्योरुद्विजन्तिच ॥ 13 ॥

राक्षसानाञ्चसदृशाःपिशाचानाञ्चरोमशाः ।
एतस्यसैन्याबहवोविचरन्त्यग्नितेजसः ॥ 14 ॥

यन्त्वेनमभिसम्रब्धम्प्लवमानमिवस्थितम् ।
प्रेक्षन्तेवानरास्सर्वेस्थितायूथपयूथपम् ॥ 15 ॥

एषराजन् सहस्राक्षम्पर्युपास्तेहरीश्वरः ।
बलेनबलसम्पन्नोदम्भोनामैषयूथपः ॥ 16 ॥

यःस्थितंयोजनेशैलङ्गच्छन्पार्श्वेनसेवते ।
ऊर्ध्वन्तथैवकायेनगतःप्राप्नोतियोजनम् ॥ 17 ॥

यस्मान्नपरमंरूपञ्चतुष्पादेषुविद्यते ।
श्रुतस्सन्न्नादनोनामवानराणाम्पितामहाः ॥ 18 ॥

येनयुद्धम्पुरादत्तंरणेशक्रस्यधीमता ।
पराजयश्चनप्राप्तस्सोऽयंयूथपयूथपः ॥ 19 ॥

यस्यविक्रममाणस्यशक्रस्येवपराक्रमः ।
एषगन्धर्वकन्यायामुत्पन्नःकृष्णवर्त्मनः ॥ 20 ॥

तदादेवासुरेयुद्धेसाह्यार्थन्त्रिदिवौकसां यस्यवैश्रवणोराजाजम्बूमुपनिषेवते ॥ 21 ॥

योराजापर्वतेन्द्राणाम्बहुकिन्नरसेविनाम् ।
विहारसुखदोनित्यम्भ्रातुस्तेराक्षसाधिप ॥ 22 ॥

तत्रैषवसतिश्रीमान्बलवान्वानरर्षभः ।
युद्धेष्वकत्थनोनित्यङ्क्रोधनोनामयूथपः ॥ 23 ॥

वृतःकोटिसहस्रेणहरीणांसमुपस्थितः ।
एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ॥ 24 ॥

योगङ्गामनुपर्येतित्रासयन्गजयूथपान् ।
हस्तिनांवानराणाञ्चपूर्ववैरमनुस्मरन् ॥ 25 ॥

एषयूथपतिर्नेतागच्छन् गिरिगुहाशयः ।
गजान्योधयतेवन्यान्गिरींश्चैवमहीरुहान् ॥ 26 ॥

हरीणांवाहिनीमुख्योनदींहैमवतीमनु ।
उशीरबीजमाश्रित्यपर्वतम्मन्दरोपमम् ॥ 27 ॥

रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनं शत सहस्राणां सहस्रं अभिवर्तते ॥ 28 ॥

सएषनेताचैतेषांवानराणाम्महात्मनाम् ।
सएषदुर्धरोराजन्प्रमाथीनामयूथपः ॥ 29 ॥

वातेनेवोद्धतम्मेघंयमेनमनुपश्यसि ।
अनीकमभिसंरब्धंवानराणान्तरस्विनाम् ॥ 30 ॥

अनीकमपि सम्रब्धं वानराणां तरस्विनाम् ।
उद्धूतमरुणाभासं पवनेन समन्ततः ॥ 31 ॥

एतेऽसितमुखाघोरागोलाङ्गूलामहाबलाः ।
शतंशतहस्राणिदृष्ट्वावैसेतुबन्धनम् ॥ 32 ॥

गोलाङ्गूलम्महावेगङ्गवाक्षन्नामयूधपम् ।
परिवार्याभिवर्तन्तेलङ्काम्मर्दितुमोजसा ॥ 33 ॥

भ्रमराचरितायत्रसर्वकालफलद्रुमाः ॥ 34 ॥

यंसूर्यस्तुल्यपर्णाभमनुपर्येतिपर्वतम् ।
यस्यभासासदाभान्तितद्वर्णामृगपक्षिणः ॥ 35 ॥

यस्यप्रस्थम्महात्मानोनत्यजन्तिमहर्षयः ।
सर्वकालफलावृक्षास्सदाफलसमन्विताः ॥ 36 ॥

मधूनिचमहार्हाणियस्मिन्पर्वतसत्तमे ।
तत्रैवरमतेराजन्रम्येकाञ्चनपर्वते ॥ 37 ॥

मुख्योवानरमुख्यानाङ्केसरीनामयूथपः ।
षष्टिर्गिरिसहस्राणांरम्याःकाञ्चनपर्वता ॥ 38 ॥

तेषाम्मध्येगिरिवरस्त्वमिवानघरक्षसाम् ।
तत्रैतेकपिलाश्श्वेतास्ताम्रास्यामधुपिङ्गलाः ॥ 39 ॥

निवसन्त्युत्तमगिरौतीक्ष्णदंष्ट्रानखायुधाः ।
सिंहाइवचतुर्दंष्ट्राव्याघ्राइवदुरासदाः ॥ 40 ॥

सर्वेवैश्वानरसमाज्वलिताशीविषोपमाः ।
सुदीर्घाञ्चितलाङ्गूलामत्तमातङ्गसन्निभाः ॥ 41 ॥

महापर्वतसङ्काशामहाजीमूतनिस्स्वनाः ।
वृत्तपिङ्गलरक्ताक्षाभीमाभीमगतिस्वराः ॥ 42 ॥

मर्दयन्तीवतेसर्वेतस्थुर्लङकासमीक्ष्यते ।
एषचैषामधिपतिर्मध्येतिष्ठतिवीर्यवान् ॥ 43 ॥

जयार्थीनित्यमादित्यमुपतिष्ठतिबुद्धिमान् ।
नाम्नापृथिव्यांविख्यातोराजन् शतबलीतियः ॥ 44 ॥

एषैवाशंसतेलङ्कांस्वेनानीकेनमर्दितुम् ।
विक्रान्तोबलवान् शूरःपौरुषेस्वेव्यवस्थितः ।
रामप्रियार्थम्प्राणानान्दयान्नकुरुतेहरिः ॥ 45 ॥

गजोगवाक्षोगवयोनलोनीलश्चवानरः ।
एकैकएवयोधानाङ्कोटीभिर्दशभिर्वृतः ॥ 46 ॥

तथाऽऽन्येवानरश्रेष्ठाविन्ध्यपर्वतवासिनः ।
नशक्यन्तेबहुत्वात्तुसङ् ख्यातुंलघुविक्रमाः ॥ 47 ॥

सर्वेमहाराजमहाप्रभावास्सर्वेमहाशैलनिकाशकायाः ।
सर्वेसमर्थापृथिवीङ्क्षणेनकर्तुम्प्रविध्वस्तविकीर्णशैलाम् ॥ 48 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे सप्तविंशस्सर्गः ॥




Browse Related Categories: