श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ चतुःषष्टितमस्सर्गः ।
सुरकार्यमिदं रम्भे कर्तव्यं सुमहत्त्वया ।
लोभनं कौशिकस्येह काममोहसमन्वितम् ॥ 1 ॥
तथोक्ता साऽप्सरा राम सहस्राक्षेण धीमता ।
व्रीडिता प्राञ्जलिर्वाक्यं प्रत्युवाच सुरेश्वरम् ॥ 2 ॥
अयं सुरपते घोरो विश्वामित्रो महामुनिः ।
घोरमुत्सृजते क्रोधं मयि देव न संशयः ॥ 3 ॥
ततो हि मे भयं देव प्रासादं कर्तुमर्हसि ।
एवमुक्तस्तया राम रम्भया भीतया तदा ॥ 4 ॥
तामुवाच सहस्राक्षो वेपमानां कृताञ्जलिम् ।
माभैषी रम्भे भद्रं ते कुरुष्व मम शासनम् ॥ 5 ॥
कोकिलो हृदयग्राही माधवे रुचिरद्रुमे ।
अहं कन्दर्पसहित स्स्थास्यामि तव पार्श्वतः ॥ 6 ॥
त्वं हि रूपं बहुगुणं कृत्वा परमभास्वरम् ।
तमृषिं कौशिकं रम्भे भेदयस्व तपस्विनम् ॥ 7 ॥
सा श्रुत्वा वचनं तस्य कृत्वा रूपमनुत्तमम् ।
लोभयामास ललिता विश्वामित्रं शुचिस्मिता ॥ 8 ॥
कोकिलस्य च शुश्राव वल्गु व्याहरतः स्वनम् ।
सम्प्रहृष्टेन मनसा तत एनामुदैक्षत ॥ 9 ॥
अथ तस्य च शब्देन गीतेनाप्रतिमेन च ।
दर्शनेन च रम्भाया मुनिस्सन्देहमागतः ॥ 10 ॥
सहस्राक्षस्य तत्कर्म विज्ञाय मुनिपुङ्गवः ।
रम्भां क्रोधसमाविष्ट श्शशाप कुशिकात्मजः ॥ 11 ॥
यन्मां लोभयसे रम्भे कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि शैली स्थास्यसि दुर्भगे ॥ 12 ॥
ब्राह्मण स्सुमहातेजा स्तपोबलसमन्वितः ।
उद्धरिष्यति रम्भे त्वां मत्क्रोधकलुषीकृताम् ॥ 13 ॥
एवमुक्त्वा महातेजा विश्वामित्रो महामुनिः ।
अशक्नुवन् धारयितुं क्रोधं सन्तापमागतः ॥ 14 ॥
तस्य शापेन महता रम्भा शैली तदाऽभवत् ।
वचश्शृत्वा च कन्दर्पो महर्षेस्स च निर्गतः ॥ 15 ॥
कोपेन स महातेजास्तपोऽपहरणे कृते ।
इन्द्रियैरजितै राम न लेभे शान्तिमात्मनः ॥ 16 ॥
बभूवास्य मनश्चिन्ता तपोऽपहरणे कृते ।
नैव क्रोधं गमिष्यामि न च वक्ष्ये कथञ्चन ॥ 17 ॥
अथवा नोच्छवसिष्यामि संवत्सरशतान्यपि ।
अहं विशोषयिष्यामि ह्यात्मानं विजितेन्द्रियः ॥ 18 ॥
तावद्यावद्धि मे प्राप्तं ब्राह्मण्यं तपसाऽऽर्जितम् ।
अनुच्छवसन्नभुञ्जान स्तिष्ठेयं शाश्वतीस्समाः ॥ 19 ॥
न हि मे तप्यमानस्य क्षयं यास्यन्ति मूर्तयः ।
एवं वर्षसहस्रस्य दीक्षां स मुनिपुङ्गवः ॥ 20 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे चतुःषष्टितमस्सर्गः ॥