View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

3.73 अरण्यकाण्ड - त्रिसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ त्रिसप्ततितमस्सर्गः ।

निदर्शयित्वा रामाय सीतायाः प्रतिपादने ।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ 1 ॥

एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः ।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ 2 ॥

जम्बूप्रियालपनसप्लक्षन्यग्रोधतिन्धुकाः ।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादापाः ॥ 3 ॥

धन्वना नागवृक्षाश्च तिलका नक्तमालकाः ।
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥ 4 ॥

अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः ।
तानारुह्याथवा भूमौ पातयित्वा च तान्बलात् ॥ 5 ॥

फलान्यमृतकल्पानि भक्षयन्तौ गमिष्यथः ।
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥ 6 ॥

नन्दनप्रतिमं चान्यत्कुरवो ह्युत्तरा इव ।
सर्वकालफला यत्र पादपास्तु मधुस्रवाः ॥ 7 ॥

सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा ।
फलभारानतास्तत्र महाविटपधारिणः ॥ 8 ॥

शोभन्ते सर्वतस्तत्र मेघपर्वतसन्निभाः ।
तानारुह्याथवा भूमौ पातयित्वा यथासुखम् ॥ 9 ॥

फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति ।
चङ्क्रमन्तौ वरान्देशान्शैलाच्छैलं वनाद्वनम् ॥ 10 ॥

ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः ।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ 11 ॥

राम सञ्जातवालूकां कमलोत्पलशालिनीम् ।
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ॥ 12 ॥

वल्गुस्वना विकूजन्ति पम्पासलिलगोचराः ।
नोद्विजन्ते नरान्दृष्ट्वा वधस्याकोविदाश्शुभाः ॥ 13 ॥

घृतपिण्डोपमान् स्थूलांस्तान्द्विजान्भक्षयिष्यथः ।
रोहितान्वक्रतुण्डांश्च नडमीनांश्च राघव ॥ 14 ॥

पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान्हतान् ।
निस्त्वक्पक्षानयस्तप्तानकृशानेककण्टकान् ॥ 15 ॥

तव भक्त्या समायुक्तो लक्ष्मणस्सम्प्रदास्यति ।
भृशते खादतो मत्स्यान्पम्पायाः पुष्पसञ्चये ॥ 16 ॥

पद्मगन्धि शिवं वारि सुखशीतमनामयम् ।
उद्धृत्य सतताक्लिष्टं रौप्यस्फाटिकसन्निभम् ॥ 17 ॥

असौ पुष्करपर्णेन लक्ष्मणः पाययिष्यति ।
स्थूलान्गिरिगुहाशय्यान्वराहान्वनचारिणः ॥ 18 ॥

अपां लोभादुपावृत्तान्वृषभानिव नर्दतः ।
रूपावनितांश्च पम्पायान्द्रक्ष्यसि त्वं नरोत्तम ॥ 19 ॥

सायाह्ने विचरन्राम विटपीन्माल्यधारिणः ।
शीतोदकं च पम्पाया दृष्ट्वा शोकं विहास्यसि ॥ 20 ॥

सुमनोभिश्चितांस्तत्र तिलकान्नक्तमालकान् ।
उत्पलानि च फुल्लानि पङ्कजानि च राघव ॥ 21 ॥

न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ।
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव ॥ 22 ॥

मतङ्गशिष्यास्तत्राऽसन्नृषयस्सुसमाहिताः ।
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः ॥ 23 ॥

ये प्रपेतुर्महीं तूर्णं शरीरात्स्वेदबिन्दवः ।
तानि जातानि माल्यानि मुनीनां तपसा तदा ॥ 24 ॥

स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ।
तेषां गतानामद्यापि दृश्यते परिचारिणी ॥ 25 ॥

श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ।
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम् ॥ 26 ॥

दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ।
ततस्तद्राम पम्पायास्तीरमासाद्य पश्चिमम् ॥ 27 ॥

आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ।
न तत्राक्रमितुं नागाश्शक्नुवन्ति तमाश्रमम् ॥ 28 ॥

विविधास्तत्र वै नागा वने तस्मिंश्च पर्वते ।
ऋषेस्तत्र मतङ्गस्य विधानात्तच्च काननम् ॥ 29 ॥

तस्मिन्नन्दनसङ्काशे देवारण्योपमे वने ।
नानाविहगसङ्कीर्णे रंस्यसे राम निर्वृतः ॥ 30 ॥

ऋष्यमूकश्च पम्पायाः पुरस्तात्पुष्पितद्रुमः ।
सुदुःखारोहणो नाम शिशुनागाभिरक्षितः ॥ 31 ॥

उदारो ब्रह्मणा चैव पूर्वकाले विनिर्मितः ।
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि ॥ 32 ॥

यत्स्वप्ने लभते वित्तं तत्प्रबुद्धोऽधिगच्छति ।
नत्वेनं विषमाचार पापकर्माऽधिरोहति ॥ 33 ॥

यस्तु तं विषमाचारः पापकर्माऽधिरोहति ।
तत्रैव प्रहऱन्त्येनं सुप्तमादाय राक्षसाः ॥ 34 ॥

तत्रापि शिशुनागानामाक्रन्धश्श्रूयते महान् ।
क्रीडतां राम पम्पायां मतङ्गारण्यवासिनाम् ॥ 35 ॥

सिक्ता रुधिरधाराभिस्संहृत्य परमद्विपाः ।
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥ 36 ॥

ते तत्र पीत्वा पानीयं विमलं शीतमव्ययम् ।
निर्वृतास्संविगाहन्ते वनानि वनगोचराः ॥ 37 ॥

ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ।
रुरूनपेतापजयान् दृष्ट्वा शोकं जयिष्यसि ॥ 38 ॥

राम तस्य तु शैलस्य महती शोभते गुहा ।
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम् ॥ 39 ॥

तस्या गुहायाः प्राग्द्वारे महान्शीतोदको ह्रदः ।
फलमूलान्वितो रम्यो नानामृगसमावृतः ॥ 40 ॥

तस्यां वसति सुग्रीवश्चतुर्भिस्सह वानरैः ।
कदाचिच्छिखरे तस्य पर्वतस्यावतिष्ठते ॥ 41 ॥

कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ।
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान् ॥ 42 ॥

तं तु खस्थं महाभागं कबन्धं रामलक्ष्मणौ ।
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके ॥ 43 ॥

गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत्स च ।
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ 44 ॥

स तत्कबन्धः प्रतिपद्य रूपं वृतश्श्रिया भास्करतुल्यदेहः ।
निदर्शयन्राममवेक्ष्य खस्थः सख्यं कुरुष्वेति तदाभ्युवाच ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे त्रिसप्ततितमस्सर्गः ॥




Browse Related Categories: