View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.16 किष्किन्धाकाण्ड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ षोडशस्सर्गः ।

तामेवं ब्रुवतीं तारां ताराधिपनिभाननाम् ।
वाली निर्भर्त्सयामास वचनं चेदमब्रवीत् ॥ 1 ॥

गर्जतोऽस्य च सुसम्भ्रश्च भ्रातुः शत्रोर्विशेषतः ।
मर्षयिष्याम्यहं केन कारणेन वरानने ॥ 2 ॥

अधर्षितानां शूराणां समरेष्वनिवर्तिनाम् ।
धर्षणामर्षणं भीरु मरणादतिरिच्यते ॥ 3 ॥

सोढुं न च समर्थोऽहं युद्धकामस्य संयुगे ।
सुग्रीवस्य च सम्रम्भं हीनग्रीवस्य गर्जतः ॥ 4 ॥

न च कार्यो विषादस्ते राघवं प्रति मत्कृते ।
धर्मज्ञश्च कृतज्ञश्च कथं पापं करिष्यति ॥ 5 ॥

निवर्तस्व सह स्त्रीभिः कथं भूयोऽनुगच्छसि ।
सौहृदं दर्शितं तारे मयि भक्तिः कृता त्वया ॥ 6 ॥

प्रतियोत्स्याम्यहं गत्वा सुग्रीवं जहि सम्भ्रमम् ।
दर्पमात्रं विनेष्यामि न च प्राणैर्विमोक्ष्यते ॥ 7 ॥

अहं ह्याजौस्थितस्यास्य करिष्यामि यथेप्सितम् ।
वृक्षैर्मुष्टिप्रहारैश्च पीडितः प्रतियास्यति ॥ 8 ॥

न मे गर्वितमायस्तं सहिष्यति दुरात्मवान् ।
कृतं तारे सहांयत्वं सौहृदं दर्शितं मयि ॥ 9 ॥

शापिताऽपि मम प्राणैर्निवर्तस्व जयेन च ।
अहं जित्वा निवर्तिष्ये तमहं भ्रातरं रणे ॥ 10 ॥

तं तु तारा परिष्वज्य वालिनं प्रियवादिनी ।
चकार रुदती मन्दं दक्षिणा सा प्रदक्षिणम् ॥ 11 ॥

ततः स्वस्त्ययनं कृत्वा मन्त्रविद्विजयैषिणी ।
अन्तःपुरं सह स्त्रीभिः प्रविष्टा शोकमोहिता ॥ 12 ॥

प्रविष्टायां तु तारायां सह स्त्रीभिस्स्वमालयम् ।
नगरान्निर्ययौ क्रुद्धो महासर्प इव श्वसन् ॥ 13 ॥

स निश्श्वस्य महातेजा वाली परमरोषणः ।
सर्वतश्चारयन् दृष्टिं शत्रुदर्शनकाङ्क्षया ॥ 14 ॥

स ददर्श ततश्श्रीमान् सुग्रीवं हेमपिङ्गलम् ।
सुसंवीतमवष्टब्धं दीप्यमानमिवानलम् ॥ 15 ॥

स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम् ।
गाढं परिदधे वासो वाली परमरोषणः ॥ 16 ॥

स वाली गाढसंवीतो मुष्टिमुद्यम्य वीर्यवान् ।
सुग्रीवमेवाभिमुखो ययौ योद्धुं कृतक्षणः ॥ 17 ॥

श्लिष्टं मुष्टिं समुद्यम्य संरब्धतरमागतः ।
सुग्रीवोऽपि समुद्दिश्य वालिनं हेममालिनम् ॥ 18 ॥

तं वाली क्रोधताम्राक्षस्सुग्रीवं रणपण्डितम् ।
आपतन्तं महावेगमिदं वचनमब्रवीत् ॥ 19 ॥

एष मुष्टिर्मयाबद्धो गाढस्सन्निहिताङ्गुलिः ।
मया वेगविमुक्तस्ते प्राणानादाय यास्यति ॥ 20 ॥

एवमुक्तस्तु सुग्रीवः क्रुद्धो वालिनमब्रवीत् ।
तवैव चा हरन्प्राणान्मुष्टिः पततु मूर्धनि ॥ 21 ॥

ताडितस्तेन सङ्कृद्धस्समभिक्रम्य वेगितः ।
अभवच्छोणितोद्गारी सोत्पीड इव पर्वतः ॥ 22 ॥

सुग्रीवेण तु निस्सङ्गं सालमुत्पाट्य तेजसा ।
गात्रेष्वभिहतो वाली वज्रेणेव महागिरिः ॥ 23 ॥

स तु वाली प्रचलितस्सालताडनविह्वलः ।
गुरुभारसमाक्रान्तो नौ सार्थ इव सागरे ॥ 24 ॥

तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ ।
प्रवृद्धौ घोरवपुषौ चन्द्रसूर्याविवाम्बरे ।
परस्परममित्रघ्नौ च्छिद्रान्वेषणतत्परौ ॥ 25 ॥

ततोऽवर्धत वाली तु बलवीर्यसमन्वितः ।
सूर्यपुत्रो महावीर्यस्सुग्रीवः परिहीयते ॥ 26 ॥

वालिना भग्नदर्पस्तु सुग्रीवो मन्दविक्रमः ।
वालिनं प्रति सामर्षो दर्शयामास लाघवम् ॥ 27 ॥

वृक्षैः स्सशाखै स्सशिखैर्वज्रकोटिनिभैर्नखैः ॥ 28 ॥

मुष्टिभिर्जानुभिः पद्भिर्बाहुभिश्च पुनः पुनः ।
तयोर्युद्धमभूद्घोरं वृत्रवासवयोरिव ॥ 29 ॥

तौ शोणिताक्तौ युध्येतां वानरौ वनचारिणौ ।
मेघाविव महाशब्दै स्तर्जमानौ परस्परम् ॥ 30 ॥

हीयमानमथोऽपश्यत्सुग्रीवं वानरेश्वरम् ।
वीक्षमाणं दिशश्चैव राघवस्स मुहुर्मुहुः ॥ 31 ॥

ततो रामो महातेजा आर्तं दृष्ट्वा हरीश्वरम् ।
शरं च वीक्षते वीरो वालिनो वधकारणात् ॥ 32 ॥

ततो धनुषि सन्धाय शरमाशीविषोपमम् ।
पुरयामास तच्चापं कालचक्रमिवान्तकः ॥ 33 ॥

तस्य ज्यातलघोषेण त्रस्ताः पत्ररथेश्वराः ।
प्रदुद्रुवुर्मृगाश्चैव युगान्त इव मोहिताः ॥ 34 ॥

मुक्तस्तु वज्रनिर्घोषः प्रदीप्ताशनिसन्निभः ।
राघवेण महाबाणो वालिवक्षसि पातितः ॥ 35 ॥

ततस्तेन महातेजा वीयौटत्सिक्तः कपीश्वरः ।
वेगेनाभिहतो वाली निपपात महीतले ॥ 36 ॥

इन्द्रध्वज इवोद्धूतः पौर्णमास्यां महीतले ।
आश्वयुक्समये मासि गतश्रीको विचेतनः ॥ 37 ॥

नरोत्तमः कालयुगान्तकोपमं शरोत्तमं काञ्चनरूप्यभुषितम् ।
ससर्ज दीप्तं तममित्रमर्दनं सधूममग्निं मुखतो यथा हरः ॥ 38 ॥

अथोक्षितश्शोणिततोयविस्रवै स्सुपुष्पिताशोक इवानिलोद्धतः ।
विचेतनो वासवसूनुराहवे विभ्रंशितेन्द्रध्वजवत्क्षितिं गतः ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे षोडशस्सर्गः ॥




Browse Related Categories: