View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

4.17 किष्किन्धाकाण्ड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ सप्तदशस्सर्गः ।

ततश्शरेणाभिहतो रामेण रणकर्कशः ।
पपात सहसा वाली निकृत्त इव पादपः ॥ 1 ॥

स भूमौ न्यस्तसर्वाङ्गस्तप्तकाञ्चनभूषणः ।
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ 2 ॥

तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे ।
नष्टचन्द्रमिव व्योम न व्यराजत भूतलम् ॥ 3 ॥

भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ 4 ॥

शक्रदत्ता वरा माला काञ्चनी वज्रभूषिता ।
दधार हरिमुख्यस्य प्राणांस्तेज्शियं च सा ॥ 5 ॥

स तया मालया वीरो हेमया हरियूथपः ।
सन्ध्यानुगतपर्यन्तः पयोधर इवाभवत् ॥ 6 ॥

तस्य माला च देहश्च मर्मघाती च यश्शरः ।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ 7 ॥

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ 8 ॥

तं तदा पतितं सङ्ख्ये गतार्चिषमिवानलम् ।
बहुमान्य च तं वीर वीक्षमाणं शनैरिव ॥ 9 ॥

ययातिमिव पुण्यान्ते देवलोकादिहच्युतम् ।
आदित्यमिव कालेन युगान्ते भुवि पातितम् ॥ 10 ॥

महेन्द्रमिव दुर्धर्षम्मुपेन्द्रमिव दुस्सहम् ।
महेन्द्रपुत्रं पतितं वालिनं हेममालिनम् ॥ 11 ॥

सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ 12 ॥

तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ 13 ॥

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः कुलीनस्सत्त्वसम्पन्न स्तेजस्वी चरितव्रतः ॥ 14 ॥

पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः ।
यदहं युद्धसंरब्धश्शरेणोरसि ताडितः ॥ 15 ॥

रामः करुणवेदी च प्रजानां च हिते रतः ।
सानुक्रोशो जितोत्साहस्समयज्ञो दृढव्रतः ॥ 16 ॥

इति ते सर्वभूतानि कथयन्ति यशो भुवि ॥ 17 ॥

दमश्शमः क्षमा धर्मो धृतिस्सत्यं पराक्रमः ।
पार्थिवानां गुणा राजन्दण्डश्चाप्यपराधिषु ॥ 18 ॥

तान्गुणान्सम्प्रधार्याहमग्र्यं चाभिजनं तव ।
तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ॥ 19 ॥

न मामन्येन सम्रब्धं प्रमत्तं योद्धु मर्हसि ।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ 20 ॥

न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ 21 ॥

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ 22 ॥

विषये वा पुरे वा ते यदा पापं करोम्यहम् ।
न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ 23 ॥

फलमूलाशनं नित्यं वानरं वनगोचरम् ।
मामिहाप्रतियुध्यन्तमन्येन च समागतम् ॥ 24 ॥

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।
लिङ्गमप्यस्ति ते राजनन्दृश्यते धर्मसंहितम् ॥ 25 ॥

कः क्षत्रियकुले जात्शृतवान्नष्टसंशयः ।
धर्मलिङ्गप्रतिच्छन्न क्रूरं कर्म समाचरेत् ॥ 26 ॥

राम राजकुले जातो धर्मवानिति विश्रुतः ॥ 27 ॥

अभव्यो भव्यरूपेण किमर्थं परिधावसि ।
साम दानं क्षमा धर्मस्सत्यं धृतिपराक्रमौ ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपराधिषु ॥ 28 ॥

वयं वनचरा राम मृगा मूलफलाशनाः ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ 29 ॥

भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च ।
अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ 30 ॥

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ॥ 31 ॥

राजवृत्तिरसङ्कीर्णा न नृपाः कामवृत्तयः ।
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ॥ 32 ॥

राजवृत्तेश्च सङ्कीणश्शरासनपरायणः ।
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ॥ 33 ॥

इन्द्रियैः कामवृत्तस्सन्कृष्यसे मनुजेश्वर ।
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ 34 ॥

किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ।
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ॥ 35 ॥

नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ।
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ॥ 36 ॥

लोकं पापात्मनामेते गच्छन्ते नात्र संशयः ।
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ 37 ॥

पञ्च पञ्च नखा भक्ष्या ब्रह्मक्षत्रेण राघव ॥ 38 ॥

शल्यक श्श्वाविधो गोधा शशः कूर्मश्च पञ्चमः ।
चर्म चास्थि च मे राजन् नस्पृशन्ति मनीषिणः ॥ 39 ॥

अभक्ष्याणि च मांसानि सोऽहं पञ्चनखो हतः ।
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् ॥ 40 ॥

तदतिक्रम्य मोहेन कालस्य वशमागतः ।
त्वया नाथेन काकुत्स्थ न सनाथा वसुन्धरा ।
प्रमदा शीलसम्पन्ना धूर्तेन पतिना यथा ॥ 41 ॥

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
कथं दशरथेन त्वं जातः पापो महात्मना ॥ 42 ॥

छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ।
त्यक्तधर्माङ्कुशेनाहं निहतो रामहस्तिना ॥ 43 ॥

अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् ।
वक्ष्यसे चेदृशं कृत्वा सद्भिस्सह समागतः ॥ 44 ॥

उदासीनेषु योऽस्मासु विक्रमऽस्ते प्रकाशितः ।
अपकारिषु ते राजन्नहि पश्यामि विक्रमम् ॥ 45 ॥

दृश्यमानस्तु युद्ध्येथा मया यदि नृपात्मज ।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ 46 ॥

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ 47 ॥

मामेव यदि पूर्वं त्वमेतदर्थमचोदयः ॥ 48 ॥

मैथिलीमहमेकाह्ना तव चानीतवान्भवेत् ।
सुग्रीवप्रियकामेन यदहं निहतस्त्वया ।
कण्ठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ॥ 49 ॥

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥ 50 ॥

युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवस्स्वर्गते मयि ।
अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ॥ 51 ॥

काममेवं विधो लोकः कालेन विनियुज्यते ।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिन्त्यताम् ॥ 52 ॥

इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद्व्यथितो महात्मा ।
समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे सप्तदशस्सर्गः ॥




Browse Related Categories: