View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

2.48 अयोध्याकाण्ड - अष्टचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकाण्डम् ।
अथ अष्टचत्वारिंशस्सर्गः ।

तेषामेवं विषण्णानां पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 1 ॥

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
उद्गतानीव सत्वानि बभूवुरमनस्विनाम् ॥ 2 ॥

तेषामेवं विषण्णानां पीडितानामतीव च ।
बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ॥ 3 ॥

अनुगम्य निवृत्तानां रामं नगरवासिनाम् ।
उद्गतानीव सत्वानि बभूवुरमनस्विनाम् ॥ 4 ॥

स्वं स्वं निलयमागम्य पुत्रदारैस्समावृता ।
अश्रूणि मुमुचुस्सर्वे बाष्पेण पिहिताननाः ॥ 5 ॥

न चाहृष्यन् नचामोदन् वणिजो न प्रसारयन् ।
न चाशोभन्त पण्यानि नापचन् गृहमेधिनः ॥ 6 ॥

नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥ 7 ॥

गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् ।
व्यगर्हयन्त दुःखार्ता वाग्भिस्तोत्रैरिव द्विपान् ॥ 8 ॥

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा ।
पुत्रैर्वा किं सुखैर्वापि ये न पश्यन्ति राघवम् ॥ 9 ॥

एकः सत्पुरुषो लोके लक्ष्मण स्सह सीतया ।
योऽनुगच्छति काकुत्स्थं रामं परिचरन् वने ॥ 10 ॥

आपगाः कृतपुण्यास्ता पद्मिन्यश्च सरांसि च ।
येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ॥ 11 ॥

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः ।
आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ॥ 12 ॥

काननं वापि शैलं वा यं रामोऽधिगमिष्यति ।
प्रियातिथिमिव प्राप्तं नैनं शक्ष्यन्त्यनर्चितुम् ॥ 13 ॥

विचित्रकुसुमापीडा बहुमञ्जरि धारिणः ।
राघवं दर्शयिष्यन्ति नगा भ्रमरशालिनः ॥ 14 ॥

अकाले चापि मुख्यानि पुष्पाणि च फलानि च ।
दर्शयिष्यन्त्यनुक्रोशाद्गिरयो राममागतम् ॥ 15 ॥

प्रस्रविष्यन्ति तोयानि विमलानि महीधराः ।
विदर्शयन्तो विविधान् भूयश्चित्रांश्च निर्झरान् ॥ 16 ॥

पादपाः पर्वताग्रेषु रमयिष्यन्ति राघवम् ।
यत्र रामो भयं नात्र नास्ति तत्र पराभवः ॥ 17 ॥

स हि शूरो महाबाहुः पुत्रो दशरथस्य च ।
पुरा भवति नोदूरादनुगच्छाम राघवम् ॥ 18 ॥

पादच्छाया सुखा भर्तुस्तादृशस्य महात्मनः ।
स हि नाथो जनस्यास्य स गति स्सपरायणम् ॥ 19 ॥

वयं परिचरिष्यामः सीतां यूयं तु राघवम् ।
इति पौरस्त्रियो भर्तृन् दुखार्तास्तत्तदब्रुवन् ॥ 20 ॥

युष्माकं राघवोऽरण्ये योगक्षेमं विधास्यति ।
सीता नारीजनस्यास्य योगक्षेमं करिष्यति ॥ 21 ॥

को न्वनेनाऽप्रतीतेन सोत्कण्ठितजनेन च ।
सम्प्रियेतामनोज्ञेन वासेन हृतचेतसा ॥ 22 ॥

कैकेय्या यदि चे द्राज्यं स्यादधर्म्यमनाथवत् ।
न हि नो जीवितेनार्थः कुतः पुत्रैः कुतो धनैः ॥ 23 ॥

यया पुत्रश्च भर्ता च त्यक्तावैश्वर्यकारणात् ।
कं सा परिहरेदन्यं कैकेयी कुलपांसनी ॥ 24 ॥

कैकेय्या न वयं राज्ये भृतका निवसेमहि ।
जीवन्त्या जातु जीवन्त्यः पुत्रैरपि शपामहे ॥ 25 ॥

या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा ।
कस्तां प्राप्य सुखं जीवेदधर्म्यां दुष्टचारिणीम् ॥ 26 ॥

उपद्रुतमिदं सर्वमनालम्बमनायकम् ।
कैकेय्या हि कृते सर्वं विनाशमुपयास्यति ॥ 27 ॥

न हि प्रव्रजिते रामे जीविष्यति महीपतिः ।
मृते दशरथे व्यक्तं विलापस्तदनन्तरम् ॥ 28 ॥

ते विषं पिबतालोड्य क्षीणपुण्या स्सुदुर्गताः ।
राघवं वानुगच्छध्वमश्रुतिं वापि गच्छत ॥ 29 ॥

मिथ्याप्रव्राजितो राम स्ससीत स्सहलक्ष्मणः ।
भरते सन्निसृष्टास्स्म स्सौनिके पशवो यथा ॥ 30 ॥

पूर्णचन्द्रानन श्श्यामो गूढजत्रुररिन्दमः ।
आजानुबाहुः पद्माक्षो रामो लक्ष्मणपूर्वजः ॥ 31 ॥

पूर्वाभिभाषी मधुर स्सत्यवादी महाबलः ।
सौम्यस्सर्वस्य लोकस्य चन्द्रवत्प्रियदर्शनः ॥ 32 ॥

नूनं पुरुषशार्दूलो मत्तमातङ्गविक्रमः ।
शोभयिष्यत्यरण्यानि विचरन् स महारथः ॥ 33 ॥

तास्तथा विलपन्त्यस्तु नगरे नागरस्त्रियः ।
चुक्रुशु र्दुःखसन्तप्ता मृत्योरिव भयागमे ॥ 34 ॥

इत्येवं विलपन्तीनां स्त्रीणां वेश्मसु राघवम् ।
जगामास्तं दिनकरो रजनी चाभ्यवर्तत ॥ 35 ॥

नष्टज्वलनसन्तापा प्रशान्ताध्यायसत्कथा ।
तिमिरेणाभिलिप्तेव सा तदा नगरी बभौ ॥ 36 ॥

उपशान्तवणिक्पण्या नष्टहर्षा निराश्रया ।
अयोध्या नगरी चासीन्नष्टतारमिवाम्बरम् ॥ 37 ॥

तथा स्त्रियो रामनिमित्तमातुरा यथा सुते भ्रातरि वा विवासिते ।
विलप्य दीना रुरुदुर्विचेतस स्सूतैर्हि तासामधिको हि सोऽभवत् ॥ 38 ॥

प्रशान्तगीतोत्सवनृत्तवादना व्यपास्तहर्षा पिहितापणोदया ।
तदा ह्ययोध्या नगरी बभूव सा महार्णव स्सङ्क्षपितोदको यथा ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकाण्डे अष्टचत्वारिंशस्सर्गः ॥




Browse Related Categories: