श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चषष्टितमस्सर्गः ।
अथाङ्गदवचश्श्रुत्वा ते सर्वे वानरर्षभाः ।
स्वं स्वं गतौ समुत्साहमूचुस्तत्र यथाक्रमम् ॥ 1 ॥
गजो गवाक्षो गवयश्शरभो गन्धमादनः ।
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवां स्तथा ॥ 2 ॥
आबभाषे गजस्तत्र प्लवेयं दशयोजनम् ।
गवाक्षो योजननान्याह गमिष्यामीति विंशतिम् ॥ 3 ॥
गवयो वानरस्तत्र वानरां स्तानुवाच ह ।
त्रिंशतं तु गमिष्यामि योजनानां प्लवङ्गमाः ॥ 4 ॥
शरभस्तानुवाचाथ वानरान् वानरर्षभः ।
चत्वारिंशद्गमिष्यामि योजनानां प्लवङ्गमाः ॥ 5 ॥
वानरस्तु महातेजा अब्रवीद्गन्धमादनः ।
योजनानां गमिष्यामि पञ्चाशत्तु न संशयः ॥ 6 ॥
मैन्दस्तु वानरस्तत्र वानरांस्तानुवाच ह ।
योजनानां परं षष्टिमहं प्लवितुमुत्सहे ॥ 7 ॥
ततस्तत्र महातेजा द्विविदः प्रत्यभाषत ।
गमिष्यामि न सन्देहस्सप्ततिं योजनान्यहम् ॥ 8 ॥
सुषेणस्तु महातेजाःप्रोक्तवान्हरिसत्तमान् ।
अशीतिं योजनानां तु प्लवेयं प्लवगेश्वराः ॥ 9 ॥
तेषां कथयतां तत्र सर्वांस्ताननुमान्य च ।
ततो वृद्धतमस्तेषां जाम्बवान्प्रत्यभाषत ॥ 10 ॥
पूर्वमस्माकमप्यासीत्कश्चिद्गतिपराक्रमः ।
ते वयं वयसः पारमनुप्राप्तास्स्म साम्प्रतम् ॥ 11 ॥
किन्तु नैवं गते शक्यमिदं कार्यमुपेक्षितुम् ।
यदर्थं कपिराजश्च रामश्च कृतनिश्चयौ ॥ 12 ॥
साम्प्रतं कालभेदेन या गतिस्तां निबोधत ।
नवतिं योजनानां तु गमिष्यामि न संशयः ॥ 13 ॥
तांश्च सर्वान्हरिश्रेष्ठाञ्जाम्बवान्पुनरब्रवीत् ।
न खल्वेतावदेवासीद्गमने मे पराक्रमः ॥ 14 ॥
मया महाबलेश्चैव यज्ञे विष्णुस्सनातनः ।
प्रदक्षिणीकृतः पूर्वं क्रममाणस्त्रिविक्रमम् ॥ 15 ॥
स इदानीमहं वृद्धः प्लवने मन्दविक्रमः ।
यौवने च तदाऽसीन्मे बलमप्रतिमं परैः ॥ 16 ॥
सम्प्रत्येतावतीं शक्तिं गमने तर्कयाम्यहम् ।
नैतावता हि संसिद्धिः कार्यस्यास्य भविष्यति ॥ 17 ॥
अथोत्तरमुदारार्थमब्रवीदङ्गदस्तदा ।
अनुमान्य तथा प्राज्ञो जाम्बवन्तं महाकपिम् ॥ 18 ॥
अहमेतद्गमिष्यामि योजनानां शतं महत् ।
निवर्तने तु मे शक्तिस्स्यान्न वेति न निश्चितम् ॥ 19 ॥
तमुवाच हरिश्रेष्ठं जाम्बवान्वाक्यकोविदः ।
ज्ञायते गमने शक्तिस्तव हर्यृक्षसत्तम ॥ 20 ॥
कामं शतं सहस्रं वा न ह्येष विधिरुच्यते ।
योजनानां भवान् शक्तो गन्तुं प्रतिनिवर्तितुम् ॥ 21 ॥
न हि प्रेषयिता तात स्वामी प्रेष्यः कथञ्चन ।
भवताऽयं जनस्सर्वः प्रेष्यः प्लवगसत्तम ॥ 22 ॥
भवान् कलत्रं अस्माकं स्वामि भावे व्यवस्थितः ।
स्वामी कलत्रं सैन्यस्य गतिः एषा परन्तप ॥ 23 ॥
अपि वै एतस्य कार्यस्य भवान् मूलं अरिं दम ।
तस्मात् कलत्रवत् तात प्रतिपाल्यः सदा भवान् ॥ 24 ॥
मूलमर्थस्य संरक्ष्यमेष कार्यविदां नयः ।
मूले सति हि सिद्ध्यन्ति गुणा फलो पुष्पोदयाः ॥ 25 ॥
तद्भवानस्य कार्यस्य साधने सत्यविक्रम ।
बुद्धिविक्रमसम्पन्नो हेतुरत्र परन्तप ॥ 26 ॥
गुरुश्च गुरुपुत्रश्च त्वं हि नः कपिसत्तम ।
भवन्तमाश्रित्य वयं समर्था ह्यर्थसाधने ॥ 27 ॥
उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः ।
प्रत्युवाचोत्तरं वाक्यं वालिसूनुरथाङ्गदः ॥ 28 ॥
यदि नाहं गमिष्यामि नान्यो वानरपुङ्गवः ।
पुनः खल्विदमस्माभिः कार्यं प्रायोपवेशनम् ॥ 29 ॥
न ह्यकृत्वा हरिपतेस्सन्देशं तस्य धीमतः ।
तत्रापि गत्वा प्राणानां पश्यामि परिरक्षणम् ॥ 30 ॥
स हि प्रसादे चात्यर्थं कोपे च हरिरीश्वरः ।
अतीत्य तस्य सन्देशं विनाशो गमने भवेत् ॥ 31 ॥
तद्यथा ह्यस्य कार्यस्य न भवत्यन्यथा गतिः ।
तद्भवानेव दृष्टार्थस्सञ्चिन्तयितु मर्हति ॥ 32 ॥
सोऽङ्गदेन तदा वीरः प्रत्युक्तः प्लवगर्षभः ।
जाम्बवानुत्तरं वाक्यं प्रोवाचेदं ततोऽङ्गदम् ॥ 33 ॥
अस्य ते वीर कार्यस्य न किञ्चित्परिहीयते ।
एष सञ्चोदयाम्येनं यः कार्यं साधयिष्यति ॥ 34 ॥
ततःप्रतीतं प्लवतांवरिष्ठं एकान्तमाश्रित्य सुसुखेपविष्ठं सञ्चोदयामास हरिप्रवीरो हरिप्रवीरं हनुमन्तमेव ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चषष्टितमस्सर्गः ॥