श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ त्रयोदशस्सर्गः ।
रावणङ्क्रुद्धमाज्ञायमहापार्श्वोमहाबलः ।
मुहूर्तमनुसञ्चिन्त्यप्राञ्जलिर्वाक्यमब्रवीत् ॥ 1 ॥
यःखल्वपिवनम्प्राप्यमृगव्यालनिषेवितम् ।
नपिबेन्मधुसम्प्राप्यसनरोबालिशोभवेत् ॥ 2 ॥
ईश्वरस्येश्वरःकोऽस्तितवशत्रुनिबर्हणः ।
रमस्वसहवैदेह्याशत्रूनाक्रम्यमूर्धसु ॥ 3 ॥
बलात्कुक्कुटवृत्तेनप्रवर्तस्वमहाबलः ।
आक्रम्याक्रम्यसीतांवैताम्भुङ् क्ष्वचरमस्वच ॥ 4 ॥
लब्धकामस्यतेपश्चादागमिष्यतियद्भयम् ।
प्राप्तमप्राप्तकालंवासर्वम्प्रतिसहिष्यति ॥ 5 ॥
कुम्भकर्णस्सहास्माभिरिन्द्रजिच्चमहाबलः ।
प्रतिषेधयितुंशक्तौसवज्रमपिवज्रिणम् ॥ 6 ॥
उपप्रदानंसान्त्वंवाभेदंवाकुशलैःकृतम् ।
समतिक्रम्यदण्डेनसिद्धिमर्थेषुरोचये ॥ 7 ॥
इहप्राप्तान्वयंसर्वान् शत्रूंस्तवमहाबलः ।
वशेशस्त्रप्रतापेनकरिष्यामोनसंशयः ॥ 8 ॥
एवमुक्तस्तदाराजामहापार्श्वेनरावणः ।
तस्यसम्पूजयन्वाक्यमिदंवचनमब्रवीत् ॥ 9 ॥
महापार्श्वनिबोधत्वंरहस्यङ्किञ्चिदात्मनः ।
चिरवृत्तन्तदाख्यास्येयदवाप्तम्पुरामया ॥ 10 ॥
पितामहस्यभवनङ्गच्छन्तीम्पुञ्जिकस्थलाम् ।
चञ्चूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ 11 ॥
साप्रसह्यमयाभुक्ताकृताविवसनाततः ।
स्वयम्भूभवनम्प्राप्तालोलितानलिनीयथा ॥ 12 ॥
तच्चतस्यतदामन्येज्ञातमासीन्महात्मनः ।
अथसङ्कुपितोदेवोमामिदंवाक्यमब्रवीत् ॥ 13 ॥
अद्यप्रभृतियामन्याबलान्नारीङ्गमिष्यसि ।
तदातेशतधामूर्धाफलिष्यतिनसंशयः ॥ 14 ॥
इत्यहन्तस्यशापस्यभीतःप्रसभमेवताम् ।
नारोहयेबलात्सीतांवैदेहींशयनेशुभे ॥ 15 ॥
सागरस्येनमेवेगोमारुतस्येवमेगतिः ।
नैतद्दाशरथिर्वेदह्यासादयतितेनमाम् ॥ 16 ॥
कोहिसिंहमिवासीनंसुप्तङ्गिरिगुहाशये ।
क्रुद्धम्मृत्युमिवाऽसीनंसम्भोधयितुमिच्छति ॥ 17 ॥
नमत्तोनिशितान्बाणान्द्विजिह्वान्पन्नगानिव ।
रामःपश्यतिसङ्ग्रामेतेनमामभिगच्छति ॥ 18 ॥
क्षिप्रंवज्रसमैर्बाणैश्शतथाकार्मुकच्युतैः ।
राममादीपयिष्यामिउल्काभिरिवकुञ्जरम् ॥ 19 ॥
तच्चास्यबलमादास्येबलेनमहतावृतः ।
उदितस्सविताकालेनक्षत्राणामिवप्रभाम् ॥ 20 ॥
नवासनेनापिसहस्रचक्षुषायुधाऽस्मिशक्योवरुणेनवापुनः ।
मयात्वियम्बाहुबलेननिर्जितापुरापुरीवैश्रवणेनपालिता ॥ 21 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे त्रयोदशस्सर्गः ॥