View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

6.124 युद्धकाण्ड - चतुर्विंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकाण्डम् ।
अथ चतुर्विंशत्यधिकशततमस्सर्गः ।

तांरात्रिमुषितंरामंसुखोत्थिमरिन्दमम् ।
अब्रवीत्प्राञ्जलिर्वाक्यञ्जयम्पृष्टवाविभीषणः ॥ 1 ॥

स्नानानिचाङ्गरागाणिवस्त्राण्याभरणानि च ।
चन्दनानि च दिव्यानिमाल्यानिविविधानि च ॥ 2 ॥

अलङ्कारविदश्चेमानार्यःपद्मनिभेक्षणाः ।
उपस्थितास्त्वांविधवत्स्नापयिष्यन्तिराघव ॥ 3 ॥

एवमुक्तस्तुकाकुत्स्थः प्रत्युवाचविभीषणम् ।
हरीन्सुग्रीवमुख्यांस्त्वंस्नानेनोपनिमन्त्रय ॥ 4 ॥

स तुताम्यतिधर्मात्माममहेतोस्सुखोचितः ।
सुकुमारोमहाबाहोकुमारः सत्यसंश्रयः ॥ 5 ॥

तंविनाकैकयीपुत्रम्भरतन्धर्मचारिणम् ।
न मेस्नानम्बहुमतंवस्त्राण्याभरणानि च ॥ 6 ॥

एतत्पश्ययथाक्षिप्रम्प्रतिगच्छामताम्पुरीम् ।
अयोध्याङ्गच्छतोह्येषपन्थाःपरमदुर्गमः ॥ 7 ॥

एवमुक्तस्तुकाकुत्स्थम्प्रत्युवाचविभीषणः ।
अह्नात्वाम्प्रापयिष्यामिताम्पुरीम्पार्थिवात्मज ॥ 8 ॥

पुष्पकन्नामभद्रन्तेविमानंसूर्यसन्निभम् ।
ममभ्रातुःकुबेरस्यरावणेनबलीयसा ॥ 9 ॥

हृतन्निर्जित्यसङ्ग्रामेकामगन्दिव्यमुत्तमम् ।
त्वदर्थम्पालितञ्चेदन्तिष्ठत्यतुलविक्रम ॥ 10 ॥

तदिदम्मेघसङ्काशंविमानमिहतिष्ठति ।
तेनयास्यसियानेनत्वमयोध्याङ्गतज्वरः ॥ 11 ॥

अहन्तेयुद्यनुग्राह्योयदिस्मरसिमेगुणान् ।
वसतावदिहप्राज्ञ यद्यस्तिमयिसौहृदम् ॥ 12 ॥

लक्ष्मणेनसहभ्रात्रावैदेह्याभार्ययासह ।
अर्चितस्सर्वकामैस्त्वन्ततोराम गमिष्यसि ॥ 13 ॥

प्रीतियुक्तस्यविहितांससैन्यःससुहृद्गणः ।
सक्रतियांराममेतावद्गृहेणत्वम्मयोद्यताम् ॥ 14 ॥

प्रणयाद्भहुमानाच्चसौहार्देन च राघव ।
प्रसादायामिप्रेष्योऽहं न खल्वाज्ञापयामिते ॥ 15 ॥

एवमुक्तस्ततोरामःप्रत्युवाचविभीषणम् ।
रक्षसांवानराणां च सर्वेषामेवशृण्वताम् ॥ 16 ॥

पूजितोऽस्मित्वयावीर साचिव्येनपरन्तप ।
सर्वात्मना च चेष्टाभिःसौहार्देनपरेण च ॥ 17 ॥

न खल्वेतन्नकुर्यान्तेवचनंराक्षसेश्वर ।
तन्तुमेभ्रातरन्द्रष्टुम्भरतन्त्वरतेमनः ॥ 18 ॥

मान्निवर्तयितुंयोऽसौचित्रकूटमुपागतः ।
शिरसायाचतोयस्यवचनं न कृतम्मया ॥ 19 ॥

कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
गुहं च सुहृदञ्चैवपौरान्जनपदैस्सह ॥ 20 ॥

अनुजानीहमांसौम्य पूजितोऽस्मिविभीषण ।
मन्युर्नखलुकर्तव्यःसखेत्वाञ्चानुमानये ॥ 21 ॥

उपस्थापयमेशीघ्रंविमानंराक्षसेश्वर ।
कृतकार्यस्यमेवासःकथंस्यादिहसम्मतः ॥ 22 ॥

एवमुक्तस्तुरामेणराक्षसेन्द्रोविभीषणः ।
विमानसूर्यसङ्काशमाजुहावत्वरान्वितः ॥ 23 ॥

ततःकाञ्चनचित्राङ्गंवैदूर्यमणिवेदिकम् ।
कूटागारैःपरिक्षिप्तंसर्वतोरजतप्रभम् ॥ 24 ॥

पाण्डुराभिःपताकाभिर्ध्वजैश्चसमलङ्कृतम् ।
शोभितङ्काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥ 25 ॥

प्रकीर्णङ्किङ्किणीजालैर्मुक्तामणिगवाक्षकम् ।
घण्टाजालैःपरिक्षिप्तंसर्वतोमधुरस्वनम् ॥ 26 ॥

यन्मेरुशिखराकारन्निर्मितंविश्वकर्मणा ।
बृहभिर्भूषितंहर्म्यैर्मुक्तारजतशोभितैः ॥ 27 ॥

तलैस्स्फटिकचित्राङ्गैदूर्यैश्चवरासनैः ।
महार्हास्तरणोपेतैरुपपन्नम्महाधनैः ॥ 28 ॥

उपस्थितमनाधृष्यन्तद्विमानम्मनोजवम् ।
निवेदयित्वारामायतस्थौतत्रविभीषणः ॥ 29 ॥

तत्पुष्पकङ्कामगमंविमानमुपस्थितम्भूधरसन्निकाशम् ।
दृष्टवातदाविस्मयमाजगामरामस्ससौमित्रिरुदारसत्त्वः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकाण्डे चतुर्विंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: