श्रीमद्वाल्मीकीय रामायणे किष्किन्धाकाण्डम् ।
अथ पञ्चाशस्सर्गः ।
सह ताराङ्गदाभ्यां तु सङ्गम्य हनुमान्कपिः ।
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च ॥ 1 ॥
सिंहशार्दूलजुष्टेषु शिलाश्च सरितस्तदा ।
विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च ॥ 2 ॥
आसेदुस्तस्य शैलस्य कोटिं दक्ष्णिपश्चिमाम् ।
तेषां तत्रैव वसतां स कालो व्यत्यवर्तत ॥ 3 ॥
स हि देशो दुरन्वेषो गुहागहनवान्महान् ।
तत्र वायुसुतस्सर्वं विचिनोति स्म पर्वतम् ॥ 4 ॥
परस्परेण हनुमा नन्योन्यस्याविदूरतः ।
गजो गवाक्षो गवयश्शरभो गन्धमादनः ॥ 5 ॥
मैन्दश्च द्विविदश्चैव सुषेणो जाम्बवान्नलः ।
अङ्गदो युवराजश्च तारश्च वनगोचरः ॥ 6 ॥
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ।
विचिन्वन्तस्ततस्तत्र ददृशुर्विवृतं बिलम् ॥ 7 ॥
दुर्गमृक्षबिलं नाम दानवेनाभिरक्षितम् ।
क्षुत्पिपासापरीताश्च श्रान्ताश्च सलिलार्थिनः ॥ 8 ॥
अवकीर्णं लतावृक्षैर्ददृशुस्ते महाबिलम् ।
तत्र क्रौञ्चाश्च हंसाश्च सारसाश्च विनिष्क्रमन् ॥ 9 ॥
जलार्द्राश्चक्रवाकाश्च रक्ताङ्गाः पद्मरेणुभिः ।
ततस्तद्बिलमासाद्य सुगन्धि दुरतिक्रमम् ॥ 10 ॥
विस्मयव्यग्रमनसो बभूवुर्वानरर्षभाः ।
संञ्जातपरिशङ्कास्ते तद्बिलं प्लवगोत्तमाः ॥ 11 ॥
अभ्यपद्यन्त संहृष्टास्तेजोवन्तो महाबलाः ।
नानासत्त्वसमाकीर्णं दैत्येन्द्रनिलयोपमम् ॥ 12 ॥
दुर्दर्शमतिघोरं च दुर्विगाहं च सर्वशः ।
ततः पर्वतकूटाभो हनूमान्पवनात्मजः ॥ 13 ॥
अब्रवीद्वानरान्सर्वान्कान्तारवनकोविदः ।
गिरिजालावृतान्देशान्मार्गित्वा दक्षिणां दिशम् ॥ 14 ॥
वयं सर्वे परिश्रान्ता न च पश्याम मैथिलीम् ।
अस्माच्चापि बिलाद्धंसाः क्रौञ्चाश्च सह सारसैः ॥ 15 ॥
जलार्द्राश्चक्रवाकाश्च निष्पतन्ति स्म सर्वशः ।
नूनं सलिलवानत्र कूपो वा यदि वा ह्रदः ॥ 16 ॥
तथा चेमे बिलद्वारि स्निग्धास्तिष्ठन्ति पादपाः ।
इत्युक्त्वा तद्बिलं सर्वे विविशुस्तिमिरावृतम् ॥ 17 ॥
अचन्द्रसूर्यं हरयो ददृशू रोमहर्षणम् ।
निशाम्य तस्मात् शिंहांश्च तांस्तांश्च मृगपक्ष्णिः ॥ 18 ॥
प्रविष्टा हरिशार्दूला बिलं तिमिरसंवृतम् ।
न तेषां सज्जते चक्षुर्न तेजो न पराक्रमः ॥ 19 ॥
वायोरिव गतिस्तेषां दृष्टिस्तमसि वर्तते ।
ते प्रविष्टास्तु वेगेन तद्बिलं कपिकुञ्जराः ॥ 20 ॥
प्रकाशमभिरामं च ददृशुर्देशमुत्तमम् ।
ततस्तस्मिन्बिले दुर्गे नानापादपसङ्कुले ॥ 21 ॥
अन्योन्यं सम्परिष्वज्य जग्मुर्योजनमन्तरम् ।
ते नष्टसञ्ज्ञास्तृषितास्सम्भ्रान्तास्सलिलार्थिनः ॥ 22 ॥
परिपेतुर्बिले तस्मिन्कञ्चित्कालमतन्द्रिताः ।
ते कृशा दीनवदनाः परिश्रान्ताः प्लवङ्गमाः ॥ 23 ॥
आलोकं ददृशुर्वीरा निराशा जीविते यदा ।
ततस्तं देशमागम्य सौम्या वितिमिरं वनम् ॥ 24 ॥
ददृशुः काञ्चनान्वृक्षान्दीप्तवैश्वानरप्रभान् ।
सालां स्तालांश्च पुन्नागान्ककुभान्वञ्जुलान्धवान् ॥ 25 ॥
चम्पकान् नागवृक्षांश्च कर्णिकारांश्च पुष्पितान् ।
स्तबकैः काञ्चनैश्चित्रै रक्तैः किसलयैस्तथा ॥ 26 ॥
आपीडैश्च लताभिश्च हेमाभरणभूषितान् ।
तरुणादित्यसङ्काशान्वैढूर्यकृतवेदिकान् ॥ 27 ॥
विभ्राजमानान्वपुषा पादपांश्च हिरण्मयान् ।
नीलवैढूर्यवर्णाश्च पद्मिनीः पतगावृताः ॥ 28 ॥
महद्भिः काञ्चनैः पद्मैर्वृता बालार्कसन्निभैः ।
जातरूपमयैर्मत्स्यैर्महद्भिश्च सकच्छपैः ॥ 29 ॥
तपनीय गवाक्षाणि मुक्ता जाल आवृतानि च ।
हैम राजत भौमानि वैदूर्य मणिमन्ति च ॥ 30 ॥
तपनीयगवाक्षाणि मुक्ताजालावृतानि च ।
हैमराजतभौमानि वैदूर्यमणिमन्ति च ॥ 31 ॥
काञ्चन भ्रमरान् चैव मधूनि च समन्ततः ।
मणि काञ्चन चित्राणि शयनानि आसनानि च ॥ 32 ॥
काञ्चनभ्रमरांश्चैव मधूनि च समन्ततः ।
मणिकाञ्चनचित्राणि शयनान्यासनानि च ॥ 33 ॥
महार्हाणि चयानानि ददृशुस्ते समन्ततः ।
हैमराजतकांस्यानां भाजनानां च संञ्चयान् ॥ 34 ॥
अगरूणां च दिव्यानां चन्दनानां च संञ्चायान् ।
शुचीन्यभ्यवहार्याणि मूलानि च फलानि च ॥ 35 ॥
महार्हाणि च पानानि मधूनि रसवन्ति च ।
दिव्यानामम्बराणां च महार्हाणां च सञ्चयान् ॥ 36 ॥
कम्बलानां च चित्राणामजिनानां च सञ्चयान् ।
तत्र तत्र च विन्यस्तान्दीप्तान्वैश्वानरप्रभान् ॥ 37 ॥
ददृशुर्वानराश्शुभ्राञ्जातरूपस्य सञ्चयान् ।
तत्र तत्र विचिन्वन्तो बिले तस्मिन्महाबलाः ॥ 38 ॥
ददृशुर्वानराश्शूराः स्त्रियं काञ्चिददूरतः ।
तां दृष्ट्वा भृशसन्त्रस्ताश्चीरकृष्णाजिनाम्बराम् ॥ 39 ॥
तापसीं नियताहारां ज्वलन्तीमिव तेजसा ।
विस्मिता हरयस्तत्र व्यवतिष्ठन्त सर्वशः ॥ 40 ॥
पप्रच्छ हनुमांस्तत्र काऽसि त्वं कस्य वा बिलम् ।
ततो हनूमान्गिरिसन्निकाशः कृताज्ञलिस्तामभिवाद्य वृद्धाम् ।
पप्रच्छ का त्वं भवनं बिलं च रत्नानि चेमानि वदस्व कस्य ॥ 41 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किन्धाकाण्डे पञ्चाशस्सर्गः ॥