श्रीमद्वाल्मीकीय रामायणे अरण्यकाण्डम् ।
अथ एकोनसप्ततितमस्सर्गः ।
कृत्वैवमुदकं तस्मै प्रस्थितौ रामलक्ष्मणौ ।
अवेक्षन्तौ वने सीतां पश्चिमां जग्मतुर्दिशम् ॥ 1 ॥
तौ दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥ 2 ॥
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥ 3 ॥
व्यतिक्रम्य तु वेगेन व्यालसिंहनिषेवितम् ।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥ 4 ॥
ततः परं जनस्थानातत्रिक्रोशं गम्य राघवौ ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥ 5 ॥
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।
नानापक्षिगणैर्युक्तं नानाव्यालमृगैर्युतम् ॥ 6 ॥
दिदृक्षमाणौ वैदेहीं तद्वनं तौ विचिक्यतुः ।
तत्र तत्रावतिष्ठन्तौ सीताहरणकर्शितौ ॥ 7 ॥
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा ।
क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरा ॥ 8 ॥
दृष्ट्वा तु तद्वनं घोरं बहुभीममृगद्विजम् ।
ननासत्त्वसमाकीर्णं सर्वं गहनपादपम् ॥ 9 ॥
ददृशाते तु तौ तत्र दरीं दशरथात्मजौ ।
पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥ 10 ॥
आसाद्य तौ नरव्याघ्रौ दर्यास्तस्याविदूरतः ।
ददृशाते महारूपां राक्षसीं विकृताननाम् ॥ 11 ॥
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् ।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् ॥ 12 ॥
भक्षयन्तीं मृगान्भीमान्विकटां मुक्तमूर्धजाम् ।
प्रैक्षेतां तौ ततस्तत्र भ्रातरौ रामलक्ष्मणौ ॥ 13 ॥
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः ।
एहि रंस्यावहेत्युक्त्वा समालम्बत लक्ष्मणम् ॥ 14 ॥
उवाच चैनं वचनं सौमित्रिमुपगूह्य सा ।
अहं त्वयोमुखी नाम लब्धा ते त्वमसि प्रियः ॥ 15 ॥
नाथ पर्वतकूटेषु नदीनां पुलिनेषु च ।
आयुश्शेषमिमं वीर त्वं मया सह रंस्यसे ॥ 16 ॥
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः ।
कर्णनासास्तनं तस्या निचकर्तारिसूदनः ॥ 17 ॥
कर्णनासे निकृत्ते तु विस्वरं सा विनद्य च ।
यथागतं प्रदुद्राव राक्षसी भीमदर्शना ॥ 18 ॥
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा ।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥ 19 ॥
लक्ष्मणस्तु महातेजास्सत्त्ववान् शीलवान् शुचिः ।
अब्रवीत्प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥ 20 ॥
स्पन्दते च दृढं बाहुरुद्विग्नमिव मे मनः ।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥ 21 ॥
तस्मात्सज्जीभवार्य त्वं कुरुष्व वचनं हितम् ।
ममैव हि निमित्तानि सद्यश्शंसन्ति सम्भ्रमम् ॥ 22 ॥
एष वञ्चुलको नाम पक्षी परमदारुणः ।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥ 23 ॥
तयोरन्वेषतोरेवं सर्वं तद्वनमोजसा ।
सञ्जज्ञे विपुलः शब्दो प्रभञ्जन्निव तद्वनम् ॥ 24 ॥
संवेष्टितमिवात्यर्थं गगनं मातरिश्वना ।
वनस्य तस्य शब्दोऽभूद्दिवमापूरयन्निव ॥ 25 ॥
तं शब्दं काङ्क्षमाणस्तु रामः कक्षे सहानुजः ।
ददर्श सुमहाकायं राक्षसं विपुलोदरम् ॥ 26 ॥
आसेदतुस्ततस्तत्र तावुभौ प्रमुखे स्थितम् ।
विवृद्धमशिरोग्रीवं कबन्धमुदरे मुखम् ॥ 27 ॥
रोमभिर्निचितैस्तीक्ष्णैर्महागिरिमिवोछ्रितम् ।
नीलमेघनिभं रौद्रं मेघस्तनितनिस्वनम् ॥ 28 ॥
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता ।
महापक्ष्मेण पिङ्गेन विपुलेनायतेन च ॥ 29 ॥
एकेनोरसि घोरेण नयनेनाशुदर्शिना ।
महादंष्ट्रोपपन्नं तल्लेलिहानं महामुखम् ॥ 30 ॥
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विपान् ।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥ 31 ॥
कराभ्यां विविधान्गृह्यऋक्षान्पक्षिगणान्मृगान् ।
आकर्षन्तं विकर्षन्तमनेकान्मृगयूथपान् ॥ 32 ॥
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ।
अथ तौ समभिक्रम्य क्रोशमात्रे ददर्शतुः ॥ 33 ॥
महान्तं दारुणं भीमं कबन्धं भुजसंवृम् ।
कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥ 34 ॥
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।
जग्राह सहितावेव राघवौ पीडयन्बलात् ॥ 35 ॥
खड्गिनौ दृढधन्वानौ तिग्मतेजोवपुर्धरौ ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥ 36 ॥
तत्र धैर्येण शूरस्तु राघवो नैव विव्यथे ।
बाल्यादनाश्रयत्वाच्च लक्ष्मणस्त्वतिविव्यथे ॥ 37 ॥
उवाच स विषण्णस्सन्राघवं राघवानुजः ।
पश्य मां वीर विवशं राक्षसस्य वशं गतम् ॥ 38 ॥
मयैकेन विनिर्युक्तः परिमुञ्चस्व राघव ।
मां हि भूतबलिं दत्वा पलायस्व यथासुखम् ॥ 39 ॥
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ।
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ॥ 40 ॥
तत्र मां राम राज्यस्थस्स्मर्तुमर्हसि सर्वदा ।
लक्ष्मणेनैवमुक्तस्तु रामस्सौमित्रिमब्रवीत् ॥ 41 ॥
मा स्म त्रासं कृथा वीर न हि त्वादृग्विषीदति ।
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥ 42 ॥
पप्रच्छ घननिर्घोषः कबन्धो दानवोत्तमः ।
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥ 43 ॥
घोरं देशमिमं प्राप्तौ मम भक्षावुपस्थितौ ।
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥ 44 ॥
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ॥ 45 ॥
ममास्यमनुसम्प्राप्तौ दुर्लभं जीवितं पुनः ।
तस्य तद्वचनं श्रुत्वा कबन्धस्य दुरात्मनः ॥ 46 ॥
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रमः ॥ 47 ॥
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ।
कालस्य सुमहद्वीर्यं सर्वभूतेषु लक्ष्मण ॥ 48 ॥
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।
नातिभारोस्ति कालस्य सर्वभूतेषु लक्ष्मण ॥ 49 ॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।
कालाभिपन्नास्सीदन्ति यथा वालुकसेतवः ॥ 50 ॥
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।
अवेक्ष्य सौमित्रिमुदग्रपौरुषं स्थिरां तदा स्वां मतिमात्मनाऽकरोत् ॥ 51 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकाण्डे एकोनसप्ततितमस्सर्गः ॥