श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ एकपञ्चाशस्सर्गः ।
तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्टरोमा महातेजाश्शतानन्दो महातपाः ॥ 1 ॥
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
रामसन्दर्शनादेव परं विस्मयमागतः ॥ 2 ॥
स तौ निषण्णौ सम्प्रेक्ष्य सुखासीनौ नृपात्मजौ ।
शतानन्दो मुनिश्रेष्ठं विश्वामित्रमथामब्रवीत् ॥ 3 ॥
अपि ते मुनिशार्दूल मम माता यशस्विनी ।
दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ 4 ॥
अपि रामे महातेजा मम माता यशस्विनी ।
वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ॥ 5 ॥
अपि रामाय कथितं यथावृत्तं पुरातनम् ।
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ॥ 6 ॥
अपि कौशिक भद्रं ते गुरुणा मम सङ्गता ।
मम माता मुनिश्रेष्ठ रामसन्दर्शनादितः ॥ 7 ॥
अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥ 8 ॥
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज ।
इहाऽगतेन रामेण प्रयतेनाभिवादितः ॥ 9 ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ 10 ॥
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।
सङ्गता मुनिना पत्नी भार्गवेणेव रेणुका ॥ 11 ॥
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य भाषितम् ।
शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ 12 ॥
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ 13 ॥
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ 14 ॥
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ 15 ॥
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः ।
यथा बलं यथा वृत्तं तन्मे निगदतः श्रुणु ॥ 16 ॥
राजाऽभूदेष धर्मात्मा दीर्घकालमरिन्दमः ।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ 17 ॥
प्रजापतिसुतश्चासीत्कुशो नाम महीपतिः ।
कुशस्य पुत्रो बलवान् कुशनाभस्सुधार्मिकः ॥ 18 ॥
कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रृतः ।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ 19 ॥
विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ 20 ॥
कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।
अक्षौहीणीपरिवृतः परिचक्राम मेदिनीम् ॥ 21 ॥
नगराणि सराष्ट्राणि सरितश्च तथा गिरीन् ।
आश्रमान्क्रमशो राम विचरन्नाजगाम ह ॥ 22 ॥
वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ 23 ॥
देवदानवगन्धर्वैः किन्नरैरुपशोभितम् ।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ 24 ॥
ब्रह्मर्षिगणसङ्कीर्णं देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ 25 ॥
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ॥ 26 ॥
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम् ॥ 27 ॥
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥ 28 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे एकपञ्चाशस्सर्गः ॥