View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.35 बालकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ 1 ॥

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ 2 ॥

तच्छ्रुत्वा वचनं तस्य कृत्वा पौर्वाह्णिकीं क्रियाम् ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ 3 ॥

अयं शोणश्शुभजलोऽगाधः पुलिनमंडितः ।
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥ 4 ॥

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पंथा मयोद्दिष्टो येन यांति महर्षयः ॥ 5 ॥

एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यंतस्ते प्रयाता वै वनानि विविधानि च ॥ 6 ॥

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ 7 ॥

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुदिता स्सर्वे मुनयस्सह राघवाः ॥ 8 ॥

तस्यास्तीरे ततश्चक्रुस्त आवासपरिग्रहम् ।
ततस्स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥ 9 ॥

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुचौ मुदितमानसाः ॥ 10 ॥

विश्वामित्रं महात्मानं परिवार्य समंततः ।
अथ तत्र तदा रामो विश्वामित्रमथाब्रवीत् ॥ 11 ॥

भगवन् श्रोतुमिच्छामि गंगां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ 12 ॥

चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गंगाया वक्तुमेवोपचक्रमे ॥ 13 ॥

शैलेंद्रो हिमवान्नाम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ 14 ॥

या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मनोरमा नाम पत्नी हिमवतः प्रिया ॥ 15 ॥

तस्यां गंगेयमभवज्ज्येष्ठा हिमवतस्सुता ।
उमा नाम द्वितीयाभून्नाम्ना तस्यैव राघव ॥ 16 ॥

अथ ज्येष्ठां सुरास्सर्वे देवतार्थचिकीर्षया ।
शैलेंद्रं वरयामासुर्गंगां त्रिपथगां नदीम् ॥ 17 ॥

ददौ धर्मेण हिमवान् तनयां लोकपावनीम् ।
स्वच्छंदपथगां गंगां त्रैलोक्यहितकाम्यया ॥ 18 ॥

प्रतिगृह्य ततो देवास्त्रिलोकहितकारिणः ।
गंगामादाय तेऽगच्छन् कृतार्थेनांतरात्मना ॥ 19 ॥

या चान्या शैलदुहिता कन्यासीद्रघुनंदन ।
उग्रं सा व्रतमास्थाय तपस्तेपे तपोधना ॥ 20 ॥

उग्रेण तपसा युक्तां ददौ शैलवरस्सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ 21 ॥

एते ते शैलराजस्य सुते लोकनमस्कृते ।
गंगा च सरितां श्रेष्ठा उमादेवी च राघव ॥ 22 ॥

एतत्ते सर्वमाख्यातं यथा त्रिपथगा नदी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ 23 ॥

सैषा सुरनदी रम्या शैलेंद्रस्य सुता तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: