View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.108 अयोध्याकांड - अष्टाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टाधिकशततमस्सर्गः ।

आश्वासयंतं भरतं जाबालिर्ब्राह्मणोत्तमः ।
उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥ 1 ॥

साधु राघव माऽभूत्ते बुध्दिरेवं निरर्थिका ।
प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥ 2 ॥

कः कस्य पुरुषो बंधुः किमाप्यं कस्य केनचित् ।
यदेको जायते जंतुरेक एव विनश्यति ॥ 3 ॥

तस्मान्माता पिता चेति राम सज्जेत यो नरः ।
उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥ 4 ॥

यथा ग्रामांतरं गच्छन्नरः कश्चित्क्वचिद्वसेत् ।
उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥ 5 ॥

एवमेव मनुष्याणां पिता माता गृहं वसु ।
अवासमात्रं काकुत्स्थ सज्जंते नात्र सज्जनाः ॥ 6 ॥

पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम ।
आस्थातुं कापथं दुःखं विषमं बहुकंटकम् ॥ 7 ॥

समृद्धायामयोध्यायामात्मानमभिषेचय ।
एकवेणीधरा हि त्वां नगरी संप्रतीक्षते ॥ 8 ॥

राजभोगाननुभवन्महार्हान्पार्थिवात्मज ।
विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे ॥ 9 ॥

न ते कश्चिद्धशरथ स्त्वं च तस्य न कश्चन ।
अन्यो राजा त्वमन्य स्तस्मात्कुरु यदुच्यते ॥ 10 ॥

बीजमात्रं पिता जंतो श्शुक्लं रुधिरमेव च ।
संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ 11 ॥

गत स्स नृपतिस्तत्र गंतव्यं यत्र तेन वै ।
प्रवृततिरेषा मर्त्यानां त्वं तु मिथ्या विहन्यसे ॥ 12 ॥

अर्थधर्मपरा ये ये तांस्तांछोचामि नेतरान् ।
ते हि दुःखमिह प्राप्य विनाशं प्रेत्य भेजिरे ॥ 13 ॥

अष्टका पितृदैवत्यमित्ययं प्रसृतो जनः ।
अन्नस्योपद्रवं पश्य मृतो हि किमशिष्यति ॥ 14 ॥

यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।
दद्यात्प्रवसत श्श्राद्धं न तत्पथ्यशनं भवेत् ॥ 15 ॥

दानसंवनना ह्येते ग्रंथा मेधाविभिः कृताः ।
यजस्व देहि दीक्षस्व तपस्तप्यस्व संत्यज ॥ 16 ॥

स नास्ति परमित्येव कुरु बुद्धिं महामते ।
प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ 17 ॥

सतां बुद्धिं पुरस्कृत्य सर्वलोकनिदर्शिनीम् ।
राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ 18 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टाधिकशततमस्सर्गः ॥




Browse Related Categories: