View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.112 अयोध्याकांड - द्वादशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्वादशाधिकशततमस्सर्गः ।

तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् ।
विस्मिताः संगमं प्रेक्ष्य समवेता महर्षयः ॥ 1 ॥

अंतर्हिता मुनिगणास्सिद्धाश्च परमर्षयः ।
तौ भ्रातरौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥ 2 ॥

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ ।
श्रुत्वा वयं हि संभाषामुभयोस्स्पृहयामहे ॥ 3 ॥

ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः ।
भरतं राजशार्दूलमित्यूचुः संगता वचः ॥ 4 ॥

कुले जात महाप्राज्ञ महावृत्त महायशः ।
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥ 5 ॥

सदाऽनृणमिमं रामं वयमिच्छामहे पितुः ।
आनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥ 6 ॥

एतावदुक्त्वा वचनं गंधर्वाः समहर्षयः ।
राजर्षयश्चैव तदा सर्वे स्वां स्वां गतिं गताः ॥ 7 ॥

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः ।
राम स्संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥ 8 ॥

त्रस्तगात्रस्तु भरतस्स वाचा सज्जमानया ।
कृतांजलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥ 9 ॥

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसंततिम् ।
कर्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥ 10 ॥

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे ।
पौरजानपदांश्चापि रक्तान्रंजयितुं तथा ॥ 11 ॥

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः ।
त्वामेव प्रतिवीक्षंते पर्जन्यमिव कर्षकाः ॥ 12 ॥

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि ।
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥ 13 ॥

इत्युक्त्वा न्यपतद्भ्रातुः पादयोर्भरतस्तदा ।
भृशं संप्रार्थयामास राममेव प्रियंवदः ॥ 14 ॥

तमंके भरतं कृत्वा रामो वचनमब्रवीत् ।
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ 15 ॥

आगता त्वामियं बुद्धिस्स्वजा वैनयिकी च या ।
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥ 16 ॥

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मंत्रिभिः ।
सर्वकार्याणि सम्मंत्र्य सुमहंत्यपि कारय ॥ 17 ॥

लक्ष्मीश्चंद्रादपेयाद्वा हिमवान्वा हिमं त्यजेत् ।
अतीयात्सागरो वेलां न प्रतिज्ञामहं पितुः ॥ 18 ॥

कामाद्वा तात लोभाद्वा मात्रातुभ्यमिदं कृतम् ।
न तन्मनसि कर्तव्यं वर्तितव्यं च मातृवत् ॥ 19 ॥

एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् ।
तेजसाऽऽदित्यसंकाशं प्रतिपच्चंद्रदर्शनम् ॥ 20 ॥

आधिरोहाऽर्य पादाभ्यां पादुके हेमभूषिते ।
एतेहि सर्वलोकस्य योगक्षेमं विधास्यतः ॥ 21 ॥

सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च ।
प्रायच्छत्सुमहातेजा भरताय महात्मने ॥ 22 ॥

स पादुके संप्रणम्य रामं वचनमब्रवीत् चतुर्दश हि वर्षाणि जटाचीरधरो ह्याहम् ॥ 23 ॥

फलमूलाशनो वीर भवेयं रघुनंदन ।
तवाऽगमनमाकांक्षान्वसन्वै नगराद्बहिः ॥ 24 ॥

तव पादुकयोर्न्यस्तराज्यतंत्रः परंतप ।
चतुर्दशे तु संपूर्णे वर्षेऽहनि रघूत्तम ॥ 25 ॥

न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् ॥ 26 ॥

शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति ॥ 27 ॥

मया च सीतया चैव शप्तोऽसि रघुसत्तम ।
इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥ 28 ॥

स पादुके ते भरतः प्रतापवान् स्वलंकृते संपरिपूज्य धर्मवित् ।
प्रदक्षिणं चैव चकार राघवं चकार ते चोत्तमनागमूर्धनि ॥ 29 ॥

अथाऽनुपूर्व्यात्प्रतिनंद्य तं जनं गुरूंश्च मंत्रिप्रकृतीस्तथाऽनुजौ ।
व्यसर्जयद्राघववंशवर्धनस्थिरः स्वधर्मे हिमवानिवाचलः ॥ 30 ॥

तं मातरो बाष्पगृहीतकंठ्यो दुःखेन नामंत्रयितुं हि शेकुः ।
स त्वेव मात्रृरभिवाद्य सर्वारुदन्कुटीं स्वां प्रविवेश राघवः ॥ 31 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्वादशाधिकशततमस्सर्गः ॥




Browse Related Categories: