श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुर्दशाधिकशततमस्सर्गः ।
स्निग्धगंभीरघोषेण स्यंदनेनोपयान्प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ 1 ॥
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ 2 ॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थितेनैकां रोहिणीमिव पीडिताम् ॥ 3 ॥
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहंगमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ 4 ॥
विधूमामिव हेमाभामध्वराग्ने स्समुत्थिताम् ।
हविरभ्युक्षितां पश्चाच्छिखां विप्रलयं गताम् ॥ 5 ॥
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ 6 ॥
सफेनां सस्वनां भूत्वा सागरस्य समुत्थिताम् ।
प्रशांतमारुतोद्धूतां जलोर्मिमिव निस्स्वनाम् ॥ 7 ॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।
सुत्याकाले सुनिर्वृत्ते वेदिं गतरवामिव ॥ 8 ॥
गोष्ठमध्ये स्थितामार्तामचरंतीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पक्तिमिवोत्सुकाम् ॥ 9 ॥
प्रभाकराद्यै स्सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ 10 ॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संवृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ 11 ॥
पुष्पनद्धां वसंतांते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्नि विप्लुष्टां क्लांतां वनलतामिव ॥ 12 ॥
सम्मूढनिगमांस्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशशिनक्षत्रां द्यामिवांबुधरैर्वृताम् ॥ 13 ॥
क्षीणपानोत्तमैर्भग्नैः शरावैरभिसंवृताम् ।
हतशौंडामिव ध्वस्तांं पानभूमिमसंस्कृताम् ॥ 14 ॥
वृक्णभूमितलां निम्नां वृक्णपात्रैस्समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ 15 ॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ 16 ॥
सहसा युद्धशौंडेन हयारोहेण वाहिताम् ।
निहतां प्रतिसैन्येन वडवामिव पातिताम् ॥ 17 ॥
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ 18 ॥
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
संतप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ 19 ॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमंडलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ 20 ॥
भरतस्तु रथस्थ स्सन् श्रीमांदशरथात्मजः ।
वाहयंतं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ 21 ॥
किं नु खल्वद्य गंभीरो मूर्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ 22 ॥
वारुणीमदगंधश्च माल्यगंधश्च मूर्छितः ।
धूपितागुरुगंधश्च न प्रवाति समंततः ॥ 23 ॥
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।
प्रमत्तगजनादश्च महांश्च रथनिस्वनः ॥ 24 ॥
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।
चंदनागरुगंधांश्च महार्हाश्च नवस्रजः ।
गते हि रामे तरुणा स्संतप्ता नोपभुंजते ॥ 25 ॥
बहिर्यात्रां न गच्छंति चित्रमाल्यधरा नराः ।
नोत्सवा स्संप्रवर्तंते रामशोकार्दिते पुरे ॥ 26 ॥
सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता ।
न हि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ 27 ॥
कदा नु खलु मे भ्राता महोत्सव इवाऽगतः ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवांबुदः ॥ 28 ॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
संपतद्भिरयोध्यायां नाभिभांति महापथाः ॥ 29 ॥
एवं बहुविधं जल्पन्विवेश वसतिं पितुः ।
तेन हीनां नरेंद्रेण सिंहहीनां गुहामिव ॥ 30 ॥
तदा तदंतः पुरमुंझितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वं तु विविक्तमात्मवान्मुमोच बाष्पं भरतः सुदुःखितः ॥ 31 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुर्दशाधिकशततमस्सर्गः ॥