View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.41 अयोध्याकांड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।

तस्मिन्स्तु पुरुषव्याघ्रे विनिर्याति कृतांजलौ ।
आर्तशब्दोऽहि संजज्ञे स्त्रीणामंतःपुरे महान् ॥ 1 ॥

अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः ।
यो गतिश्शरणं चासीत्स नाथः क्व नु गच्छति ॥ 2 ॥

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन् ।
क्रुद्धान्प्रसादयन्सर्वान् समदुःखः क्व गज्छति ॥ 3 ॥

कौशल्यायां महातेजा यथा मातरि वर्तते ।
तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥ 4 ॥

कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् ।
परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥ 5 ॥

अहो निश्चेतनो राजा जीवलोकस्य संप्रियम् ।
धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥ 6 ॥

इति सर्वा महिष्यस्ता विवत्सा इव धेनवः ।
रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥ 7 ॥

स तमंतः पुरे घोरमार्तशब्दं महीपतिः ।
पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत्सुदुःखितः ॥ 8 ॥

नाग्निहोत्राण्यहूयंत नापचन् गृहमेधिनः अकुर्वन्न प्रजाः कार्यं सूर्यश्चांतरधीयत ॥ 9 ॥

व्यसृजन् कबलान्नागा गावो वत्सान्न पाययन् ।
पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनंदत ॥ 10 ॥

त्रिशंकुर्लोहितांगश्च बृहस्पतिबुधावपि ।
दारुणा स्सोममभ्येत्य ग्रहास्सर्वे व्यवस्थिताः ॥ 11 ॥

नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः ।
विशाखास्तु सधूमाश्च नभसि प्रचकाशिरे ॥ 12 ॥

कालिकानिलवेगेन महोदधिरिवोत्थितः ।
रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥ 13 ॥

दिशः पर्याकुलास्सर्वा स्तिमिरेणेव संवृताः ।
न ग्रहो नापि नक्षत्रं प्रचकाशे नकिंचन ॥ 14 ॥

अकस्मान्नागरस्सर्वो जनो दैन्यमुपागमत् ।
आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥ 15 ॥

शोकपर्यायसंतप्त स्सततं दीर्घमुच्छवसन् ।
अयोध्यायां जनस्सर्व श्शुशोच जगतीपतिम् ॥ 16 ॥

बाष्पपर्याकुलमुखो राजमार्गगतो जनः ।
न हृष्टो लक्ष्यते कश्चित्सर्व श्शोकपरायणः ॥ 17 ॥

न वाति पवन श्शीतो न शशी सौम्यदर्शनः ।
न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥ 18 ॥

अनर्थिनस्सुताः स्त्रीणां भर्तारो भ्रातरस्तथा ।
सर्वे सर्वं परित्यज्य राममेवान्वचिंतयन् ॥ 19 ॥

ये तु रामस्य सुहृद स्सर्वे ते मूढचेतसः ।
शोकभारेण चाक्रांता श्शयनं न जहुस्तदा ॥ 20 ॥

ततस्त्वयोध्या रहिता महात्मना पुरंदरेणेव मही सपर्वता ।
चचाल घोरं भयशोकपीडिता सनागयोधाश्वगणा ननाद च ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: