View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.57 अयोध्याकांड - सप्तपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तपंचाशस्सर्गः ।

कथयित्वा सुदुःखार्तस्सुमंत्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 1 ॥

भरद्वाजाभिगमनं प्रयागे च सहाऽसनम् ।
आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम् ॥ 2 ॥

अनुज्ञातस्सुमंत्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 3 ॥

स वनानि सुगंधीनि सरितश्च सरांसि च ।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 4 ॥

तत स्सायाह्न समये तृतीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानंदां ददर्श ह ॥ 5 ॥

स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ।
सुमंत्रश्चिंतयामास शोकवेगसमाहतः ॥ 6 ॥

कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा ।
रामसंतापदुःखेन दग्धा शोकाग्निना पुरी ॥ 7 ॥

इति चिंतापरस्सूतो वाजिभिश्शीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 8 ॥

सुमंत्रमभियांतं तं शतशोऽथ सहस्रशः ।
क्व राम इति पृच्छंतस्सूतमभ्यद्रवन्नराः ॥ 9 ॥

तेषां शशंस गंगायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना ॥ 10 ॥

ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः ॥ 11 ॥

शुश्राव च वचस्तेषां बृंदं बृंदं च तिष्ठताम् ।
हतास्म खलु ये नेह पश्याम इति राघवम् ॥ 12 ॥

दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुन र्जातु धार्मिकं राममंतरा ॥ 13 ॥

किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं पितृवत्परिपालितम् ॥ 14 ॥

वातायनगतानां च स्त्रीणामन्वंतरापणम् ।
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 15 ॥

स राजमार्गमध्येन सुमंत्रः पिहिताननः ।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 16 ॥

सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्या स्सप्ताभिचक्राम महाजनसमाकुलाः ॥ 17 ॥

हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥ 18 ॥

आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षंतेऽव्यक्तमार्ततराः स्त्रियः ॥ 19 ॥

ततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः ।
रामशोकाभितप्तानां मंदं शुश्राव जल्पितम् ॥ 20 ॥

सह रामेण निर्यातो विना राम मिहागतः ।
सूतः किन्नाम कौसल्यां शोचंतीं प्रतिवक्ष्यति ॥ 21 ॥

यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 22 ॥

सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।
प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ 23 ॥

स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।
पुत्रशोकपरिम्लानमपश्यत्पांडुरे गृहे ॥ 24 ॥

अभिगम्य तमासीनं नरेंद्रे मभिवाद्य च ।
सुमंत्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 25 ॥

स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रांतचेतनः ।
मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 26 ॥

ततोऽंतःपुरमाविद्धं मूर्छिते पृथिवीपतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ ॥ 27 ॥

सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 28 ॥

इमं तस्य महाभाग दूतं दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 29 ॥

अद्यैवमनयं कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता ॥ 30 ॥

देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 31 ॥

सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
धरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी ॥ 32 ॥

एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ता स्सर्वा सुस्वरं रुरुदुः स्त्रियः ॥ 33 ॥

तत स्तमंतःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदु स्समंततः पुरं तदासीत्पुनरेव संकुलम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तपंचाशस्सर्गः ॥




Browse Related Categories: