श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तपंचाशस्सर्गः ।
कथयित्वा सुदुःखार्तस्सुमंत्रेण चिरं सह ।
रामे दक्षिणकूलस्थे जगाम स्वगृहं गुहः ॥ 1 ॥
भरद्वाजाभिगमनं प्रयागे च सहाऽसनम् ।
आगिरेर्गमनं तेषां तत्रस्थैरुपलक्षितम् ॥ 2 ॥
अनुज्ञातस्सुमंत्रोऽथ योजयित्वा हयोत्तमान् ।
अयोध्यामेव नगरीं प्रययौ गाढदुर्मनाः ॥ 3 ॥
स वनानि सुगंधीनि सरितश्च सरांसि च ।
पश्यन्नतिययौ शीघ्रं ग्रामाणि नगराणि च ॥ 4 ॥
तत स्सायाह्न समये तृतीयेऽहनि सारथिः ।
अयोध्यां समनुप्राप्य निरानंदां ददर्श ह ॥ 5 ॥
स शून्यामिव निश्शब्दां दृष्ट्वा परमदुर्मनाः ।
सुमंत्रश्चिंतयामास शोकवेगसमाहतः ॥ 6 ॥
कच्चिन्न सगजा साऽश्वा सजना सजनाधिपा ।
रामसंतापदुःखेन दग्धा शोकाग्निना पुरी ॥ 7 ॥
इति चिंतापरस्सूतो वाजिभिश्शीघ्रपातिभिः ।
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ 8 ॥
सुमंत्रमभियांतं तं शतशोऽथ सहस्रशः ।
क्व राम इति पृच्छंतस्सूतमभ्यद्रवन्नराः ॥ 9 ॥
तेषां शशंस गंगायामहमापृच्छ्य राघवम् ।
अनुज्ञातो निवृत्तोऽस्मि धार्मिकेण महात्माना ॥ 10 ॥
ते तीर्णा इति विज्ञाय बाष्पपूर्णमुखा जनाः ।
अहो धिगिति निश्श्वस्य हा रामेति च चुक्रुशुः ॥ 11 ॥
शुश्राव च वचस्तेषां बृंदं बृंदं च तिष्ठताम् ।
हतास्म खलु ये नेह पश्याम इति राघवम् ॥ 12 ॥
दानयज्ञविवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुन र्जातु धार्मिकं राममंतरा ॥ 13 ॥
किं समर्थं जनस्यास्य किं प्रियं किं सुखावहम् ।
इति रामेण नगरं पितृवत्परिपालितम् ॥ 14 ॥
वातायनगतानां च स्त्रीणामन्वंतरापणम् ।
रामशोकाभितप्तानां शुश्राव परिदेवनम् ॥ 15 ॥
स राजमार्गमध्येन सुमंत्रः पिहिताननः ।
यत्र राजा दशरथस्तदेवोपययौ गृहम् ॥ 16 ॥
सोऽवतीर्य रथाच्छीघ्रं राजवेश्म प्रविश्य च ।
कक्ष्या स्सप्ताभिचक्राम महाजनसमाकुलाः ॥ 17 ॥
हर्म्यै र्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥ 18 ॥
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षंतेऽव्यक्तमार्ततराः स्त्रियः ॥ 19 ॥
ततो दशरथस्त्रीणां प्रासादेभ्य स्तत स्ततः ।
रामशोकाभितप्तानां मंदं शुश्राव जल्पितम् ॥ 20 ॥
सह रामेण निर्यातो विना राम मिहागतः ।
सूतः किन्नाम कौसल्यां शोचंतीं प्रतिवक्ष्यति ॥ 21 ॥
यथा च मन्ये दुर्जीवमेवं न सुकरं ध्रुवम् ।
आच्छिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ 22 ॥
सत्यरूपं तु तद्वाक्यं राज्ञः स्त्रीणां निशामयन् ।
प्रदीप्तमिव शोकेन विवेश सहसा गृहम् ॥ 23 ॥
स प्रविश्याष्टमीं कक्ष्यां राजानं दीनमातुरम् ।
पुत्रशोकपरिम्लानमपश्यत्पांडुरे गृहे ॥ 24 ॥
अभिगम्य तमासीनं नरेंद्रे मभिवाद्य च ।
सुमंत्रो रामवचनं यथोक्तं प्रत्यवेदयत् ॥ 25 ॥
स तूष्णीमेव तच्छ्रुत्वा राजा विभ्रांतचेतनः ।
मूर्छितो न्यपतद्भूमौ रामशोकाभिपीडितः ॥ 26 ॥
ततोऽंतःपुरमाविद्धं मूर्छिते पृथिवीपतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतितेक्षितौ ॥ 27 ॥
सुमित्रया तु सहिता कौसल्या पतितं पतिम् ।
उत्थापयामास तदा वचनं चेदमब्रवीत् ॥ 28 ॥
इमं तस्य महाभाग दूतं दुष्करकारिणः ।
वनवासादनुप्राप्तं कस्मान्न प्रतिभाषसे ॥ 29 ॥
अद्यैवमनयं कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतं तेस्तु शोके नस्या त्सहायता ॥ 30 ॥
देव यस्या भयाद्रामं नानुपृच्छसि सारथिम् ।
नेह तिष्ठिति कैकेयी विस्रब्धं प्रतिभाष्यताम् ॥ 31 ॥
सा तथोक्त्वा महाराजं कौसल्या शोकलालसा ।
धरण्यां निपपाताऽशु बाष्पविप्लुतभाषिणी ॥ 32 ॥
एवं विलपतीं दृष्ट्वा कौसल्यां पतितां भुवि ।
पतिं चावेक्ष्य ता स्सर्वा सुस्वरं रुरुदुः स्त्रियः ॥ 33 ॥
तत स्तमंतःपुरनादमुत्थितं समीक्ष्य वृद्धा स्तरुणाश्च मानवाः ।
स्त्रियश्च सर्वा रुरुदु स्समंततः पुरं तदासीत्पुनरेव संकुलम् ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तपंचाशस्सर्गः ॥