View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.78 अयोध्याकांड - अष्टसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टसप्ततितमस्सर्गः ।

अथ यात्रां समीहंतं शत्रुघ्नो लक्ष्मणानुजः ।
भरतं शोकसंतप्तमिदं वचनमब्रवीत् ॥ 1 ॥

गतिर्य स्सर्वभूतानां दुःखे किं पुनरात्मनः ।
स राम स्सत्त्वसंपन्नः स्त्रिया प्रव्राजितो वनम् ॥ 2 ॥

बलवान्वीर्यसंपन्नो लक्ष्मणो नाम योऽप्यसौ ।
किं न मोचयते रामं कृत्वा स्म पितृनिग्रहम् ॥ 3 ॥

पूर्वमेव तु निग्राह्य स्समवेक्ष्य नयानयौ ।
उत्पथं यस्समारूढो राजा नार्या वशं गतः ॥ 4 ॥

इति संभाषमाणे तु शत्रुघ्ने लक्ष्मणानुजे ।
प्राग्द्वारेऽभूत्तदा कुब्जा सर्वाभरणभूषिता ॥ 5 ॥

लिप्ता चंदनसारेण राजवस्त्राणि बिभ्रती ।
विविधं विविधै स्तैस्तैर्भूषणैश्च विभूषिता ॥ 6 ॥

मेखलादामभिश्चित्रैरन्यैश्च शुभभूषणैः ।
बभासे बहुभिर्बद्धा रज्जुबद्धेव वानरी ॥ 7 ॥

तां समीक्ष्य तदा द्वास्स्थास्सुभृशं पापकारिणीम् ।
गृहीत्वाऽकरुणां कुब्जां शत्रुघ्नाय न्यवेदयन् ॥ 8 ॥

यस्याः कृते वने रामो न्यस्तदेहश्च वः पिता ।
सेयं पापा नृशंसा च तस्याः कुरु यथामति ॥ 9 ॥

शत्रुघ्नश्च तदाज्ञाय वचनं भृशदुःखितः ।
अंतःपुरचरान्सर्वानित्युवाच धृत व्रतः ॥ 10 ॥

तीव्रमुत्पादितं दुःखं भ्रात्रूणां मे तथा पितुः ।
यया सेयं नृशंसस्य कर्मणः फलमश्नुताम् ॥ 11 ॥

एवमुक्त्वा तु तेनाशु सखीजनसमावृता ।
गृहीता बलवत्कुब्जा सा तद्गृहमनादयत् ॥ 12 ॥

तत स्सुभृशसंतप्तस्तस्या स्सर्व स्सखीजनः ।
क्रुद्धमाज्ञाय शत्रुघ्नं विपलायत सर्वशः ॥ 13 ॥

आमंत्रयत कृत्स्न श्च तस्या स्सर्व स्सखीजनः ।
यथाऽयं समुपक्रांतो निश्शेषां नः करिष्यति ॥ 14 ॥

सानुक्रोशां वदान्यां च धर्मज्ञां च यशस्विनीम् ।
कौसल्यां शरणं याम सा हि नोऽस्तु ध्रुवा गतिः ॥ 15 ॥

स च रोषेण ताम्राक्ष श्शत्रुघ्न श्शत्रुतापनः ।
विचकर्ष तदा कुब्जां क्रोशंतीं धरणीतले ॥ 16 ॥

तस्या ह्याकृष्यमाणाया मंथराया स्ततस्ततः ।
चित्रं बहुविधं भांडं पृथिव्यां तद्व्यशीर्यत ॥ 17 ॥

तेन भांडेन संस्तीर्णं श्रीमद्राजनिवेशनम् ।
अशोभत तदा भूयः शारदं गगनं यथा ॥ 18 ॥

स बली बलवत्क्रोधाद्गृहीत्वा पुरुषर्षभः ।
कैकेयीमभिनिर्भर्त्स्य बभाषे परुषं वचः ॥ 19 ॥

तैर्वाक्यैः परुषैर्दुःखैः कैकेयी भृशदुःखिता ।
शत्रुघ्नभयसंत्रस्ता पुत्रं शरणमागता ॥ 20 ॥

तं प्रेक्ष्य भरतः क्रुद्धं शत्रुघ्नमिदमब्रवीत् ।
अवध्या स्सर्वभूतानां प्रमदाः क्षम्यतामिति ॥ 21 ॥

हन्यामहमिमां पापां कैकेयीं दुष्टचारिणीम् ।
यदि मां धार्मिको रामो नासूयेन्मातृघातकम् ॥ 22 ॥

इमामपि हतां कुब्जां यदि जानाति राघवः ।
त्वां च मां च हि धर्मात्मा नाभिभाषिष्यते ध्रुवम् ॥ 23 ॥

भरतस्य वचश्श्रुत्वा शत्रुघ्नो लक्ष्मणानुजः ।
न्यवर्तत ततो रोषात्तां मुमोच च मंथराम् ॥ 24 ॥

सा पादमूले कैकेय्या मंथरा निपपात ह ।
निश्श्वसंती सुदुःखार्ता कृपणं विललाप च ॥ 25 ॥

शत्रुघ्नविक्षेपविमूढसंज्ञां समीक्ष्य कुब्जां भरतस्य माता ।
शनैस्समाश्वासयदार्तरूपां क्रौंचीं विलग्नामिव वीक्षमाणाम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टसप्ततितमस्सर्गः ॥




Browse Related Categories: