View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.94 अयोध्याकांड - चतुर्नवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ चतुर्नवतितमस्सर्गः ।

दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकांक्षन्स्वं च चित्तं विलोभयन् ॥ 1 ॥

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्याममरसंकाश श्शचीमिव पुरंदरः ॥ 2 ॥

दीर्घकालोषित स्तस्मिन्गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकांक्षन्स्वं च चित्तं विलोभयन् ॥ 3 ॥

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्याममरसंकाश श्शचीमिव पुरंदरः ॥ 4 ॥

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ 5 ॥

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरैः खमिवोद्विद्धैर्धातुमद्भिर्विभूषितम् ॥ 6 ॥

केचिद्रजतसंकाशाः केचित्क्षतजसंनिभाः ।
पीतमांजिष्टवर्णाश्च केचिन्मणिवरप्रभाः ॥ 7 ॥

पुष्यार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।
विराजंतेऽचलेंद्रस्य देशा धातुविभूषिताः ॥ 8 ॥

नानामृगगणद्वीपितरर्क्ष्वृक्षगणैर्वुतः ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ 9 ॥

आम्रजंब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।
अंकोलैर्भव्यतिनिशैर्बिल्वतिंदुक वेणुभिः ॥ 10 ॥

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ 11 ॥

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ 12 ॥

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वंद्वशो भद्रे रममाणान्मनस्विनः ॥ 13 ॥

शाखावसक्तान् खड्गांश्च प्रवराण्यंबराणि च ।
पश्य विद्याधरस्त्रीणां क्रीडोद्धेशान्मनोरमान् ॥ 14 ॥

जलप्रपातैरुद्भेदैर्निष्यंदैश्च क्वचित्क्वचित् ।
स्रवद्भिर्भात्ययं शैल स्स्रवन्मद इव द्विपः ॥ 15 ॥

गुहासमीरणो गंधान्नानापुष्पभवान्वहन् ।
घ्राणतर्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ 16 ॥

यदीह शरदोऽनेकास्त्वया सार्धमनिंदिते ।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ 17 ॥

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन्रतवानस्मि भामिनि ॥ 18 ॥

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ 19 ॥

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यंती विविधान्भावान्मनोवाक्कायसम्मतान् ॥ 20 ॥

इदमेवामृतं प्राहू राज्ञि राजर्षयः परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ 21 ॥

शिला श्शैलस्य शोभंते विशाला श्शतशोऽभितः ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ 22 ॥

निशिभांत्यचलेंद्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभालक्ष्म्या भ्राजमाना स्सहस्रशः ॥ 23 ॥

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।
केचिदेकशिला भांति पर्वतस्यास्य भामिनि ॥ 24 ॥

भित्त्वेव वसुधां भाति चित्रकूटस्समुत्थितः ।
चित्रकूटस्य कूटोऽसौ दृश्यते सर्वत श्शुभः ॥ 25 ॥

कुष्ठस्थगरपुन्नाग भूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान्पश्य कुशेशयदलायुतान् ॥ 26 ॥

मृदिताश्चापविद्धाश्च दृश्यंते कमलस्रजः ।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ 27 ॥

वस्वौकसारां नलिनीमत्येतीवोत्तरान्कुरून् ।
पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥ 28 ॥

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ 29 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे चतुर्नवतितमस्सर्गः ॥




Browse Related Categories: