View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.95 अयोध्याकांड - पंचनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ पंचनवतितमस्सर्गः ।

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः ।
अदर्शयच्छुभजलां रम्यां मंदाकिनीं नदीम् ॥ 1 ॥

अब्रवीच्च वरारोहां चारुचंद्रनिभाननाम् ।
विदेहराजस्य सुतां रामो राजीवलोचनः ॥ 2 ॥

विचित्रपुलिनां रम्यां हंससारससेविताम् ।
कमलैरुपसंपन्नां पश्य मंदाकिनीं नदीम् ॥ 3 ॥

नानाविधैस्तीररुहै र्वृतां पुष्पफलद्रुमैः ।
राजंतीं राजराजस्य नलिनीमिव सर्वतः ॥ 4 ॥

मृगयूथनिपीतानि कलुषांभांसि सांप्रतम् ।
तीर्थानि रमणीयानि रतिं संजनयंति मे ॥ 5 ॥

जटाजिनधराः काले वल्कलोत्तरवाससः ।
ऋषय स्त्ववगाहंते नदीं मंदाकिनीं प्रिये ॥ 6 ॥

आदित्यमुपतिष्ठंते नियमादूर्ध्वबाहवः ।
एते परे विशालाक्षि मुनय स्संशितव्रताः ॥ 7 ॥

मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः ।
पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥ 8 ॥

चिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् ।
क्वचित्सिद्धजनाकीर्णां पश्य मंदाकिनीं नदीम् ॥ 9 ॥

निर्धूतान्वायुना पश्य विततान्पुष्पसंचयान् ।
पोप्लूयमानानपरान्पश्य त्वं जलमध्यगान् ॥ 10 ॥

तांश्चातिवल्गुवचसो रथांगाह्वयना द्विजाः ।
अधिरोहंति कल्याणि निष्कूजंत श्शुभा गिरः ॥ 11 ॥

दर्शनं चित्रकूटस्य मंदाकिन्याश्च शोभने ।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात् ॥ 12 ॥

विधूतकलुषै स्सिद्धैस्तपोदमशमान्वितैः ।
नित्यविक्षोभितजलां विगाहस्व मया सह ॥ 13 ॥

सखीवच्च विगाहस्व सीते मंदाकिनीं नदीम् ।
कमलान्यवमज्जंती पुष्कराणि च भामिनि ॥ 14 ॥

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ 15 ॥

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः ।
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥ 16 ॥

उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः ।
नायोध्यायैन राज्याय स्पृहयेऽद्य त्वया सह ॥ 17 ॥

इमांहि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः ।
सुपुष्पितां पुष्पभरैरलंकृतां नसोऽस्ति य स्स्यान्न गतक्लम स्सुखी ॥ 18 ॥

इतीव रामो बहुसंगतं वचः प्रियासहाय स्सरितं प्रति ब्रुवन् ।
चचार रम्यं नयनांजनप्रभं स चित्रकूटं रघुवंशवर्धनः ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे पंचनवतितमस्सर्गः ॥




Browse Related Categories: