View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.14 अरण्यकांड - चतुर्दश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुर्दशस्सर्गः ।

अथ पंचवटीं गच्छन्नंतरा रघुनंदनः ।
आससाद महाकायं गृध्रं भीमपराक्रमम् ॥ 1 ॥

तं दृष्ट्वा तौ महाभागौ वटस्थं रामलक्ष्मणौ ।
मेनाते राक्षसं पक्षिं ब्रुवाणौ को भवानिति ॥ 2 ॥

स तौ मधुरया वाचा सौम्यया प्रीणयन्निव ।
उवाच वत्स मां विद्धि वयस्यं पितुरात्मनः ॥ 3 ॥

स तं पितृसखं बुद्ध्वा पूजयामास राघवः ।
स तस्य कुलमव्यग्रमथ पप्रच्छ नाम च ॥ 4 ॥

रामस्य वचनं श्रुत्वा सर्वभूतसमुद्भवम् ।
आचचक्षे द्विजस्तस्मै कुलमात्मानमेव च ॥ 5 ॥

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ।
तान्मे निगदतस्सर्वानादितश्शृणु राघव ॥ 6 ॥

कर्दमः प्रथमस्तेषां विक्रीतस्तदनंतरः ।
शेषश्च संश्रयश्चैव बहुपुत्रश्च वीर्यवान् ॥ 7 ॥

स्थाणुर्मरीचिरत्रिश्च क्रतुश्चैव महाबलः ।
पुलस्त्यश्चांगिराश्चैव प्रचेताः पूलहस्तथा ॥ 8 ॥

दक्षो विवस्वानपरोऽरिष्टनेमिश्च राघव ।
काश्यपश्च महातेजास्तेषामासीच्च पश्चिमः ॥ 9 ॥

प्रजापतेस्तु दक्षस्य बभूवुरिति विश्रुतम् ।
षष्टिर्दुहितरो राम यशस्विन्यो महायशः ॥ 10 ॥

काश्यपः प्रतिजग्राह तासामष्टौ सुमध्यमाः ।
अदितिं च दितिं चैव दनुमप्यथ कालिकाम् ॥ 11 ॥

ताम्रां क्रोधवशां चैव मनुं चाप्यनलामपि ।
तास्तु कन्यास्ततः प्रीतः काश्यपः पुनरब्रवीत् ॥ 12 ॥

पुत्रां स्स्रैलोक्यभर्तृन्वै जनयिष्यथ मत्समान् ।
अदितिस्तन्मना राम दितिश्च मनुजर्षभ ॥ 13 ॥

कालिका च महाबाहो शेषास्त्वमनसोऽभवन् ।
अदित्यां जज्ञिरे देवात्रयस्त्रिंशदरिंदम ॥ 14 ॥

आदित्या वसवो रुद्रा ह्यश्विनौ च परंतप ।
दितिस्त्वजनयत्पुत्रान् दैत्यांस्तात यशस्विनः ॥ 15 ॥

तेषामियं वसुमती पुराऽसीत्सवनार्णवा ।
दनुस्त्वजनयत्पुत्रमश्वग्रीवमरिंदम ॥ 16 ॥

नरकं कालकंचैव कालिकापि व्यजायत ।
क्रौंचीं भासीं तथा श्येनीं धृतराष्ट्रीं तथा शुकीम् ॥ 17 ॥

ताम्रापि सुषुवे कन्याः पंचैता लोकविश्रुताः ।
उलूकांजनयत्क्रौंची भासी भासान्व्यजायत ॥ 18 ॥

श्येनी श्येनांश्च गृध्रांश्च व्यजायत सुतेजसः ।
धृतराष्ट्रीतु हंसांश्च कलहंसांश्च सर्वशः ॥ 19 ॥

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ।
शुकी नतां विजज्ञे तु नताया विनता सुता ॥ 20 ॥

दश क्रोधवशा राम विजज्ञे ह्यात्मसंभवाः ।
मृगीं च मृगमंदां च हरीं भद्रमदामपि ॥ 21 ॥

मातंगीमपि शार्दूलीं श्वेतां च सुरभिं तथा ।
सर्वलक्षणसंपन्नां सुरसां कद्रुकामपि ॥ 22 ॥

अपत्यं तु मृगास्सर्वे मृग्या नरवरोत्तम ।
ऋक्षाश्च मृगमंदायास्सृमराश्चमरा स्तथा ॥ 23 ॥

हर्याश्च हरयोऽपत्यं वानराश्च तरस्स्विनः ।
ततस्त्विरावतीं नाम जज्ञे भद्रमदा सुताम् ॥ 24 ॥

तस्यास्त्वैरावतः पुत्रो लोकनाथो महागजः ।
मातंग्या स्त्वथ मातंगा अपत्यं मनुजर्षभ ॥ 25 ॥

गोलांगूलांश्च शार्दूली व्याघ्रांश्चाजनयत्सुतान् ।
दिशागजांश्च काकुत्स्थ श्वेताप्यजनयत्सुतान् ॥ 26 ॥

ततो दुहितरौ राम सुरभिर्द्वेव्यजायत ।
रोहिणीं नाम भद्रं ते गंधर्वीं च यशस्स्विनीम् ॥ 27 ॥

रोहिण्यजनयद् गावो गंधर्वी वाजिनः सुतान् ।
सुरसाऽजनयन्नागान्राम कद्रूस्तु पन्नगान् ॥ 28 ॥

मनुर्मनुष्यान् जनयद्राम पुत्रान् यशस्विनः ।
ब्राह्मणान् क्षत्रियान् वैश्यान् शूद्रांश्च मनुजर्षभ ॥ 29 ॥

सर्वान् पुण्यफलान्वृक्षाननलापि व्यजायत ।
विनता च शुकीपौत्री कद्रूश्च सुरसास्वसा ॥ 30 ॥

कद्रूर्नागं सहस्रास्यं विजज्ञे धरणीधरम् ।
द्वौ पुत्रौ विनतायास्तु गरुडोऽरुण एव च ॥ 31 ॥

तस्माज्जातोऽहमरुणात्संपातिस्तु ममाग्रजः ।
जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ॥ 32 ॥

सोऽहं वाससहायस्ते भविष्यामि यदीच्छसि ।
इदं दुर्गं हि कांतारं मृगराक्षस सेवितम् ॥ 33 ॥

सीतां च तात रक्षिष्ये त्वयि याते सलक्ष्मणे ।
जटायुषं तं प्रतिपूज्य राघवो मुदा परिष्वज्य च सन्नतोऽभवत् ।
पितुर्हि शुश्राव सखित्वमात्मवान् जटायुषा संकथितं पुनः पुनः ॥ 34 ॥

स तत्र सीतां परिदाय मैथिलीं सहैव तेनातिबलेन पक्षिणा ।
जगाम तां पंचवटीं सलक्ष्मणो रिपूंदिधक्षंछलभानि वानलः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुर्दशस्सर्गः ॥




Browse Related Categories: