श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रयोविंशस्सर्गः ।
तस्मिन्याते बले घोरमशिवं शोणितोदकम् ।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ 1 ॥
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ 2 ॥
श्यामं रुधिरपर्यंतं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ 3 ॥
ततो ध्वजमुपागम्य हेमदंडं समुच्छ्रितम् ।
समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः ॥ 4 ॥
जनस्थानसमीपे तु समागम्य खरस्वनाः ।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ 5 ॥
व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् ।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ 6 ॥
प्रभिन्नगिरिसंकाशास्तोयशोणितधारिणः ।
आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः ॥ 7 ॥
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥ 8 ॥
क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ 9 ॥
कंकगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ।
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ 10 ॥
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।
कबंधः परिघाभासो दृश्यते भास्करांतिके ॥ 11 ॥
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।
प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥ 12 ॥
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ।
संलीनमीनविहगा नलिन्यश्शुष्कपंकजाः ॥ 13 ॥
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ।
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ 14 ॥
वीचीकूचीति वाश्यंत्यो बभूवुस्तत्र शारिकाः ।
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ॥ 15 ॥
प्रचचाल मही सर्वा सशैलवनकानना ।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ 16 ॥
प्राकंपत भुजस्सव्यस्स्वरश्चास्यावसज्जत ।
सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ 17 ॥
ललाटे च रुजा जाता न च मोहान्यवर्तत ।
तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान् ॥ 18 ॥
अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा ।
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् ॥ 19 ॥
न चिंतयाम्यहं वीर्याद्बलवांदुर्बलानिव ।
तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात् ॥ 20 ॥
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ।
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ 21 ॥
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ।
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ 22 ॥
यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ॥ 23 ॥
युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥ 24 ॥
वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ।
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥ 25 ॥
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ।
समीयुश्च महात्मानो युद्धदर्शनकांक्षिणः ॥ 26 ॥
ऋषयो देवगंदर्वास्सिद्धाश्च सहचारणैः ।
समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः ।
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसंगताः ॥ 27 ॥
जयतां राघवस्संख्ये पौलस्त्यान् रजनीचरान् ॥ 28 ॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् ।
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ 29 ॥
जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ 30 ॥
रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः ।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः ॥ 31 ॥
श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 32 ॥
मेघमाली महामाली सर्वास्यो रुधिराशनः ।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ 33 ॥
महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥ 34 ॥
सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना ।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चंद्रसूर्यौ ॥ 35 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रयोविंशस्सर्गः ॥