View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.23 अरण्यकांड - त्रयोविंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रयोविंशस्सर्गः ।

तस्मिन्याते बले घोरमशिवं शोणितोदकम् ।
अभ्यवर्षन्महामेघस्तुमुलो गर्दभारुणः ॥ 1 ॥

निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः ।
समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥ 2 ॥

श्यामं रुधिरपर्यंतं बभूव परिवेषणम् ।
अलातचक्रप्रतिमं परिगृह्य दिवाकरम् ॥ 3 ॥

ततो ध्वजमुपागम्य हेमदंडं समुच्छ्रितम् ।
समाक्रम्य महाकायस्तस्थौ गृध्रस्सुदारुणः ॥ 4 ॥

जनस्थानसमीपे तु समागम्य खरस्वनाः ।
विस्वरान्विविधांश्चक्रुर्मांसादा मृगपक्षिणः ॥ 5 ॥

व्याजह्रुश्च प्रदीप्तायां दिशि वै भैरवस्वनम् ।
अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥ 6 ॥

प्रभिन्नगिरिसंकाशास्तोयशोणितधारिणः ।
आकाशं तदनाकाशं चक्रुर्भीमा वलाहकाः ॥ 7 ॥

बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् ।
दिशो वा विदिशो वापि न च व्यक्तं चकाशिरे ॥ 8 ॥

क्षतजार्द्रसवर्णाभा संध्याकालं विना बभौ ।
खरस्याभिमुखा नेदुस्तदा घोरमृगाः खगाः ॥ 9 ॥

कंकगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः ।
नित्याशुभकरा युद्धे शिवा घोरनिदर्शनाः ॥ 10 ॥

नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः ।
कबंधः परिघाभासो दृश्यते भास्करांतिके ॥ 11 ॥

जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः ।
प्रवाति मारुतश्शीघ्रं निष्प्रभोऽभूद्दिवाकरः ॥ 12 ॥

उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः ।
संलीनमीनविहगा नलिन्यश्शुष्कपंकजाः ॥ 13 ॥

तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः ।
उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥ 14 ॥

वीचीकूचीति वाश्यंत्यो बभूवुस्तत्र शारिकाः ।
उल्काश्चापि सनिर्घाता निपेतुर्घोरदर्शनाः ॥ 15 ॥

प्रचचाल मही सर्वा सशैलवनकानना ।
खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥ 16 ॥

प्राकंपत भुजस्सव्यस्स्वरश्चास्यावसज्जत ।
सास्रा संपद्यते दृष्टिः पश्यमानस्य सर्वतः ॥ 17 ॥

ललाटे च रुजा जाता न च मोहान्यवर्तत ।
तान्समीक्षय महोत्पातानुत्थितान्रोमहर्षणान् ॥ 18 ॥

अब्रवीद्राक्षसान्सर्वान्प्रहसन्सखरस्तदा ।
महोत्पातानिमान्सर्वानुत्थितान्घोरदर्शनान् ॥ 19 ॥

न चिंतयाम्यहं वीर्याद्बलवांदुर्बलानिव ।
तारा अपि शरैस्तीक्ष्णैः पातयामि नभस्स्थलात् ॥ 20 ॥

मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् ।
राघवं तं बलोत्सिक्तं भ्रातरं चास्य लक्ष्मणम् ॥ 21 ॥

अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे ।
सकामा भगिनी मेऽस्तु पीत्वा तु रुधिरं तयोः ॥ 22 ॥

यन्निमित्तस्तु रामस्य लक्ष्मणस्य विपर्ययः ।
न क्वचित्प्राप्तपूर्वो मे संयुगेषु पराजयः ॥ 23 ॥

युष्माकमेतत्प्रत्यक्षं नानृतं कथयाम्यहम् ।
देवराजमपि क्रुद्धो मत्तैरावतयायिनम् ॥ 24 ॥

वज्रहस्तं रणे हन्यां किं पुनस्तौ कुमानुषौ ।
सा तस्य गर्जितं श्रुत्वा राक्षसस्य महाचमूः ॥ 25 ॥

प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता ।
समीयुश्च महात्मानो युद्धदर्शनकांक्षिणः ॥ 26 ॥

ऋषयो देवगंदर्वास्सिद्धाश्च सहचारणैः ।
समेत्य चोचुस्सहितास्तेऽन्योन्यं पुण्यकर्मणः ।
स्वस्ति गोब्राह्मणेभ्योऽस्तु लोकानां येऽभिसंगताः ॥ 27 ॥

जयतां राघवस्संख्ये पौलस्त्यान् रजनीचरान् ॥ 28 ॥

चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् ।
एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥ 29 ॥

जातकौतूहलास्तत्र विमानस्थाश्च देवताः ।
ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥ 30 ॥

रथेन तु खरो वेगादुग्रसैन्यो विनिस्सृतः ।
तं दृष्ट्वा राक्षसं भूयो राक्षसाश्च विनिस्सृताः ॥ 31 ॥

श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ।
दुर्जयः करवीराक्षः परुषः कालकार्मुकः ॥ 32 ॥

मेघमाली महामाली सर्वास्यो रुधिराशनः ।
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् ॥ 33 ॥

महाकपालिस्स्थूलाक्षः प्रमाथी त्रिशिरास्तथा ।
चत्वार एते सेनान्यो दूषणं पृष्ठतो ययुः ॥ 34 ॥

सा भीमवेगा समराभिकामा महाबला राक्षसवीरसेना ।
तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चंद्रसूर्यौ ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रयोविंशस्सर्गः ॥




Browse Related Categories: