View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.30 अरण्यकांड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रिंशस्सर्गः ।

भित्त्वा तु तां गदां बाणै राघवो धर्मवत्सलः ।
स्मयमानः खरं वाक्यं संरब्धमिदमब्रवीत् ॥ 1 ॥

एतत्ते बलसर्वस्वं दर्शितं राक्षसाधम ।
शक्तिहीनतरो मत्तो वृथा त्वमवगर्जसि ॥ 2 ॥

एषा बाणविनिर्भिन्ना गदा भूमितलं गता ।
अभिधानप्रगल्भस्य तव प्रत्ययघातिनी ॥ 3 ॥

यत्त्वयोक्तं विनष्टानामहमश्रुप्रमार्जनम् ।
राक्षसानां करोमीति मिथ्या तदपि ते वचः ॥ 4 ॥

नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य रक्षसः ।
प्राणानहं हरिष्यामि गरुत्मानमृतं यथा ॥ 5 ॥

अद्य ते छिन्नकंठस्य फेनबुद्बुदभूषितम् ।
विदारितस्य मद्बाणैर्मही पास्यति शोणितम् ॥ 6 ॥

पांसुरूषितसर्वांगस्स्रस्तन्यस्त भुजद्वयः ।
स्वप्स्यसे गां समालिंग्य दुर्लभां प्रमदामिव ॥ 7 ॥

प्रबद्धनिद्रे शयिते त्वयि राक्षसपांसने ।
भविष्यंतिशरण्यानां शरण्या दंडका इमे ॥ 8 ॥

जनस्थाने हतस्थाने तव राक्षस मच्छरैः ।
निर्भया विचरिष्यंति सर्वतो मुनयो वने ॥ 9 ॥

अद्य विप्रसरिष्यंति राक्षस्यो हतबांधवाः ।
बाष्पार्द्रवदना दीना भयादन्यभयावहाः ॥ 10 ॥

अद्य शोकरसज्ञास्ता भविष्यंति निरर्थकाः ।
अनुरूपकुलाः पत्न्यो यासां त्वं पतिरीदृशः ॥ 11 ॥

नृशंस नीच क्षुद्रात्मन्नित्यं ब्राह्मणकंटक ।
यत्कृते शंकितैरग्नौ मुनिभिः पात्यते हविः ॥ 12 ॥

तमेवमभिसंरब्धं ब्रुवाणं राघवं रणे ।
खरो निर्भर्त्सयामास रोषात्खरतरस्वरः ॥ 13 ॥

दृढं खल्ववलिप्तोऽसि भयेष्वपि च निर्भयः ।
वाच्यावाच्यं ततो हि त्वं मृत्युवश्यो न बुध्यसे ॥ 14 ॥

कालपाशपरिक्षिप्ता भवंति पुरुषा हि ये ।
कार्याकार्यं न जानंति ते निरस्तषडिंद्रियाः ॥ 15 ॥

एवमुक्त्वा ततो रामं संरुध्य भ्रुकुटीं ततः ।
स ददर्श महासालमविदूरे निशाचरः ॥ 16 ॥

रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ।
स तमुत्पाटयामास संदश्य दशनच्छदम् ॥ 17 ॥

तं समुत्क्षिप्य बाहुभ्यां विनद्य च महाबलः ।
राममुद्दिश्य चिक्षेप हतस्त्वमिति चाब्रवीत् ॥ 18 ॥

तमापतंतं बाणौघैच्छित्वा रामः प्रतापवान् ।
रोषमाहारयत्तीव्रं निहंतुं समरे खरम् ॥ 19 ॥

जातस्वेदस्ततो रामो रोषाद्रक्तांतलोचनः ।
निर्भिभेद सहस्रेण बाणानां समरे खरम् ॥ 20 ॥

तस्य बाणांतराद्रक्तं बहु सुस्राव फेनिलम् ।
गिरेः प्रस्रवणस्येव तोयधारापरिस्रवः ॥ 21 ॥

विह्वलस्सकृतो बाणैः खरो रामेण संयुगे ।
मत्तो रुधिरगंधेन तमेवाभ्यद्रवद्द्रुतम् ॥ 22 ॥

तमापतंतं संरब्धं कृतास्त्रो रुधिराप्लुतम् ।
अपासर्पत्प्रतिपदं किंचित्वरितविक्रमः ॥ 23 ॥

ततः पावकसंकाशं वधाय समरे शरम् ।
खरस्य रामो जग्राह ब्रह्मदंडमिवापरम् ॥ 24 ॥

स तं दत्तं मघवता सुरराजेन धीमता ।
संदधे चापि धर्मात्मा मुमोच च खरं प्रति ॥ 25 ॥

स विमुक्तो महाबाणो निर्घातसमनिस्वनः ।
रामेण धनुरायम्य खरस्योरसिचापतत् ॥ 26 ॥

स पपात खरो भूमौ दह्यमानश्शरानग्निना ।
रुद्रेणेव विनिर्दग्धश्वेतारण्ये यथांतकः ॥ 27 ॥

स वृत्र इव वज्रेण फेनेन नमुचिर्यथा ।
बलो वेंद्राशनिहतो निपपात हतः खरः ॥ 28 ॥

ततो राजर्षयस्सर्वे संगताः परमर्षयः ।
सभाज्य मुदिता राममिदं वचनमब्रुवन् ॥ 29 ॥

एतदर्थं महातेजा महेंद्रः पाकशासनः ।
शरभंगाश्रमं पुण्यमाजगाम पुरंदरः ॥ 30 ॥

आनीतस्त्वमिमं देशमुपायेन महर्षिभिः ।
एषां वधार्थं क्रूराणां रक्षसां पापकर्मणाम् ॥ 31 ॥

तदिदं नः कृतं कार्यं त्वया दशरथात्मज ।
सुखं धर्मं चरिष्यंति दंडकेषु महर्षयः ॥ 32 ॥

एतस्मिंतरे देवाश्चारणैस्सह संगताः ।
दुंदुभींश्चाभिनिघ्नंतः पुष्पवर्षं समंततः ॥ 33 ॥

रामस्योपरि संह्रुष्टा ववृषुर्विस्मितास्तदा ।
अर्धाधिकमुहूर्तेन रामेण निशितैश्शरैः ॥ 34 ॥

चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् ।
खरदूषणमुख्यानां निहतानि महाहवे ॥ 35 ॥

अहो बत महत्कर्म रामस्य विदितात्मनः ।
अहो वीर्यमहो दाक्ष्यं विष्णोरिव हि दृश्यते ॥ 36 ॥

इत्येवमुक्त्वा ते सर्वे ययुर्देवा यथागतम् ।
तस्मिन्नंतरे वीरो लक्ष्मणस्सह सीतया ।
गिरिदुर्गाद्विनिष्क्रम्य संविवेशाश्रमं सुखी ॥ 37 ॥

ततो रामस्तु विजयी पूज्यमानो महर्षिभिः ।
प्रविवेशाश्रमं वीरो लक्ष्मणेनाभिपूजितः ॥ 38 ॥

तं दृष्ट्वा शत्रुहंतारं महर्षीणां सुखावहम् ।
बभूव हृष्टा वैदेही भर्तारं परिषस्वजे ॥ 39 ॥

मुदा परमया युक्ता दृष्ट्वा रक्षोगणान्हतान् ।
रामं चैवाव्यथं दृष्ट्वा तुतोष जनकात्मजा ॥ 40 ॥

ततस्तु तं राक्षससंघमर्दनं सभाज्यमानं मुदितैर्महर्षिभिः ।
पुनः परिष्वज्य शशिप्रभानना बभूव हृष्टा जनकात्मजा तदा ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रिंशस्सर्गः ॥




Browse Related Categories: