View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.41 अरण्यकांड - एकचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकचत्वारिंशस्सर्गः ।

आज्ञप्तो राजवद्वाक्यं प्रतिकूलं निशाचरः ।
अब्रवीत्परुषं वाक्यं मारीचो राक्षसाधिपम् ॥ 1 ॥

केनायमुपदिष्टस्ते विनाशः पापकर्मणा ।
सपुत्रस्य सराष्ट्रस्य सामात्यस्य निशाचर ॥ 2 ॥

कस्त्वया सुखिना राजन्नाभिनंदति पापकृत् ।
केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥ 3 ॥

शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचराः ।
इच्छंति त्वां विनश्यंतमुपरुद्धं बलीयसा ॥ 4 ॥

केनेदमुपदिष्टं ते क्षुद्रेणाहितवादिना ।
यस्त्वामिच्छति नश्यंतं स्वकृतेन निशाचर ॥ 5 ॥

वध्याः खलु न हन्यंते सचिवास्तव रावण ।
ये त्वामुत्पथमारूढं न निगृह्णंति सर्वशः ॥ 6 ॥

अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः ।
निग्राह्यस्सर्वथा सदभिर्न निग्राह्यो निगृह्यसे ॥ 7 ॥

धर्ममर्थं च कामं च यशश्च जयतां वर ।
स्वामिप्रसादात्सचिवाः प्राप्नुवंति निशाचर ॥ 8 ॥

विपर्यये तु तत्सर्वं व्यर्थं भवति रावण ।
व्यसनं स्वामिवैगुण्यात्प्राप्नुवंतीतरे जनाः ॥ 9 ॥

राजमूलो हि धर्मश्च जयश्च जयतां वर ।
तस्मात्सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥ 10 ॥

राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर ।
न चापि प्रतिकूलेन नाविनीतेन राक्षस ॥ 11 ॥

ये तीक्ष्णमंत्रास्सचिवा भज्यंते सह तेन वै ।
विषमे तुरगा श्शीघ्रा मंदसारथयो यथा ॥ 12 ॥

बहवस्साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टास्सपरिच्छदाः ॥ 13 ॥

स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण ।
रक्ष्यमाणा न वर्धंते मेषा गोमायुना यथा ॥ 14 ॥

अवश्यं विनशिष्यंति सर्वे रावण राक्षसाः ।
येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेंद्रियः ॥ 15 ॥

तदिदं काकतालीयं घोरमासादितं मया ।
अत्र किं शोचनीयस्त्वं ससैन्यो विनशिष्यसि ॥ 16 ॥

मां निहत्य तु रामश्च न चिरात्त्वां वधिष्यति ।
अनेन कृतकृत्योऽस्मि म्रियेयमरिणा हतः ॥ 17 ॥

दर्शनादेव रामस्य हतं मामवधारय ।
आत्मानं च हतं विद्धि हृत्वा सीतां सबांधवम् ॥ 18 ॥

आनयिष्यसि चेत्सीतामाश्रमात्सहितो मया ।
नैवत्वमसि नाहं च नैव लंका न राक्षसाः ॥ 19 ॥

निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर ।
परेतकल्पा हि गतायुषो नरा हितं न गृह्णंति सुहृद्भिरीरितम् ॥ 20 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकचत्वारिंशस्सर्गः ॥




Browse Related Categories: