View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.64 अरण्यकांड - चतुःषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुःषष्टितमस्सर्गः ।

स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् ।
शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ 1 ॥

अपि गोदावरीं सीता पद्मान्यानयितुं गता ।
एवमुक्तस्तु रामेण लक्ष्मणः परवीरहा ॥ 2 ॥

नदीं गोदावरीं रम्यां जगाम लघुविक्रमः ।
तां लक्ष्मणस्तीर्थवती विचित्वा राममब्रवीत् ॥ 3 ॥

नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे ।
कं नु वा देशमापन्ना वैदेही क्लेशनाशिनी ॥ 4 ॥

न ह्यहं वेद तं देशं यत्र सा जनकात्मजा ।
लक्ष्मणस्य वचश्श्रुत्वा दीनस्संतापमोहितः ॥ 5 ॥

रामस्समभिचक्राम स्वयं गोदावरीं नदीम् ।
स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ 6 ॥

भूतानि राक्षसेंद्रेण वधार्हेण हृतामिति ।
न तां शशंसू रामाय तथा गोदावरी नदि ॥ 7 ॥

ततः प्रचोदिता भूतैश्शंसास्मैतां प्रियामिति ।
न तु साभ्यवदतसितां पृष्टा रामेण शोचता ॥ 8 ॥

रावणस्य तु तद्रूपं कर्माणि च दुरात्मनः ।
ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ताम् ॥ 9 ॥

निराशस्तु तया नद्या सीताया दर्शने कृतः ।
उवाच रामस्सौमित्रिं सीतादर्शनकर्शितः ॥ 10 ॥

एषा गोदावरी सौम्य किंचिन्न प्रति भाषते ।
किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥ 11 ॥

मातरं चैव वैदेह्या विना तामहमप्रियम् ।
या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ 12 ॥

सर्वं व्यपनयेच्छोकं वैदेही क्व नु सा गता ।
ज्ञातिपक्षविहीनस्य राजपुत्रीमपश्यतः ॥ 13 ॥

मन्ये दीर्घा भविष्यंति रात्रयो मम जाग्रतः ।
गोदावरीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ 14 ॥

सर्वाण्यनुगमिष्यामि यदि सीता हि दृश्यते ।
एते मृगा महावीर्य मामीक्षंते मुहुर्मुहुः ॥ 15 ॥

वक्तुकामा इव हि मे इंगितान्युपलक्षये ।
तांस्तु दृष्ट्वा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ 16 ॥

क्व सीतेति निरीक्षन्वै बाष्पसंरुद्धया दृशा ।
एवमुक्ता नरेंद्रेण ते मृगास्सहसोत्थिताः ॥ 17 ॥

दक्षिणाभिमुखास्सर्वे दर्शयंतो नभस्थलम् ।
मैथिली ह्रियमाणा सा दिशं यामन्वपद्यत ॥ 18 ॥

तेन मार्गेण धावंतो निरीक्षंते नराधिपम् ।
येन मार्गं च भूमिं च निरीक्षंते स्म ते मृगाः ॥ 19 ॥

पुनश्च मार्गमिच्छंति लक्ष्मणेनोपलक्षिताः ।
तेषां वचनसर्वस्वं लक्षयामास चेंगितम् ॥ 20 ॥

उवाच लक्ष्मणो ज्येष्ठं धीमान्भ्रातरमार्तवत् ।
क्व सितेति त्वया पृष्टा यथेमे सहसोत्थिताः ॥ 21 ॥

दर्शयंति क्षितिं चैव दक्षिणां च दिशं मृगाः ।
साधु गच्छावहे देव दिशमेतां हि नैऋतिम् ॥ 22 ॥

यदि स्यादागमः कश्चिदार्या वा साऽथ लक्ष्यते ।
बाढमित्येव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् ॥ 23 ॥

लक्ष्मणानुगतश्शीमन्वीक्षमाणो वसुंधराम् ।
एवं संभाषमाणौ तावन्योन्यं भ्रातरावुभौ ॥ 24 ॥

वसुंधरायां पतितं पुष्पमार्गमपश्यताम् ।
तां पुष्पवृष्टिं पतितां दृष्ट्वा रामो महीतले ॥ 25 ॥

उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः ।
अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ 26 ॥

पिनद्धानि हि वैदेह्या मया दत्तानि कानने ।
मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ 27 ॥

अभिरक्षंति पुष्पाणि प्रकुर्वंतो मम प्रियम् ।
एवमुक्त्वा महाबाहुं लक्ष्मणं पुरुषर्षभः ॥ 28 ॥

उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् ।
कच्चित् क्षितिभृतां नाथ दृष्टा सर्वांगसुंदरी ॥ 29 ॥

रामा रम्ये वनोद्देशे मया विरहिता त्वया ।
क्रुद्धोऽब्रवीद्गिरिं तत्र सिंहः क्षुद्रमृगं यथा ॥ 30 ॥

तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत ।
यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ 31 ॥

एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति ।
शंसन्निव ततस्सीतां नादर्शयत राघवे ॥ 32 ॥

ततो दाशरथी राम उवाच च शिलोच्चयम् ।
मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ 33 ॥

असेव्यः सततं चैव निस्तृणद्रुमपल्लवः ।
इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥ 34 ॥

यदि नाख्याति मे सीतामार्यां चंद्रनिभाननाम् ।
एवं स रुषितो रामो दिधक्षन्निव चक्षुषा ॥ 35 ॥

ददर्श भूमौ निष्क्रांतं राक्षसस्य पदं महत् ।
त्रस्ताया रामकांक्षिण्याः प्रधावंत्या इतस्ततः ॥ 36 ॥

राक्षसेनानुवृत्ताया मैथिल्याश्च पदान्यथ ।
स समीक्ष्य परिक्रांतं सीताया राक्षसस्य च ॥ 37 ॥

भग्नं धनुश्च तूणी च विकीर्णं बहुधा रथम् ।
संभ्रांतहृदयो रामश्शशंस भ्रातरंप्रियम् ॥ 38 ॥

पश्य लक्ष्मण वैदेह्याशशीर्णाः कनकबिंदवः ।
भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ 39 ॥

तप्तबिंदुनिकाशैश्च चित्रैः क्षतजबिंदुभिः ।
आवृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ 40 ॥

मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः ।
भित्वाभित्वा विभक्ता वा भक्षिता वा भविष्यति ॥ 41 ॥

तस्या निमित्तं वैदेह्या द्वयोर्विवदमानयोः ।
बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ 42 ॥

मुक्तामणिमयं चेदं तपनीयविभूषितम् ।
धरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥ 43 ॥

तरुणादित्यसंकाशं वैडूर्यगुलिकाचितम् ।
विशीर्णं पतितं भूमौ कवचं कस्य कांचनम् ॥ 44 ॥

छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।
भग्नदंडमिदं कस्य भूमौ सम्यङ्निपातितम् ॥ 45 ॥

कांचनोरश्छदा श्चेमे पिशाचवदनाः खराः ।
भीमरूपा महाकायाः कस्य वा निहता रणे ॥ 46 ॥

दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ।
अपविद्धश्च भग्नश्च कस्य सांग्रामिको रथः ॥ 47 ॥

रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ।
कस्येमेऽभिहता बाणाः प्रकीर्णा घोरकर्मणः ॥ 48 ॥

शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ।
प्रतोदाभीशुहस्तो वै कस्यायं सारथिर्हतः ॥ 49 ॥

कस्येमौ पुरुषव्याघ्र शयाते निहतौ युधि ।
चामरग्राहिणौ सौम्य सोष्णीषमणिकुंडलौ ॥ 50 ॥

पदवीपुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ।
वैरं शतगुणं पश्य ममेदं जीवितांतकम् ॥ 51 ॥

सुघोरहृदयैस्सौम्य राक्षसैः कामरूपिभिः ।
हृता मृता वा सीता सा भक्षिता वा तपस्विनी ॥ 52 ॥

नधर्मस्त्रायते सीतां ह्रियमाणां महावने ।
भक्षितायां हि वैदेह्यां हृतायामपि लक्ष्मण ॥ 53 ॥

के हि लोके प्रियं कर्तुं शक्तास्सौम्य ममेश्वराः ।
कर्तारमपि लोकानां शूरं करुणवेदिनम् ॥ 54 ॥

अज्ञानादवमन्येरत्सर्वभूतानि लक्ष्मण ।
मृदुं लोकहिते युक्तं दांतं करुणवेदिनम् ॥ 55 ॥

निर्वीर्य इति मन्यंते नूनं मां त्रिदशेश्वराः ।
मां प्राप्य हि गुणो दोषस्संवृत्तः पश्य लक्ष्मण ॥ 56 ॥

अद्यैव सर्वभूतानां रक्षसामभवाय च ।
संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः ॥ 57 ॥

संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते ।
नैव यक्षा न गंधर्वा न पिशाचा न राक्षसाः ॥ 58 ॥

किन्नरा वा मनुष्या वा सुखं प्राप्स्यंति लिक्ष्मण ।
ममास्त्रबाणसंपूर्णमाकाशं पश्य लक्ष्मण ॥ 59 ॥

निस्संपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ।
सन्निरुद्धग्रहगणमावारितनिशाकरम् ॥ 60 ॥

विप्रणष्टानलमरुद्भास्करद्युतिसंवृतम् ।
विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् ॥ 61 ॥

ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ।
त्रैलोक्यं तु करिष्यामि संयुक्तं कालकर्मणा ॥ 62 ॥

न तां कुशलिनीं सीतां प्रदास्यंति ममेश्वराः ।
अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यंति विक्रमम् ॥ 63 ॥

नाकाशमुत्पतिष्यंति सर्वभूतानि लक्ष्मण ।
मम चापगुणोन्मुक्तैर्बाणजालैर्निरंतरम् ॥ 64 ॥

अर्दितं मम नाराचैर्ध्वस्तभ्रांतमृगद्विजम् ।
समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण ॥ 65 ॥

आकर्णपूर्णैरिषुभिर्जीवलोकं दुरावरैः ।
करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् ॥ 66 ॥

मम रोषप्रयुक्तानां सायकानां बलं सुराः ।
द्रक्ष्यंत्यद्य विमुक्तानामतिदूरातिगामिनाम् ॥ 67 ॥

नैव देवा न दैतेया न पिशाचा न राक्षसाः ।
भविष्यंति मम क्रोधात्त्रैलोक्ये विप्रणाशिते ॥ 68 ॥

देवदानवयक्षाणां लोका ये रक्षसामपि ।
बहुधा न भविष्यंति बाणौघैश्शकलीकृताः ॥ 69 ॥

निर्मर्यादानिमान्लोकान्करिष्याम्यद्य सायकैः ।
हृतां मृतां वा सौमित्रे न दास्यंति ममेश्वराः ॥ 70 ॥

तथारुपां हि वैदेहीं न दास्यंति यदि प्रियाम् ।
नाशयामि जगत्सर्वं त्रैलोक्यं सचराचरम् ॥ 71 ॥

इत्युक्त्वा रोषताम्राक्षो रामो निष्पीड्य कार्मुकम् ।
शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ 72 ॥

संधाय धनुषि श्रीमान्रामः परपुरंजयः ।
युगांताग्निरिव क्रुद्ध इदं वचनमब्रवीत् ॥ 73 ॥

यथा जरा यथा मृत्युर्यथा कालो यथा विधिः ।
नित्यं न प्रतिहन्यंते सर्वभूतेषु लक्ष्मण ॥ 74 ॥

तथाहं क्रोधसंयुक्तो न निवार्योऽस्मि सर्वथा ।
पुरेव मे चारुदंतीमनिंदितां दिशंति सीतां यदि नाद्य मैथिलीम् ।
सदेवगंधर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ 75 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुःषष्टितमस्सर्गः ॥




Browse Related Categories: