View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.1 किष्किंधाकांड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ प्रथमस्सर्गः ।

स तां पुष्करिणीं गत्वा पद्मोत्पलझषाकुलाम् ।
रामस्सौमित्रि सहितो विललापाकुलेंद्रियः ॥ 1 ॥

तस्य दृष्ट्वैव तां हर्षादिंद्रियाणि चकंपिरे ।
स कामवशमापन्नस्सौमित्रिमिदमब्रवीत् ॥ 2 ॥

सौमित्रे शोभते पंपा वैदूर्यविमलोदका ।
फुल्लपद्मोत्पलवती शोभिता विविधैर्द्रुमैः ॥ 3 ॥

सौमित्रे पश्य पंपायाः काननं शुभदर्शनम् ।
यत्र राजंति शैला वा द्रुमास्सशिखरा इव ॥ 4 ॥

मां तु शोकाभिसंतप्तं माधवः पीडयंति वै ।
भरतस्य च दुःखेन वैदेह्या हरणेन च ॥ 5 ॥

शोकार्तस्यापि मे पंपा शोभते चित्रकानना ।
व्यवकीर्णा बहुविधैः पुष्पैश्शीतोदका शिवा ॥ 6 ॥

नलिनैरपि संछन्ना ह्यत्यर्थशुभदर्शना ।
सर्पव्यालानुचरिता मृगद्विजसमाकुला ॥ 7 ॥

अधिकं प्रविभात्येतन्नीलपीतं तु शाद्वलम् ।
द्रुमाणां विविधैः पुष्पैः परिस्तोमैरिवार्पितम् ॥ 8 ॥

पुष्पभारसमृद्धानि शिखराणि समंततः ।
लताभिः पुष्पिताग्राभिरुपगूढानि सर्वशः ॥ 9 ॥

सुखानिलोऽयं सौमित्रे कालः प्रचुरमन्मथः ।
गंधवान्सुरभिर्मासो जातपुष्पफलद्रुमः ॥ 10 ॥

पश्य रूपाणि सौमित्रे वनानां पुष्पशालिनाम् ।
सृजतां पुष्पवर्षाणि तोयं तोयमुचामिव ॥ 11 ॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरंति गाम् ॥ 12 ॥

पतितैः पतमानैश्च पादपस्थैश्च मारुतः ।
कुसुमैः पश्य सौमित्रे क्रीडन्निव समंततः ॥ 13 ॥

विक्षिपन्विविधाश्शाखा नगानां कुसुमोत्कचाः ।
मारुतश्चलितस्थानैष्षट्पदैरनुगीयते ॥ 14 ॥

मत्तकोकिलसन्नादैर्नर्तयन्निव पादपान् ।
शैलकंदरनिष्क्रांतः प्रगीत इव चानिलः ॥ 15 ॥

तेन विक्षिपताऽत्यर्थं पवनेन समंततः ।
अमी संसक्तशाखाग्रा ग्रथिता इव पादपाः ॥ 16 ॥

स एष सुखसंस्पर्शो वाति चंदनशीतलः ।
गंधमभ्यवहन्पुण्यं श्रमापनयनोऽनिलः ॥ 17 ॥

अमी पवनविक्षिप्ता विनदंतीव पादपाः ।
षट्पदैरनुकूजंतो वनेषु मधुगंधिषु ॥ 18 ॥

गिरिप्रस्थेषु रम्येषु पुष्पवद्भिर्मनोरमैः ।
संसक्तशिखराश्शैला विराजंते महाद्रुमैः ॥ 19 ॥

पुष्पसंछन्नशिखरा मारुतोत्क्षेपचंचलाः ।
अमी मधुकरोत्तंसाः प्रगीता इव पादपाः ॥ 20 ॥

सुपुष्पितांस्तु पश्येमान्कर्णिकारांत्समंततः ।
हाटकप्रतिसंछन्नान्नरान्पीतांबरानिव ॥ 21 ॥

अयं वसंतस्सौमित्रे नानाविहगनादितः ।
सीतया विप्रहीनस्य शोकसंदीपनो मम ॥ 22 ॥

मां हि शोकसमाक्रांतं संतापयति मन्मथः ।
हृष्टः प्रवदमानश्च ममाह्वयति कोकिलः ॥ 23 ॥

एष दात्यूहको हृष्टो रम्ये मां वननिर्झरे ।
प्रणदन्मन्मथाविष्टं शोचयिष्यति लक्ष्मण ॥ 24 ॥

श्रुत्वैतस्य पुरा शब्दमाश्रमस्था मम प्रिया ।
मामाहूय प्रमुदिताः परमं प्रत्यनंदत ॥ 25 ॥

एवं विचित्राः पतगा नानारावविराविणः ।
वृक्षगुल्मलताः पश्य संपतंति समंततः ॥ 26 ॥

विमिश्रा विहगाः पुंभिरात्मव्यूहाभिनंदिताः ।
भृंगराजप्रमुदितास्सौमित्रे मधुरस्वनाः ॥ 27 ॥

दात्यूहरतिविक्रंदैः पुंस्कोकिलरुतैरपि ।
स्वनंति पादपाश्चेमे ममानंगप्रदीपनाः ॥ 28 ॥

अशोकस्तबकांगारष्षट्पदस्वननिःस्वनः ।
मां हि पल्लवताम्रार्चिर्वसंताग्निः प्रधक्ष्यति ॥ 29 ॥

न हि तां सूक्ष्मपक्ष्माक्षीं सुकेशीं मृदुभाषिणीम् ।
अपश्यतो मे सौमित्रे जीवितेऽस्ति प्रयोजनम् ॥ 30 ॥

अयं हि दयितस्तस्याः कालो रुचिरकाननः ।
कोकिलाकुलसीमांतो दयिताया ममानघ ॥ 31 ॥

मन्मथाऽयाससंभूतो वसंतगुणवर्धितः ।
अयं मां धक्ष्यति क्षिप्रं शोकाग्निर्नचिरादिव ॥ 32 ॥

अपश्यतस्तां दयितां पश्यतो रुचिरद्रुमान् ।
ममायमात्मप्रभवो भूयस्त्वमुपयास्यति ॥ 33 ॥

अदृश्यमाना वैदेही शोकं वर्धयते मम ।
दृश्यमानो वसंतश्च स्वेदसंसर्गदूषकः ॥ 34 ॥

मां ह्यद्य मृगशाबाक्षी चिंताशोकबलात्कृतम् ।
संतापयति सौमित्रे क्रूरश्चैत्रवनानिलः ॥ 35 ॥

अमी मयूराश्शोभंते प्रनृत्यंतस्ततस्ततः ।
स्वैः पक्षैः पवनोद्धूतैर्गवाक्षैः स्फाटिकैरिव ॥ 36 ॥

शिखिनीभिः परिवृतास्ते एते मदमूर्छिताः ।
मन्मथाभिपरीतस्य मम मन्मथवर्धनाः ॥ 37 ॥

पश्य लक्ष्मण नृत्यंतं मयूरमुपनृत्यति ।
शिखिनी मन्मथार्तैषा भर्तारं गिरिसानुनि ॥ 38 ॥

तामेव मन्मथाविष्टो मयूरोऽप्युपधावति ।
वितत्य रुचिरौ पक्षौ रुतैरुपहसन्निव ॥ 39 ॥

मयूरस्य वने नूनं रक्षसा न हृता प्रिया ।
तस्मान्नृत्यति रम्येषु वनेषु सह कांतया ॥ 40 ॥

मम त्वयं विना वासः पुष्पमासे सुदुस्सहः ।
पश्य लक्ष्मण संरागः तिर्यग्योनिगतेष्वपि ।
यदेषा शिखिनी कामाद्भर्तारं रमतेऽंतिके ॥ 41 ॥

मामप्येवं विशालाक्षी जानकी जातसंभ्रमा ।
मदनेनाभिवर्तेत यदि नाऽपहृता भवेत् ॥ 42 ॥

पश्य लक्ष्मण पुष्पाणि निष्फलानि भवंति मे ।
पुष्पभारसमृद्धानां वनानां शिशिरात्यये ॥ 43 ॥

रुचिराण्यपि पुष्पाणि पादपानामतिश्रिया ।
निष्फलानि महीं यांति समं मधुकरोत्करैः ॥ 44 ॥

नदंति कामं शकुना मुदितास्संघशः कलम् ।
आह्वयंत इवान्योन्यं कामोन्मादकरा मम ॥ 45 ॥

वसंतो यदि तत्रापि यत्र मे वसति प्रिया ।
नूनं परवशा सीता सापि शोचत्यहं यथा ॥ 46 ॥

नूनं न तु वसंतोऽतं देशं स्पृशति यत्र सा ।
कथं ह्यसितपद्माक्षी वर्तयेत्सा मया विना ॥ 47 ॥

अथवा वर्तते तत्र वसंतो यत्र मे प्रिया ।
किं करिष्यति सुश्रोणी सा तु निर्भर्त्सिता परैः ॥ 48 ॥

श्यामा पद्मपलाशाक्षी मृदुपूर्वाभिभाषिणी ।
नूनं वसंतमासाद्य परित्यक्ष्यति जीवितम् ॥ 49 ॥

दृढं हि हृदये बुद्धिर्मम संपरिवर्तते ।
नालं वर्तयितुं सीता साध्वी मद्विरहं गता ॥ 50 ॥

मयि भावस्तु वैदेह्यास्तत्त्वतो विनिवेशितः ।
ममापि भावस्सीतायां सर्वथा विनिवेशितः ॥ 51 ॥

एष पुष्पवहो वायुस्सुखस्पर्शो हिमावहः ।
तां विचिंतयतः कांतां पावकप्रतिमो मम ॥ 52 ॥

सदा सुखमहं मन्ये यं पुरा सह सीतया ।
मारुतस्स विना सीतां शोकं वर्धयते मम ॥ 53 ॥

तां विना विहंगो यः पक्षी प्रणदितस्तदा ।
वायसः पादपगतः प्रहृष्टमभिनर्दति ॥ 54 ॥

एष वै तत्र वैदेह्या विहगः प्रतिहारकः ।
पक्षी मां तु विशालाक्ष्यास्समीपमुपनेष्यति ॥ 55 ॥

शृणु लक्ष्मण सन्नादं वने मद्विवर्धनम् ।
पुष्पिताग्रेषु वृक्षेषु द्विजानामुपकूजताम् ॥ 56 ॥

विक्षिप्तां पवनेनैतामसौ तिलकमंजरीम् ।
षट्पदस्सहसाऽभ्येति मदोद्धूतामिव प्रियाम् ॥ 57 ॥

कामिनामयमत्यंतमशोकश्शोकवर्धनः ।
स्तबकैः पवनोत्क्षिप्तैस्तर्जयन्निव मां स्थितः ॥ 58 ॥

अमी लक्ष्मण दृश्यंते चूताः कुसुमशालिनः ।
विभ्रमोत्सिक्तमनसः सांगरागा नरा इव ॥ 59 ॥

सौमित्रे पश्य पंपायाश्चित्रासु वनराजिषु ।
किन्नरा नरशार्दूल विचरंति ततस्ततः ॥ 60 ॥

इमानि शुभगंधीनि पश्य लक्ष्मण सर्वशः ।
नलिनानि प्रकाशंते जले तरुणसूर्यवत् ॥ 61 ॥

एषा प्रसन्नसलिला पद्मनीलोत्पलायुता ।
हंसकारंडवाकीर्णा पंपा सौगंधिकान्विता ॥ 62 ॥

जले तरुणसूर्याभैष्षट्पदाहतकेसरैः ।
पंकजैश्शोभते पंपा समंतादभिसंवृता ॥ 63 ॥

चक्रवाकयुता नित्यं चित्रप्रस्तवनांतरा ।
मातंगमृगयूथैश्च शोभते सलिलार्थिभिः ॥ 64 ॥

पवनाहतवेगाभिरूर्मिभिर्विमलेऽंभसि ।
पंकजानि विराजंते ताड्यमानानि लक्ष्मण ॥ 65 ॥

पद्मपत्रविशालाक्षीं सततं पंकजप्रियाम् ।
अपश्यतो मे वैदेहीं जीवितं नाभिरोचते ॥ 66 ॥

अहो कामस्य वामत्वं यो गतामपि दुर्लभाम् ।
स्मारयिष्यति कल्याणीं कल्याणतरवादिनीम् ॥ 67 ॥

शक्यो धारयितुं कामो भवेदभ्यागतो मया ।
यदि भूयो वसंतो मां न हन्यात्पुष्पितद्रुमः ॥ 68 ॥

यानि स्म रमणीयानि तया सह भवंति मे ।
तान्येवारमणीयानि जायंते मे तया विना ॥ 69 ॥

पद्मकोशपलाशानि द्रष्टुं दृष्टिर्हि मन्यते ।
सीताया नेत्रकोशाभ्यां सदृशानीति लक्ष्मण ॥ 70 ॥

पद्मकेसरसंसृष्टो वृक्षांतरविनिस्सृतः ।
निश्श्वास इव सीताया वाति वायुर्मनोहरः ॥ 71 ॥

सौमित्रे पश्य पंपाया दक्षिणे गिरिसानुनि ।
पुष्पितां कर्णिकारस्य यष्टिं परमशोभनाम् ॥ 72 ॥

अधिकं शैलराजोऽयं धातुभिः सुविभूषितः ।
विचित्रं सृजते रेणुं वायुवेगविघट्टितम् ॥ 73 ॥

गिरिप्रस्थास्तु सौमित्रे सर्वतस्संप्रपुष्पितैः ।
निष्पत्रैस्सर्वतो रम्यैः प्रदीप्ता इव किंशुकैः ॥ 74 ॥

पंपातीररुहाश्चेमे संसक्ता मधुगंधिनः ।
मालतीमल्लिकाषंडाः करवीराश्च पुष्पिताः ॥ 75 ॥

केतक्यस्सिंदुवाराश्च वासंत्यश्च सुपुष्पिताः ।
माधव्यो गंधपूर्णाश्च कुंदगुल्माश्च सर्वशः ॥ 76 ॥

चिरिबिल्वा मधूकाश्च वंजुला वकुलास्तथा ।
चंपकास्तिलकाश्चैव नागवृक्षास्सुपुष्पिताः ॥ 77 ॥

नीपाश्च वरणाश्चैव खर्जूराश्च सुपुष्पिता ।
पद्मकाश्चैव शोभंते नीलाशोकाश्च पुष्पिताः ।
लोध्राश्च गिरिपृष्ठेषु सिंहकेसरपिंजराः ॥ 78 ॥

अंकोलाश्च कुरंटाश्च चूर्णकाः पारिभद्रकाः ।
चूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ 79 ॥

मुचुकुंदार्जुनाश्चैव दृश्यंते गिरिसानुषु ।
केतकोद्दालकाश्चैव शिरीषाः शिंशुपा धवाः ॥ 80 ॥

शाल्मल्यः किंशुकाश्चैव रक्ताः कुरवकास्तथा ॥ 81 ॥

त्रिनिशा नक्तमालाश्च चंदनास्स्यंदनास्तथा ।
पुष्पितान्पुष्पिताग्राभिर्लताभिः परिवेष्टितान् ।
द्रुमान्पश्येह सौमित्रे पंपाया रुचिरान्बहून् ॥ 82 ॥

वातविक्षिप्तविटपान्यथाऽसन्नांद्रुमानिमान् ।
लतास्समनुवर्तंते मत्ता इव वरस्त्रियः ॥ 83 ॥

पादपात्पादपं गच्छन् शैलाच्छैलं वनाद्वनम् ।
वाति नैकरसास्वादस्सम्मोदित इवानिलः ॥ 84 ॥

केचित्पर्याप्तकुसुमाः पादपा मधुगंधिनः ।
केचिन्मुकुलसंवीताः श्यामवर्णा इवाबभुः ॥ 85 ॥

इदं मृष्टमिदं स्वादु प्रफुल्लमिदमित्यपि ।
रागयुक्तो मधुकरः कुसुमेष्वेव लीयते ॥ 86 ॥

निलीय पुनरुत्पत्य सहसाऽन्यत्र गच्छति ।
मधुलुब्धो मधुकरः पंपातीरद्रुमेष्वसौ ॥ 87 ॥

इयं कुसुमसंघातैरुपस्तीर्णा सुखाकृता ।
स्वयं निपतितैर्भूमिश्शयनप्रस्तरैरिव ॥ 88 ॥

विविधा विविधैः पुष्पैस्तैरेव नगसानुषु ।
विकीर्णै पीतरक्ताहि सौमित्रे प्रस्तराः कृताः ॥ 89 ॥

हिमांते पश्य सौमित्रे वृक्षाणां पुष्पसंभवम् ।
पुष्पमासे हि तरवस्संघर्षादिव पुष्पिताः ॥ 90 ॥

आह्वयंत इवान्योन्यं नगाष्षट्पदनादिताः ।
कुसुमोत्तंसविटपाश्शोभंते बहु लक्ष्मण ॥ 91 ॥

एष कारंडवः पक्षी विगाह्य सलिलं शुभम् ।
रमते कांतया सार्धं काममुद्दीपयन्मम ॥ 92 ॥

मंदाकिन्यास्तु यदिदं रूपमेवं मनोहरम् ।
स्थाने जगति विख्याता गुणास्तस्या मनोरमाः ॥ 93 ॥

यदि दृश्येत सा साध्वी यदि चेह वसेमहि ।
स्पृहयेयं न शक्राय नायोध्यायै रघूत्तम ॥ 94 ॥

नह्येवं रमणीयेषु शाद्वलेषु तया सह ।
रमतो मे भवेच्चिंता न स्पृहाऽन्येषु वा भवेत् ॥ 95 ॥

अमी हि विविधैः पुष्पैस्तरवो रुचिरच्छदाः ।
काननेऽऽस्मिन्विना कांतां चिंतामुत्पादयंति मे ॥ 96 ॥

पश्य शीतजलां चेमां सौमित्रे पुष्करायुताम् ।
चक्रवाकानुचरितां कारंडव निषेविताम् ॥ 97 ॥

प्लवैः क्रौंचैश्च संपूर्णां महामृगनिषेविताम् ।
अधिकं शोभते पंपा विकूजद्भिःर्विहंगमैः ॥ 98 ॥

दीपयंतीव मे कामं विविधा मुदिता द्विजाः ।
श्यामां चंद्रमुखीं स्मृत्वा प्रियां पद्मनिभेक्षणाम् ॥ 99 ॥

पश्य सानुषु चित्रेषु मृगीभिस्सहितान्मृगान् ।
मां पुनर्मृगशाबाक्ष्या वैदेह्या विरहीकृतम् ॥ 100 ॥

व्यथयंतीव मे चित्तं संचरंतस्ततस्ततः ।
अस्मिन्सानुनि रम्ये हि मत्तद्विजगणायुते ।
पश्येयं यदि तां कांतां ततस्स्वस्ति भवेन्मम ॥ 101 ॥

जीवेयं खलु सौमित्रे मया सह सुमध्यमा ।
सेवते यदि वैदेही पंपायाः पवनं सुखम् ॥ 102 ॥

पद्मसौगंधिकवहं शिवं शोकविनाशनम् ।
धन्या लक्ष्मण सेवंते पंपोपवनमारुतम् ॥ 103 ॥

श्यामा पद्मपलाशाक्षी प्रिया विरहिता मया ।
कथं धारयति प्राणान्विवशा जनकात्मजा ॥ 104 ॥

किन्नु वक्ष्यामि राजानं धर्मज्ञं सत्यवादिनम् ।
सीताया जनकं पृष्टः कुशलं जनसंसदि ॥ 105 ॥

या मामनुगता मंदं पित्रा प्रव्राजितं वनम् ।
सीता सत्पथमास्थाय क्व नु सा वर्तते प्रिया ॥ 106 ॥

तया विहीनः कृपणः कथं लक्ष्मण धारये ।
या मामनुगता राज्याद्भ्रष्टं विगतचेतसम् ॥ 107 ॥

तच्चार्वंचितपद्माक्षं सुगंधि शुभमव्रणम् ।
अपश्यतो मुखं तस्यास्सीदतीव मनो मम ॥ 108 ॥

स्मितहास्यांतरयुतं गुणवन्मधुरं हितम् ।
वैदेह्या वाक्यमतुलं कदा श्रोष्यामि लक्ष्मण ॥ 109 ॥

प्राप्य दुखं वने श्यामा मां मन्मथविकर्शितम् ।
नष्टदुःखेव हृष्टेव साध्वी साध्वभ्यभाषत ॥ 110 ॥

किं नु वक्ष्यामि कौसल्यामयोध्यायां नृपात्मज ।
क्व सा स्नुषेति पृच्छंतीं कथं चापि तु मनस्विनीम् ॥ 111 ॥

गच्छ लक्ष्मण पश्य त्वं भरतं भ्रातृवत्सलम् ।
न ह्यहं जीवितु शक्तस्तामृते जनकात्मजाम् ॥ 112 ॥

इति रामं महात्मानं विलपंतमनाथवत् ।
उवाच लक्ष्मणो भ्राता वचनं युक्तमव्ययम् ॥ 113 ॥

संस्तंभ राम भद्रं ते मा शुचः पुरुषोत्तम ।
नेदृशानां मतिर्मंदा भवत्यकलुषात्मनाम् ॥ 114 ॥

स्मृत्वा वियोगजं दुःखं त्यज स्नेहं प्रिये जने ।
अतिस्नेहपरिष्वंगाद्वर्तिरार्द्रापि दह्यते ॥ 115 ॥

यदि गच्छति पातालं ततोऽभ्यधिकमेव वा ।
सर्वथा रावणस्तावन्न भविष्यति राघव ॥ 116 ॥

प्रवृत्तिर्लभ्यतां तावत्तस्य पापस्य रक्षसः ।
ततो हास्यति वा सीतां निधनं वा गमिष्यति ॥ 117 ॥

यदि यातिदितेर्गर्भं रावणस्सह सीतया ।
तत्राप्येनं हनिष्यामि न चेद्दास्यति मैथिलीम् ॥ 118 ॥

स्वास्थ्यं भद्रं भजस्वार्य त्यज्यतां कृपणा मतिः ।
अर्थो हि नष्टकार्यार्थैर्नायत्नेनाधिगम्यते ॥ 119 ॥

उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम् ।
सोत्साहस्यास्ति लोकेऽस्मिन् न किंचिदपि दुर्लभम् ॥ 120 ॥

उत्साहवंतः पुरुषा नावसीदंति कर्मसु ।
उत्साहमात्रमाश्रित्य सीतां प्रतिलभेमहि ॥ 121 ॥

त्यज्यतां कामवृत्तत्वं शोकं सन्न्यस्य पृष्ठतः ।
महात्मानं कृतात्मानमात्मानं नावबुध्यसे ॥ 122 ॥

एवं संबोधितस्तत्र शोकोपहतचेतनः ।
त्यज्य शोकंच मोहंच ततो धैर्यमुपागमत् ॥ 123 ॥

सोऽभ्यतिक्रामदव्यग्रस्तामचिंत्यपराक्रमः ।
रामः पंपां सुरुचिरां रम्यपारिप्लवद्रुमाम् ॥ 124 ॥

निरीक्षमाणस्सहसा महात्मा सर्वं वनं निर्झरकंदराश्च ।
उद्विग्नचेतास्सह लक्ष्मणेन विचार्य दुःखोपहतः प्रतस्थे ॥ 125 ॥

तं मत्तमातंगविलासगामी गच्छंतमव्यग्रमना महात्मा ।
स लक्ष्मणो राघवमप्रमत्तो ररक्ष धर्मेण बलेन चैव ॥ 126 ॥

तावृष्यमूकस्य समीपचारी चरंददर्शाद्भुतदर्शनीयौ ।
शाखामृगाणामधिपस्तरस्वी वितत्रसे नैव चिचेष्ट किंचित् ॥ 127 ॥

स तौ महात्मा गजमंदगामी शाखामृगस्तत्र चरंचरंतौ ।
दृष्ट्वा विषादं परमं जगाम चिंतापरीतो भयभारमग्नः ॥ 128 ॥

तमाश्रमं पुण्यसुखं शरण्यं सदैव शाखामृगसेवितांतम् ।
त्रस्ताश्च दृष्ट्वा हरयोऽभिजग्मुर्महौजसौ राघवलक्ष्मणौ तौ ॥ 129 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे प्रथमस्सर्गः ॥




Browse Related Categories: