View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.35 किष्किंधाकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा ।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना ॥ 1 ॥

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति ।
हरीणामीश्वरश्श्रोतुं तव वक्त्राद्विशेषतः ॥ 2 ॥

नैवाकृतज्ञस्सुग्रीवो न शठो नापि दारुणः ।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः ॥ 3 ॥

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः ।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे ॥ 4 ॥

रामप्रसादात्कीर्तिंच कपिराज्यं च शाश्वतम् ।
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप ॥ 5 ॥

सुदुःखं शयितः पूर्वं प्राप्येदं सुखमुत्तमम् ।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः ॥ 6 ॥

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण ।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः ॥ 7 ॥

स हि प्राप्तं न जानीते कालं कालविदां वरः ।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः ॥ 8 ॥

देहधर्मं गतस्यास्य परिश्रांतस्य लक्ष्मण ।
अवितृप्तस्य कामेषु कामं क्षंतुमिहार्हसि ॥ 9 ॥

न च रोषवशं तात गंतुमर्हसि लक्ष्मण ।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा ॥ 10 ॥

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ ।
अविमृश्य न रोषस्य सहसा यांति वश्यताम् ॥ 11 ॥

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता ।
महान्रोषसमुत्पन्न स्संरंभस्त्यज्यतामयम् ॥ 12 ॥

रुमां मां कपि राज्यं च धनधान्यवसूनि च ।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम ॥ 13 ॥

समानेष्यति सुग्रीव स्सीतया सह राघवम् ।
शशांकमिव रोहिण्या निहत्वा रावणं रणे ॥ 14 ॥

शतकोटिसहस्राणि लंकायां किल राक्षसाः ।
आयुतानि च षट्त्रिंशत्सहस्राणि शतानि च ॥ 15 ॥

अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः ।
न शक्यो रावणो हंतुं येन सा मैथिली हृता ॥ 16 ॥

ते न शक्या रणे हंतुमसहायेन लक्ष्मण ।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः ॥ 17 ॥

एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः ।
आगमस्तु न मे व्यक्तश्श्रवात्तस्माद्ब्रवीम्यहम् ॥ 18 ॥

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुंगवाः ।
आनेतुं वानरान्युद्धे सुबहून्हरियूधपान् ॥ 19 ॥

तांश्च प्रतीक्षमाणोऽयं विक्रांतात्सुमहाबलान् ।
राघवस्यार्थसिध्यर्थं न निर्याति हरीश्वरः ॥ 20 ॥

कृता तु संस्था सौमित्रे सुग्रीवेण पुरा यथा ।
अद्य तैर्वानरैस्सर्वैरागंतव्यं महाबलैः ॥ 21 ॥

ऋक्षकोटिसहस्राणि गोलांगूलशतानि च ।
अद्य त्वामुपयास्यंति जहि कोपमरिंदम ।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् ॥ 22 ॥

तव हि मुखमिदं निरीक्ष्य कोपात् क्षतजनिभे नयने निरीक्षमाणाः ।
हरिवरवनिता न यांति शांतिं प्रथमभयस्य हि शंकितास्तु सर्वाः ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: