View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.4 किष्किंधाकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ चतुर्थस्सर्गः ।

ततः प्रहृष्टौ हनुमान्कृत्यवानिति तद्वचः ।
श्रुत्वा मधुरसंभाषं सुग्रीवं मनसा गतः ॥ 1 ॥

भव्यो राज्यागमस्तस्य सुग्रीवस्य महात्मनः ।
यदयं कृत्यवान्प्राप्तः कृत्यं चैतदुपागतम् ॥ 2 ॥

ततः परमसंहृष्टो हनुमान् प्लवगर्षभः ।
प्रत्युवाच ततो वाक्यं रामं वाक्यविशारदः ॥ 3 ॥

किं अर्थं त्वं वनं घोरं पंपा कानन मंडितम् ।
आगतः सानुजो दुर्गं नाना व्याल मृग आयुतम् ॥ 4 ॥

तस्य तद्वचनं श्रुत्वा लक्ष्मणो रामचोदितः ।
आचचक्षे महात्मानं रामं दशरथात्मजम् ॥ 5 ॥

राजा दशरथो नाम द्युतिमांधर्मवत्सलः ।
चातुर्वर्ण्यं स्वधर्मेण नित्यमेवाभ्यपालयत् ॥ 6 ॥

न द्वेष्टा विद्यते तस्य न च स द्वेष्टि कंचन ।
स च सर्वेषु भूतेषु पितामह इवापरः ॥ 7 ॥

अग्निष्टोमादिभिर्यज्ञैरिष्टवानाप्तदक्षिणैः ।
तस्यायं पूर्वजः पुत्रो रामो नाम जनैः श्रुतः ॥ 8 ॥

शरण्यस्सर्वभूतानां पितुर्निर्देशपारगः ।
वीरो दशरथस्यायं पुत्राणां गुणवत्तमः ॥ 9 ॥

राजलक्षणसंपन्नस्सम्युक्तो राजसंपदा ।
राज्याद्भ्रष्टो वने वस्तुं मया सार्धमिहागतः ॥ 10 ॥

भार्यया च महातेजास्सीतयाऽनुगतो वशी ।
दिनक्षये महातेजाः प्रभयेव दिवाकरः ॥ 11 ॥

अहमस्यावरो भ्राता गुणैर्दास्यमुपागतः ।
कृतज्ञस्य बहुज्ञस्य लक्ष्मणो नाम नामतः ॥ 12 ॥

सुखार्हस्य महार्हस्य सर्वभूतहितात्मनः ।
ऐश्वर्येण च हीनस्य वनवासाश्रितस्य च ॥ 13 ॥

रक्षसाऽपहृता भार्या रहिते कामरूपिणा ।
तच्च न ज्ञायते रक्षः पत्नी येनास्य सा हृता ॥ 14 ॥

दनुर्नाम दितेः पुत्रश्शापाद्राक्षसतां गतः ।
आख्यातस्तेन सुग्रीवस्समर्थो वानरर्षभः ॥ 15 ॥

स ज्ञास्यति महावीर्यस्तव भार्यापहारिणम् ।
एवमुक्त्वा दनुस्स्वर्गं भ्राजमानो गतस्सुखम् ॥ 16 ॥

एतत्ते सर्वमाख्यातं यथा तथ्येन पृच्छतः ।
अहं चैव हि रामश्च सुग्रीवं शरणं गतौ ॥ 17 ॥

एष दत्त्वा च वित्तानि प्राप्य चानुत्तमं यशः ।
लोकनाथः पुरा भूत्वा सुग्रीवं नाथमिच्छति ॥ 18 ॥

पिता यस्य पुरा ह्यासीच्छरण्यो धर्मवत्सलः ।
तस्य पुत्रश्शरण्यश्च सुग्रीवं शरणं गतः ॥ 19 ॥

सर्वलोकस्य धर्मात्मा शरण्यश्शरणं पुरा ।
गुरुर्मे राघवस्सोऽयं सुग्रीवं शरणं गतः ॥ 20 ॥

यस्य प्रसादे सततं प्रसीदेयुरिमाः प्रजाः ।
स रामो वानरेंद्रस्य प्रसादमभिकांक्षते ॥ 21 ॥

येन सर्वगुणोपेताः पृथिव्यां सर्वपार्थिवाः ।
मानितास्सततं राज्ञा सदा दशरथेन वै ॥ 22 ॥

तस्यायं पूर्वजः पुत्रस्त्रिषु लोकेषु विश्रुतः ।
सुग्रीवं वानरेंद्रं तु रामश्शरणमागतः ॥ 23 ॥

शोकाभिभूते रामे तु शोकार्ते शरणं गते ।
कर्तुमर्हति सुग्रीवः प्रसादं हरियूधपः ॥ 24 ॥

एवं ब्रुवाणं सौमित्रिं करुणं साश्रुलोचनम् ।
हनुमान्प्रत्युवाचेदं वाक्यं वाक्यविशारदः ॥ 25 ॥

ईदृशा बुद्धिसंपन्ना जितक्रोधा जितेंद्रियाः ।
द्रष्टव्या वानरेंद्रेण दिष्ट्या दर्शनमागताः ॥ 26 ॥

स हि राज्यात्परिभ्रष्टः कृतवैरश्च वालिना ।
हृतदारो वने त्यक्तो भ्रात्रा विनिकृतो भृशम् ॥ 27 ॥

करिष्यति स साहाय्यं युवयोर्भास्करात्मजः ।
सुग्रीवस्सह चास्माभि स्सीतायाः परिमार्गणे ॥ 28 ॥

इत्येवमुक्त्वा हनुमान् श्लक्ष्णं मधुरया गिरा ।
बभाषे सोऽभिगच्छेम सुग्रीवमिति राघवम् ॥ 29 ॥

एवं ब्रुवाणं धर्मात्मा हनुमंतं स लक्ष्मणः ।
प्रतिपूज्य यथान्यायमिदं प्रोवाच राघवम् ॥ 30 ॥

कपिः कथयते हृष्टो यथाऽयं मारुतात्मजः ।
कृत्यवांत्सोऽपि संप्राप्तः कृतकृत्योऽसि राघव ॥ 31 ॥

प्रसन्नमुखवर्णश्च व्यक्तं हृष्टश्च भाषते ।
नानृतं वक्ष्यते वीरो हनुमान्मारुतात्मजः ॥ 32 ॥

ततस्स तु महाप्राज्ञो हनुमान्मारुतात्मजः ।
जगामादाय तौ वीरौ हरिराजाय राघवौ ॥ 33 ॥

भिक्षुरूपं परित्यज्य वानरं रूपमास्थितः ।
पृष्ठमारोप्य तौ वीरौ जगाम कपिकुंजरः ॥ 34 ॥

स तु विपुलयशाः कपिप्रवीरः पवनसुतः कृतकृत्यवत्प्रहृष्टः ।
गिरिवरमुरुविक्रमः प्रयात स्स शुभमतिस्सह रामलक्ष्मणाभ्याम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: