View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.66 किष्किंधाकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

अनेकशतसाहस्रीं विषण्णां हरिवाहिनीम् ।
जांबवान्समुदीक्ष्यैवं हनूमंतमथाब्रवीत् ॥ 1 ॥

वीर वानरलोकस्य सर्वशास्त्रविदां वर ।
तूष्णीमेकांतमाश्रित्य हनूमन्किं न जल्पसि ॥ 2 ॥

हनूमन्हरिराजस्य सुग्रीवस्य समो ह्यसि ।
रामलक्ष्मणयोश्चापि तेजसा च बलेन च ॥ 3 ॥

अरिष्टनेमिनः पुत्रो वैनतेयो महाबलः ।
गरुत्मानिति विख्यात उत्तमस्सर्वपक्षिणाम् ॥ 4 ॥

बहुशो हि मया दृष्टः सागरे स महाबलः ।
भुजंगानुद्धरन्पक्षी महावेगो महायशाः ॥ 5 ॥

पक्षयोर्यद्बलं तस्य तावद्भुजबलं तव ।
विक्रमश्चापि वेगश्च न ते तेनावहीयते ॥ 6 ॥

बलं बुद्धिश्च तेजश्च सत्त्वं च हरिपुंगव ।
विशिष्टं सर्वभूतेषु किमात्मानं न बुध्यसे ॥ 7 ॥

अप्सराप्सरसां श्रेष्ठा विख्याता पुंजिकस्थला ।
अंजनेति परिख्याता पत्नी केसरिणो हरेः ॥ 8 ॥

विख्याता त्रिषु लोकेषु रूपेणाप्रतिमा भुवि ।
अभिशापादभूत्तात वानरी कामरूपिणी ॥ 9 ॥

दुहिता वानरेंद्रस्य कुंजरस्य महात्मनः ।
मानुषं विग्रहं कृत्वा रूपयौवनशालिनी ॥ 10 ॥

विचित्रमाल्याभरणा महार्हक्षौमवासिनी ।
अचरत्पर्वतस्याग्रे प्रावृडंबुदसन्निभे ॥ 11 ॥

तस्या वस्त्रं विशालाक्ष्याः पीतं रक्तदशं शुभम् ।
स्थितायाः पर्वतस्याग्रे मारुतोऽपहरच्छनैः ॥ 12 ॥

स ददर्श ततस्तस्या वृत्तावूरू सुसंहतौ ।
स्तनौ च पीनौ सहितौ सुजातं चारु चाननम् ॥ 13 ॥

तां विशालायतश्रोणीं तनुमध्यां यशस्विनीम् ।
दृष्टवैव शुभसर्वांगीं पवनः काममोहितः ॥ 14 ॥

स तां भुजाभ्यां दीर्घाभ्यां पर्यष्वजत मारुतः ।
मन्मथाविष्टसर्वांगो गतात्मा तामनिंदिताम् ॥ 15 ॥

सा तु तत्रैव संभ्रांता सुव्रता वाक्यमब्रवीत् ।
एकपत्नीव्रतमिदं को नाशयितुमिच्छति ॥ 16 ॥

अंजनाया वच्शुत्वा मारुतः प्रत्यभाषत ।
न त्वां हिंसामि सुश्रोणि मा भूत्ते सुभगे भयम् ॥ 17 ॥

मनसाऽस्मि गतो यत्त्वां परिष्वज्य यशस्विनीम् ।
वीर्यवान्बुद्धिसंपन्नः पुत्रस्तव भविष्यति ॥ 18 ॥

महासत्त्वो महातेजा महाबलपराक्रमः ।
लंघने प्लवने चैव भविष्यति हि मत्समः ॥ 19 ॥

एवमुक्ता ततस्तुष्टा जननी ते महाकपे ।
गुहायां त्वां महाबाहो प्रजज्ञे प्लवगर्षभम् ॥ 20 ॥

अभ्युत्थितं ततस्सूर्यं बालो दृष्ट्वा महावने ।
फलं चेति जिघृक्षुस्त्वमुत्प्लुत्याभ्युद्गतो दिवम् ॥ 21 ॥

शतानि त्रीणि गत्वाऽथ योजनानां महाकपे ।
तेजसा तस्य निर्धूतो न विषादं ततोगतः ॥ 22 ॥

तावदापपत स्तूर्णमंतरिक्षं महाकपे ।
क्षिप्तमिंद्रेण ते वज्रं कोपाविष्टेन धीमता ॥ 23 ॥

तदा शैलाग्रशिखरे वामो हनुरभज्यत ।
ततो हि नामधेयं ते हनुमानिति कीर्त्यते ॥ 24 ॥

तस्त्वावि निहतं दृष्ट्वा वायुर्गंधवहस्स्वयम् ।
त्रैलोक्ये भृशसंकृद्धो न ववौ वै प्रभंजनः ॥ 25 ॥

संभ्रांताश्च सूरास्सर्वे त्रैलोक्ये क्षुभिते सति ।
प्रसादयंति संक्रुद्धं मारुतं भुवनेश्वराः ॥ 26 ॥

प्रसादिते च पवने ब्रह्मा तुभ्यं वरं ददौ ।
अशस्त्रवध्यतां तात समरे सत्यविक्रम ॥ 27 ॥

वज्रस्य च निपातेन विरुजं त्वां समीक्ष्य च ।
सहस्रनेत्रः प्रीतात्मा ददौ ते वरमुत्तमम् ॥ 28 ॥

स्वच्छंदतश्च मरणं तेभूयादिति वै प्रभो ।
स त्वं केसरिणः पुत्रः क्षेत्रजो भीमविक्रमः ॥ 29 ॥

मारुतस्यौरसः पुत्रस्तेजसा चापि तत्समः ।
त्वं हि वायुसुतो वत्स प्लवने चापि तत्समः ॥ 30 ॥

वयमद्य गतप्राणा भवान्नस्त्रातु सांप्रतम् ।
दाक्ष्यविक्रमसंपन्नः कपिराज इवापरः ॥ 31 ॥

त्रिविक्रमे मया तात सशैलवनकानना ।
त्रिस्सप्तकृत्वः पृथिवी परिक्रांता प्रदक्षिणम् ॥ 32 ॥

तथा चौषधयोऽस्माभिस्संचिता देवशासनात् ।
निष्पन्नममृतं याभिस्तदासीन्नो महद्बलम् ॥ 33 ॥

स इदानीमहं वृद्धः परिहीनपराक्रमः ।
सांप्रतं कालमस्माकं भवान्सर्वगुणान्वितः ॥ 34 ॥

तद्विजृंभस्व विक्रांतः प्लवतामुत्तमो ह्यसि ।
त्वद्वीर्यं द्रष्टुकामा हि सर्वा वानरवाहिनी ॥ 35 ॥

उत्तिष्ठ हरिशार्दूल लंघयस्व महार्णवम् ।
परा हि सर्वभूतानां हनुमन्या गतिस्तव ॥ 36 ॥

विषण्णा हरयस्सर्वे हनुमन्किमुपेक्षसे ।
विक्रमस्व महावेगो विष्णुस्त्रीन्विक्रमानिव ॥ 37 ॥

ततस्तु वै जांबवता प्रचोदितः प्रतीतवेगः पवनात्मजः कपिः ।
प्रहर्षयंस्तां हरिवीरवाहिनीं चकार रूपं महदात्मनस्तदा ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: