View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.13 सुंदरकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रयोदशस्सर्गः ।

विमानात्तु सुसम्क्रम्य प्राकारं हरियूथपः ।
हनुमान्वेगवानासीद्यथा विद्युद्घनांतरे ॥ 1 ॥

संपरिक्रम्य हनुमान्रावणस्य निवेशनात् ।
अदृष्ट्वा जानकीं सीतामब्रवीद्वचनं कपिः ॥ 2 ॥

भूयिष्ठं लोलिता लंका रामस्य चरता प्रियम् ।
न हि पश्यामि वैदेहीं सीतां सर्वांगशोभनाम् ॥ 3 ॥

पल्वलानि तटाकानि सरांसि सरितस्तथा ।
नद्योऽनूपवनांताश्च दुर्गाश्च धरणीधराः ॥ 4 ॥

लोलिता वसुधा सर्वा न तु पश्यामि जानकीम् ।
इह संपातिना सीता रावणस्य निवेशने ॥ 5 ॥

आख्याता गृध्रराजेन न च पश्यामि तामहम् ।
किं नु सीताऽथ वैदेही मैथिली जनकात्मजा ॥ 6 ॥

उपतिष्ठेत विवशा रावणं दुष्टचारिणम् ।
क्षिप्रमुत्पततो मन्ये सीतामादाय रक्षसः ॥ 7 ॥

बिभ्यतो रामबाणानामंतरा पतिता भवेत् ।
अथवा ह्रियमाणायाः पथि सिद्धनिषेविते ॥ 8 ॥

मन्ये पतितमार्याया हृदयं प्रेक्ष्य सागरम् ।
रावणस्योरुवेगेन भुजाभ्यां पीडितेन च ॥ 9 ॥

तया मन्ये विशालाक्ष्या त्यक्तं जीवितमार्यया ।
उपर्युपरि वा नूनं सागरं क्रमतस्तदा ॥ 10 ॥

विवेष्टमाना पतिता सागरे जनकात्मजा ।
अहो क्षुद्रेण वाऽनेन रक्षंती शीलमात्मनः ॥ 11 ॥

अबंधुर्भक्षिता सीता रावणेन तपस्विनी ।
अथवा राक्षसेंद्रस्य पत्नीभिरसितेक्षणा ॥ 12 ॥

अदुष्टा दुष्टभावाभिर्भक्षिता सा भविष्यति ।
संपूर्णचंद्रप्रतिमं पद्मपत्रनिभेक्षणम् ॥ 13 ॥

रामस्य ध्यायती वक्त्रं पंचत्वं कृपणा गता ।
हा राम लक्ष्मणेत्येवं हाऽयोध्ये चेति मैथिली ॥ 14 ॥

विलप्य बहु वैदेही न्यस्तदेहा भविष्यति ।
अथवा निहिता मन्ये रावणस्य निवेशने ॥ 15 ॥

नूनं लालप्यते सीता पंजरस्थेव शारिका ।
जनकस्य सुता सीता रामपत्नी सुमध्यमा ॥ 16 ॥

कथमुत्पलपत्राक्षी रावणस्य वशं व्रजेत् ।
विनष्टा वा प्रणष्टा वा मृता वा जनकात्मजा ॥ 17 ॥

रामस्य प्रियभार्यस्य न निवेदयितुं क्षमम् ।
निवेद्यमाने दोषस्स्याद्दोषस्स्यादनिवेदने ॥ 18 ॥

कथं नु खलु कर्तव्यं विषमं प्रतिभाति मे ।
अस्मिन्नेवंगते कार्ये प्राप्तकालं क्षमं च किम् ॥ 19 ॥

भवेदिति मतं भूयो हनुमान्प्रविचारयत् ।
यदि सीतामदृष्ट्वाऽहं वानरेंद्रपुरीमितः ॥ 20 ॥

गमिष्यामि ततः को मे पुरुषार्थो भविष्यति ।
ममेदं लंघनं व्यर्थं सागरस्य भविष्यति ॥ 21 ॥

प्रवेशश्चैव लंकायाः राक्षसानां च दर्शनम् ।
किं मां वक्ष्यति सुग्रीवो हरयो वा समागताः ॥ 22 ॥

किष्किंधां समनुप्राप्तं तौ वा दशरथात्मजौ ।
गत्वा तु यदि काकुत्स्थं वक्ष्यामि परमप्रियम् ॥ 23 ॥

न दृष्टेति मया सीता ततस्तक्ष्यति जीवितम् ।
परुषं दारुणं क्रूरं तीक्ष्णमिंद्रियतापनम् ॥ 24 ॥

सीतानिमित्तं दुर्वाक्यं श्रुत्वा स न भविष्यति ।
तं तु कृच्छ्रगतं दृष्ट्वा पंचत्वगतमानसम् ॥ 25 ॥

भृशानुरक्तो मेधावी न भविष्यति लक्ष्मणः ।
विनष्टौ भ्रातरौ श्रुत्वा भरतोऽपि मरिष्यति ॥ 26 ॥

भरतं च मृतं दृष्ट्वा शत्रुघ्नो न भविष्यति ।
पुत्रान्मृतान्समीक्ष्याथ न भविष्यंति मातरः ॥ 27 ॥

कौसल्या च सुमित्रा च कैकेयी च न संशयः ।
कृतज्ञस्सत्यसंधश्च सुग्रीवः प्लवगाधिपः ॥ 28 ॥

रामं तथा गतं दृष्ट्वा ततस्त्यक्ष्यति जीवितम् ।
दुर्मना व्यथिता दीना निरानंदा तपस्विनी ॥ 29 ॥

पीडिता भर्तृशोकेन रुमा त्यक्ष्यति जीवितम् ।
वालिजेन तु दुःखेन पीडिता शोककर्शिता ॥ 30 ॥

पंचत्वं च गते राज्ञि ताराऽपि न भविष्यति ।
मातापित्रोर्विनाशेन सुग्रीवव्यसनेन च ॥ 31 ॥

कुमारोऽप्यंगदः कस्माद्धारयिष्यति जीवितम् ।
भर्तृजेन तु दुःखेन ह्यभिभूता वनौकसः ॥ 32 ॥

शिरांस्यभिहनिष्यंति तलैर्मुष्टिभिरेव च ।
सांत्वेनानुप्रदानेन मानेन च यशस्विना ॥ 33 ॥

लालिताः कपिराजेन प्राणांस्त्यक्ष्यंति वानराः ।
न वनेषु न शैलेषु न निरोधेषु वा पुनः ॥ 34 ॥

क्रीडामनुभविष्यंति समेत्य कपिकुंजराः ।
सपुत्रदारास्सामात्या भर्तृव्यसनपीडिताः ॥ 35 ॥

शैलाग्रेभ्यः पतिष्यंति समेषु विषमेषु च ।
विषमुद्बंधनं वापि प्रवेशं ज्वलनस्य वा ॥ 36 ॥

उपवासमथो शस्त्रं प्रचरिष्यंति वानराः ।
घोरमारोदनं मन्ये गते मयि भविष्यति ॥ 37 ॥

इक्ष्वाकुकुलनाशश्च नाशश्चैव वनौकसाम् ।
सोऽहं नैव गमिष्यामि किष्किंधां नगरीमितः ॥ 38 ॥

न च शक्ष्याम्यहं द्रष्टुं सुग्रीवं मैथिलीं विना ।
मय्यगच्छति चेहस्थे धर्मात्मानौ महारथौ ॥ 39 ॥

आशया तौ धरिष्येते वानराश्च मनस्विनः ।
हस्तादानो मुखादानो नियतो वृक्षमूलिकः ॥ 40 ॥

वानप्रस्थो भविष्यामि ह्यदृष्ट्वा जनकात्मजाम् ।
सागरानूपजे देशे बहुमूलफलोदके ॥ 41 ॥

चितां कृत्वा प्रवेक्ष्यामि समिद्धमरणीसुतम् ।
उपविष्टस्य वा सम्यग्लिंगिनीं साधयिष्यतः ॥ 42 ॥

शरीरं भक्षयिष्यंति वायसाः श्वापदानि च ।
इदं महर्षिभिर्दृष्टं निर्याणमिति मे मतिः ॥ 43 ॥

सम्यगापः प्रवेक्ष्यामि न चेत्पश्यामि जानकीम् ।
सुजातमूला सुभगा कीर्तिमाला यशस्विनी ॥ 44 ॥

प्रभग्ना चिररात्रीयं मम सीतामपश्यतः ।
तापसो वा भविष्यामि नियतो वृक्षमूलिकः ॥ 45 ॥

नेतः प्रतिगमिष्यामि तामदृष्ट्वासितेक्षणाम् ।
यदीतः प्रतिगच्छामि सीतामनधिगम्य ताम् ॥ 46 ॥

अंगदस्सह तैस्सर्वैर्वानरैर्न भविष्यति ।
विनाशे बहवो दोषा जीवन् भद्राणि पश्यति ॥ 47 ॥

तस्मात्प्राणान् धरिष्यामि ध्रुवो जीवितसंगमः ।
एवं बहुविधं दुःखं मनसा धरायन्मुहुः ॥ 48 ॥

नाध्यगच्छत्तदा पारं शोकस्य कपिकुंचरः ।
रावणं वा वधिष्यामि दशग्रीवं महाबलम् ॥ 49 ॥

काममस्तु हृता सीता प्रत्याचीर्णं भविष्यति ।
अथवैनं समुत्क्षिप्य उपर्युपरि सागरम् ॥ 50 ॥

रामायोपहरिष्यामि पशुं पशुपतेरिव ।
इति चिंतां समापन्नः सीतामनधिगम्य ताम् ॥ 51 ॥

ध्यानशोकपरीतात्मा चिंतयामास वानरः ।
यावत्सीतां हि पश्यामि रामपत्नीं यशस्विनीम् ॥ 52 ॥

तावदेतां पुरीं लंकां विचिनोमि पुनः पुनः ।
संपातिवचनाच्चापि रामं यद्यानयाम्यहम् ॥ 53 ॥

अपश्यन् राघवो भार्यां निर्धहेत्सर्ववानरान् ।
इहैव नियताहारो वत्स्यामि नियतेंद्रियः ॥ 54 ॥

न मत्कृते विनश्येयुः सर्वे ते नरवानराः ।
अशोकवनिका चेयं दृश्यते या महाद्रुमा ॥ 55 ॥

इमामधिगमिष्यामि न हीयं विचिता मया ।
वसून्रुद्रांस्तथाऽदित्यानश्विनौ मरुतोऽपि च ॥ 56 ॥

नमस्कृत्वा गमिष्यामि रक्षसां शोकवर्धनः ।
जित्वा तु राक्षसान् सर्वानिक्ष्वाकुकुलनंदिनीम् ॥ 57 ॥

संप्रदास्यामि रामाय यथा सिद्धिं तपस्विने ।
सः मुहूर्तमिव ध्यात्वा चिंतावग्रथितेंद्रियः ॥ 58 ॥

उदतिष्ठन्महातेजा हनुमान् मारुतात्मजः ।
नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै ।
नमोऽस्तु रुद्रेंद्रयमानिलेभ्यो नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः ॥ 59 ॥

स तेभ्यस्तु नमस्कृत्य सुग्रीवाय च मारुतिः ।
दिशस्सर्वास्समालोक्य ह्यशोकवनिकां प्रति ॥ 60 ॥

स गत्वा मनसा पूर्वमशोकवनिकां शुभाम् ।
उत्तरं चिंतयामास वानरो मारुतात्मजः ॥ 61 ॥

ध्रुवं तु रक्षोबहुला भविष्यति वनाकुला ।
अशोकवनिका पुण्या सर्वसंस्कारसंस्कृता ॥ 62 ॥

रक्षिणश्चात्र विहिता नूनं रक्षंति पादपान् ।
भगवानपि सर्वात्मा नातिक्षोभं प्रवाति वै ॥ 63 ॥

संक्षिप्तोऽयं मयाऽत्मा च रामार्थे रावणस्य च ।
सिद्धिं मे संविधास्यंति देवाः सर्षिगणास्त्विह ॥ 64 ॥

ब्रह्मा स्वयंभूर्भगवान् देवाश्चैव दिशंतु मे ।
सिद्धिमग्निश्च वायुश्च पुरुहूतश्च वज्रभृत् ॥ 65 ॥

वरुणः पाशहस्तश्च सोमादित्यौ तथैव च ।
अश्विनौ च महात्मानौ मरुतः शर्व एव च ॥ 66 ॥

सिद्धिं सर्वाणि भूतानि भूतानां चैव यः प्रभुः ।
दास्यंति मम ये चान्ये ह्यदृष्टाः पथि गोचराः ॥ 67 ॥

तदुन्नसं पांडुरदंतमव्रणं शुचिस्मितं पद्मपलाशलोचनम् ।
द्रक्ष्ये तदार्यावदनं कदान्वहं प्रसन्नताराधिपतुल्यदर्शनम् ॥ 68 ॥

क्षुद्रेण पापेन नृशंसकर्मणा सुदारुणालंकृतवेषधारिणा ।
बलाभिभूता ह्यबला तपस्विनी कथं नु मे दृष्टिपथेऽद्य सा भवेत् ॥ 69 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: