View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.15 सुंदरकांड - पंचदश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ पंचदशस्सर्गः ।

स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् ।
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत ॥ 1 ॥

संतानकलताभिश्च पादपैरुपशोभिताम् ।
दिव्यगंधरसोपेतां सर्वतस्समलंकृताम् ॥ 2 ॥

तां स नंदनसंकाशां मृगपक्षिभिरावृताम् ।
हर्म्यप्रासादसंबाधां कोकिलाकुलनिस्स्वनाम् ॥ 3 ॥

कांचनोत्पलपद्माभिर्वापीभिरुपशोभिताम् ।
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् ॥ 4 ॥

सर्वर्तुकुसुमै रम्यां फलवद्भिश्च पादपैः ।
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् ॥ 5 ॥

प्रदीप्तामिव तत्रस्थो मारुतिस्समुदैक्षत ।
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् ॥ 6 ॥

विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः ।
आमूलपुष्पनिचितैरशोकैश्शोकनाशनैः ॥ 7 ॥

पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् ।
कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः ॥ 8 ॥

स देशः प्रभया तेषां प्रदीप्त इव सर्वतः ।
पुन्नागास्सप्तपर्णाश्च चंपकोद्दालकास्तथा ॥ 9 ॥

विवृद्धमूला बहवश्शोभंते स्म सुपुष्पिताः ।
शातकुंभनिभाः केचित्केचिदग्निशिखोपमाः ॥ 10 ॥

नीलांजननिभाः केचित्तत्राशोकास्सहस्रशः ।
नंदनं विविधोद्यानं चित्रं चैत्ररथं यथा ॥ 11 ॥

अतिवृत्तमिवाचिंत्यं दिव्यं रम्यं श्रिया वृतम् ।
वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् ॥ 12 ॥

पुष्परत्नशतैश्चित्रं द्वितीयं सागरं यथा ।
सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगंधिभिः ॥ 13 ॥

नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः ।
अनेकगंधप्रवहं पुण्यगंधं मनोरमम् ॥ 14 ॥

शैलेंद्रमिव गंधाढ्यं द्वितीयं गंधमादनम् ।
अशोकवनिकायां तु तस्यां वानरपुंगवः ॥ 15 ॥

स ददर्शाविदूरस्थं चैत्यप्रासादमुच्छ्रितम् ।
मथ्ये स्तंभसहस्रेण स्थितं कैलासपांडुरम् ॥ 16 ॥

प्रवालकृतसोपानं तप्तकांचनवेदिकम् ।
मुष्णंतमिव चक्षूंषि द्योतमानमिव श्रिया ॥ 17 ॥

विमलं प्रांशुभावत्वादुल्लिखंतमिवांबरम् ।
ततो मलिनसंवीतां राक्षसीभिस्समावृताम् ॥ 18 ॥

उपवासकृशां दीनां निश्श्वसंतीं पुनः पुनः ।
ददर्श शुक्लपक्षादौ चंद्ररेखामिवामलाम् ॥ 19 ॥

मंदप्रख्यायमानेन रूपेण रुचिरप्रभाम् ।
पिनद्धां धूमजालेन शिखामिव विभावसोः ॥ 20 ॥

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा ।
सपंकामनलंकारां विपद्मामिव पद्मिनीम् ॥ 21 ॥

व्रीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम् ।
ग्रहेणांगारकेणेव पीडितामिव रोहिणीम् ॥ 22 ॥

अश्रुपूर्णमुखीं दीनां कृशामनशनेन च ।
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् ॥ 23 ॥

प्रियं जनमपश्यंतीं पश्यंतीं राक्षसीगणम् ।
स्वगणेन मृगीं हीनां श्वगणाभिवृतामिव ॥ 24 ॥

नीलनागाभया वेण्या जघनं गतयैकया ।
नीलया नीरदापाये वनराज्या महीमिव ॥ 25 ॥

सुखार्हां दुःखसंतप्तां व्यसनानामकोविदाम् ।
तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् ॥ 26 ॥

तर्कयामास सीतेति कारणैरुपपादिभिः ।
ह्रियमाणा तदा तेन रक्षसा कामरूपिणा ॥ 27 ॥

यथारूपा हि दृष्टा वै तथारूपेयमंगना ।
पूर्णचंद्राननां सुभ्रूं चारुवृत्तपयोधराम् ॥ 28 ॥

कुर्वतीं प्रभयादेवीं सर्वा वितिमिरा दिशः ।
तां नीलकेशीं बिंबोष्ठीं सुमध्यां सुप्रतिष्ठिताम् ॥ 29 ॥

सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा ।
इष्टां सर्वस्य जगतः पूर्णचंद्रप्रभामिव ॥ 30 ॥

भूमौ सुतनुमासीनां नियतामिव तापसीम् ।
निःश्वासबहुलां भीरुं भुजगेंद्रवधूमिव ॥ 31 ॥

शोकजालेन महता विततेन न राजतीम् ।
संसक्तां धूमजालेन शिखामिव विभावसोः ॥ 32 ॥

तां स्मृतीमिव संदिग्धामृद्धिं निपतितामिव ।
विहतामिव च श्रद्धामाशां प्रतिहतामिव ॥ 33 ॥

सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषामिव ।
अभूतेनापवादेन कीर्तिं निपतितामिव ॥ 34 ॥

रामोपरोधव्यथितां रक्षोहरणकर्शिताम् ।
अबलां मृगशाबाक्षीं वीक्षमाणां ततस्ततः ॥ 35 ॥

बाष्पांबुपरिपूर्णेन कृष्णवक्राक्षिपक्ष्मणा ।
वदनेनाप्रसन्नेन निःश्वसंतीं पुनः पुनः ॥ 36 ॥

मलपंकधरां दीनां मंडनार्हाममंडिताम् ।
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् ॥ 37 ॥

तस्य संदिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु ।
आम्नायानामयोगेन विद्यां प्रशिथिलामिव ॥ 38 ॥

दुःखेन बुबुधे सीतां हनुमाननलंकृताम् ।
संस्कारेण यथा हीनां वाचमर्थांतरं गताम् ॥ 39 ॥

तां समीक्षय विशालाक्षीं राजपुत्रीमनिंदिताम् ।
तर्कयामास सीतेति कारणैरुपपादिभिः ॥ 40 ॥

वैदेह्या यानि चांगेषु तदा रामोऽन्वकीर्तयत् ।
तान्याभरणजालानि गात्रशोभीन्यलक्षयत् ॥ 41 ॥

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ ।
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च ॥ 42 ॥

श्यामानि चिरयुक्तत्वात्तथा संस्थानवंति च ।
तान्यैवेतानि मन्येऽहं यानि रामोऽन्वकीर्तयत् ॥ 43 ॥

तत्र यान्यवहीनानि तान्यहं नोपलक्षये ।
यान्यस्या नावहीनानि तानीमानि न संशयः ॥ 44 ॥

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् ।
उत्तरीयं नगासक्तं तदा दृष्टं प्लवंगमैः ॥ 45 ॥

भूषणानि च मुख्यानि दृष्टानि धरणीतले ।
अनयैवापविद्धानि स्वनवंति महांति च ॥ 46 ॥

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् ।
तथाऽपि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् ॥ 47 ॥

इयं कनकवर्णांगी रामस्य महिषी प्रिया ।
प्रणष्टापि सती याऽस्य मनसो न प्रणश्यति ॥ 48 ॥

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते ।
कारुण्येनानृशंस्येन शोकेन मदनेन च ॥ 49 ॥

स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः ।
पत्नी नष्टेति शोकेन प्रियेति मदनेन च ॥ 50 ॥

अस्या देव्या यथा रूपमंगप्रत्यंगसौष्ठवम् ।
रामस्य च यथा रूपं तस्येयमसितेक्षणा ॥ 51 ॥

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् ।
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति ॥ 52 ॥

दुष्करं कृतवान्रामो हीनो यदनया प्रभुः ।
धारयत्यात्मनो देहं न शोकेनावसीदति ॥ 53 ॥

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् ।
सीतां विना महाबाहुर्मुहूर्तमपि जीवति ॥ 54 ॥

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः ।
जगाम मनसा रामं प्रशशंस च तं प्रभुम् ॥ 55 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे पंचदशस्सर्गः ॥




Browse Related Categories: