View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.34 सुंदरकांड - चतुस्त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चतुस्त्रिंशस्सर्गः ।

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरिपुंगवः ।
दुःखाद्दुःखाभिभूताया स्सांत्वमुत्तरमब्रवीत् ॥ 1 ॥

अहं रामस्य संदेशाद्देवि दूतस्तवागतः ।
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् ॥ 2 ॥

यो ब्रह्ममस्त्रं वेदांश्च वेद वेदविदांवरः ।
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् ॥ 3 ॥

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः ।
कृतवान्शोकसंतप्तश्शिरसा तेऽभिवादनम् ॥ 4 ॥

सा तयोः कुशलं देवी निशम्य नरसिंहयोः ।
प्रीतिसंहृष्टसर्वांगी हनुमंतमथाब्रवीत् ॥ 5 ॥

कल्याणी बत गाथेयं लौकिकी प्रतिभाति मा ।
एति जीवंतमानंदो नरं वर्षशतादपि ॥ 6 ॥

तया समागते तस्मिन्प्रीतिरुत्पादिताऽद्भुता ।
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः ॥ 7 ॥

तस्यास्तद्वचनं श्रुत्वा हनुमान्हरियूथपः ।
सीतायाश्शोकदीनायास्समीपमुपचक्रमे ॥ 8 ॥

यथा यथा समीपं स हनुमानुपसर्पति ।
तथा तथा रावणं सा तं सीता परिशंकते ॥ 9 ॥

अहो धिग्दुष्कृतमिदं कथितं हि यदस्य मे ।
रूपांतरमुपागम्य स एवायं हि रावणः ॥ 10 ॥

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता ।
तस्यामेवानवद्यांगी धरण्यां समुपाविशत् ॥ 11 ॥

हनुमानपि दुःखार्तां तां दृष्ट्वा भयमोहिताम् ।
अवंदत महाबाहुस्ततस्तां जनकात्मजाम् ॥ 12 ॥

सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत ।
तं दृष्ट्वा वंदमानं तु सीता शशिनिभानना ॥ 13 ॥

अब्रवीद्धीर्घमुच्छवस्य वानरं मधुरस्वरा ।
मायां प्रविष्टो मायावी यदि त्वं रावणस्स्वयम् ॥ 14 ॥

उत्पादयसि मे भूयस्संतापं तन्न शोभनम् ।
स्वं परित्यज्य रूपं यः परिव्राजकरूपध्रुत् ।
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः ॥ 15 ॥

उपवासकृशां दीनां कामरूप निशाचर ।
संतापयसि मां भूयस्संतप्तां तन्न शोभनम् ॥ 16 ॥

अथवा नैतदेवं हि यन्मया परिशंकितम् ॥ 17 ॥

मनसो हि मम प्रीतिरुत्पन्ना तव दर्शनात् ।
यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते ॥ 18 ॥

पृच्छामि त्वां हरिश्रेष्ठ प्रिया रामकथा हि मे ।
गुणान्रामस्य कथय प्रियस्य मम वानर ॥ 19 ॥

चित्तं हरसि मे सौम्य नदीकूलं यथा रयः ।
अहो स्वप्नस्य सुखता याहमेवं चिराहृता ॥ 20 ॥

प्रेषितं नाम पश्यामि राघवेण वनौकसम् ।
स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् ॥ 21 ॥

पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी ।
नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् ॥ 22 ॥

न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम ।
किन्नु स्याचित्तमोहोऽयं भवेद्वातगतिस्त्वियम् ॥ 23 ॥

उन्मादजो विकारो वा स्यादियं मृगतृष्णिका ।
अथवा नायमुन्मादो मोहोऽप्युन्मादलक्षणः ॥ 24 ॥

संबुध्ये चाहमात्मानमियं चापि वनौकसम् ।
इत्येवं बहुधा सीता संप्रधार्य बलाबलम् ॥ 25 ॥

रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् ।
एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा ॥ 26 ॥

न प्रतिव्याजहाराथ वानरं जनकात्मजा ।
सीतायाश्चिंतितं बुद्ध्वा हनुमान्मारुतात्मजः ॥ 27 ॥

श्रोत्रानुकूलैर्वचनैस्तदा तां संप्रहर्षयत् ।
आदित्य इव तेजस्वी लोककांतश्शशी यथा ॥ 28 ॥

राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा ।
विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः ॥ 29 ॥

सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा ।
रूपवान्सुभग श्रीमान् कंदर्प इव मूर्तिमान् ॥ 30 ॥

स्थानक्रोधः प्रहर्ता च श्रेष्ठो लोके महारथः ।
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः ॥ 31 ॥

अपकृष्याश्रमपदान्मृगरूपेण राघवम् ।
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् ॥ 32 ॥

न चिराद्रावणं संख्ये यो वधिष्यति वीर्यवान् ।
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः ॥ 33 ॥

तेनाहं प्रेषितो दूत स्त्वत्सकाशमिहागतः ।
त्वद्वियोगेन दुःखार्त स्स त्वां कौशलमब्रवीत् ॥ 34 ॥

लक्ष्मणश्च महातेजास्सुमित्रानंदवर्धनः ।
अभिवाद्य महाबाहुस्स त्वां कौशलमब्रवीत् ॥ 35 ॥

रामस्य च सखा देवि सुग्रीवो नाम वानरः ।
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् ॥ 36 ॥

नित्यं स्मरति रामस्त्वां ससुग्रीव स्सलक्ष्मणः ।
दिष्ट्या जीवसि वैदेहि राक्षसीवशमागता ॥ 37 ॥

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महाबलम् ।
मध्ये वानरकोटीनां सुग्रीवं चामितौजसम् ॥ 38 ॥

अहं सुग्रीवसचिवो हनुमान्नाम वानरः ।
प्रविष्टो नगरीं लंकां लंघयित्वा महोदधिम् ॥ 39 ॥

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः ।
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् ॥ 40 ॥

नाहमस्मि तथा देवि यथा मामवगच्छसि ।
विशंका त्यज्यतामेषा श्रद्धत्स्व वदतो मम ॥ 41 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चतुस्त्रिंशस्सर्गः ॥




Browse Related Categories: