View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.40 सुंदरकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ चत्वारिंशस्सर्गः ।

श्रुत्वा तु वचनं तस्य वायुसूनोर्महात्मनः ।
उवाचात्महितं वाक्यं सीता सुरसुतोपमा ॥ 1 ॥

त्वां दृष्ट्वा प्रियवक्तारं संप्रहृष्यामि वानरः ।
अर्धसंजातसस्येव वृष्टिं प्राप्य वसुंधरा ॥ 2 ॥

यथा तं पुरुषव्याघ्रं गात्रैश्शोकाभिकर्शितैः ।
संस्पृशेयं सकामाहं तथा कुरु दयां मयि ॥ 3 ॥

अभिज्ञानं च रामस्य दद्या हरिगणोत्तम ।
क्षिप्तामिषीकां काकस्य कोपादेकाक्षिशातनीम् ॥ 4 ॥

मनश्शिलायास्तिलको गंडपार्श्वे निवेशितः ।
त्वया प्रणष्टे तिलके तं किल स्मर्तुमर्हसि ॥ 5 ॥

स वीर्यवान्कथं सीतां हृतां समनुमन्यसे ।
वसंतीं रक्षसां मध्ये महेंद्रवरुणोपमः ॥ 6 ॥

एष चूडामणिर्दिव्यो मया सुपरिरक्षितः ।
एतं दृष्ट्वा प्रहृष्यामि व्यसने त्वामिवानघ ॥ 7 ॥

एष निर्यातितश्श्रीमान्मया ते वारिसंभवः ।
अतः परं न शक्ष्यामि जीवितुं शोकलालसा ॥ 8 ॥

असह्यानि च दुःखानि वाचश्च हृदयच्छिदः ।
राक्षसीनां सुघोराणां त्वत्कृते मर्षयाम्यहम् ॥ 9 ॥

धारयिष्यामि मासं तु जीवितं शत्रुसूदन ।
ऊर्ध्वं मासान्न जीविष्ये त्वया हीना नृपात्मज ॥ 10 ॥

घोरो राक्षसराजोऽयं दृष्टिश्च न सुखा मयि ।
त्वां च श्रुत्वा विपद्यंतं न जीवेयमहं क्षणम् ॥ 11 ॥

वैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् ।
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ 12 ॥

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिभूते तु लक्ष्मणः परितप्यते ॥ 13 ॥

कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ।
इमं मुहूर्तं दुःखानामंतं द्रक्ष्यसि भामिनि ॥ 14 ॥

तावुभौ पुरुषव्याघ्रौ राजपुत्रावरिंदमौ ।
त्वद्दर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः ॥ 15 ॥

हत्त्वा च समरे क्रूरं रावणं सहबांधवम् ।
राघवौ त्वां विशालाक्षि स्वां पुरीं प्रापयिष्यतः ॥ 16 ॥

यत्तु रामो विजानीयादभिज्ञानमनिंदिते ।
प्रीतिसंजननं तस्य भूयस्त्वं दातुमर्हसि ॥ 17 ॥

साब्रवीद्दत्तमेवेति मयाभिज्ञानमुत्तमम् ।
एतदेव हि रामस्य दृष्ट्वा मत्केशभूषणम् ॥ 18 ॥

श्रद्धेयं हनुमन्वाक्यं तव वीर भविष्यति ।
स तं मणिवरं गृह्य श्रीमान्प्लवगसत्तमः ॥ 19 ॥

प्रणम्य शिरसा देवीं गमनायोपचक्रमे ।
तमुत्पातकृतोत्साहमवेक्ष्य हरिपुंगवम् ॥ 20 ॥

वर्धमानं महावेगमुवाच जनकात्मजा ।
अश्रुपूर्णमुखी दीना बाष्पगद्गदया गिरा ॥ 21 ॥

हनुमन्सिंहसंकाशौ भ्रातरौ रामलक्ष्मणौ ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूयाह्यनामयम् ॥ 22 ॥

यथा च स महाबाहुर्मां तारयति राघवः ।
अस्माद्दुःखांबुसम्रोधात्त्वं समाधातुमर्हसि ॥ 23 ॥

इमं च तीव्रं मम शोकवेगं रक्षोभिरेभिः परिभर्त्सनं च ।
ब्रूयास्तु रामस्य गतस्समीपं शिवश्च तेऽध्वाऽस्तु हरिप्रवीर ॥ 24 ॥

स राजपुत्र्य्राप्रतिवेदितार्थः कपिः कृतार्थः परिहृष्टचेताः ।
अल्पावशेषं प्रसमीक्ष्य कार्यं दिशं ह्युदीचीं मनसा जगाम ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: