View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.57 सुंदरकांड - सप्तपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ सप्तपंचाशस्सर्गः ।

स चंद्रकुमुदं रम्यं सार्ककारंडवं शुभम् ।
तिष्यश्रवणकादंबमभ्रशैवालशाद्वलम् ॥ 1 ॥

पुनर्वसुमहामीनं लोहितांगमहाग्रहम् ।
ऐरावतमहाद्वीपं स्वातिहंसविलोलितम् ॥ 2 ॥

वातसंघातजातोर्मि चंद्रांशुशिशिरांबुमत् ।
भुजंगयक्षगंधर्वप्रबुद्धकमलोत्पलम् ॥ 3 ॥

हनुमान्मारुतगतिर्महानौरिव सागरम् ।
अपारमपरिश्रांतः पुप्लुवे गगनार्णवम् ॥ 4 ॥

ग्रसमान इवाकाशं ताराधिपमिवोल्लिखन् ।
हरन्निव सनक्षत्रं गगनं सार्कमंडलम् ॥ 5 ॥

मारुतस्यात्मजः श्रीमान्कपिर्व्योमचरो महान् ।
हनुमान्मेघजालानि विकर्षन्निव गच्छति ॥ 6 ॥

पांडुरारुणवर्णानि नीलमांजिष्ठकानि च ।
हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ 7 ॥

प्रविशन्नभ्रजालानि निष्पतंश्च पुनः पुनः ।
प्रच्छन्नश्च प्रकाशश्च चंद्रमा इव लक्ष्यते ॥ 8 ॥

विविधाभ्रघनापन्नगोचरो धवलांबरः ।
दृश्यादृश्यतनुर्वीरस्तदा चंद्रायतेऽंबरे ॥ 9 ॥

तार्क्ष्यायमाणो गगने बभासे वायुनंदनः ।
दारयन्मेघबृंदानि निष्पतंश्च पुनः पुनः ॥ 10 ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।
प्रवरान्राक्षसान् हत्वा नाम विश्राव्य चात्मनः ॥ 11 ॥

आकुलां नगरीं कृत्वा व्यथयित्वा च रावणम् ।
अर्दयित्वा बलं घोरं वैदेहीमभिवाद्य च ॥ 12 ॥

आजगाम महातेजाः पुनर्मध्येन सागरम् ।
पर्वतेंद्रं सुनाभं च समुपस्पृश्य वीर्यवान् ॥ 13 ॥

ज्यामुक्त इव नाराचो महावेगोऽभ्युपागतः ।
स किंचिदनुसंप्राप्तः समालोक्य महागिरिम् ॥ 14 ॥

महेंद्रं मेघसंकाशं ननाद हरिपुंगवः ।
स पूरयामास कपिर्दिशो दश समंततः ॥ 15 ॥

नदन्नादेन महता मेघस्वनमहास्वनः ।
स तं देशमनुप्राप्तः सुहृद्धर्शनलालसः ॥ 16 ॥

ननाद हरिशार्दूलो लांगूलं चाप्यकंपयत् ।
तस्य नानद्यमानस्य सुपर्णचरिते पथि ॥ 17 ॥

फलतीवास्य घोषेण गगनं सार्कमंडलम् ।
ये तु तत्रोत्तरे तीरे समुद्रस्य महाबलाः ॥ 18 ॥

पूर्वं संविष्ठिताश्शूरा वायुपुत्रदिदृक्षवः ।
महतो वातनुन्नस्य तोयदस्येव गर्जितम् ॥ 19 ॥

शुश्रुवुस्ते तदा घोषमूरुवेगं हनूमतः ।
ते दीनमनसस्सर्वे शुश्रुवुः काननौकसः ॥ 20 ॥

वानरेंद्रस्य निर्घोषं पर्जन्यनिनदोपमम् ।
निशम्य नदतो नादं वानरास्ते समंततः ॥ 21 ॥

बभूवुरुत्सुकास्सर्वे सुहृद्धर्शनकांक्षिणः ।
जांबवान् स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ॥ 22 ॥

उपामंत्र्य हरीन् सर्वानिदं वचनमब्रवीत् ।
सर्वथा कृतकार्योऽसौ हनुमान्नात्र संशयः ॥ 23 ॥

न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ।
तस्य बाहूरुवेगं च निनादं च महात्मनः ॥ 24 ॥

निशम्य हरयो हृष्टाः समुत्पेतुस्ततस्ततः ।
ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ॥ 25 ॥

प्रहृष्टाः समपद्यंत हनूमंतं दिदृक्षवः ।
ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुविष्ठिताः ॥ 26 ॥

वासांसीव प्रशाखाश्च समाविध्यंत वानराः ।
गिरिगह्वरसंलीनो यथा गर्जति मारुतः ॥ 27 ॥

एवं जगर्ज बलवान् हनुमान्मारुतात्मजः ।
तमभ्रघनसंकाशमापतंतं महाकपिम् ॥ 28 ॥

दृष्ट्वा ते वानरास्सर्वे तस्थुः प्रांजलयस्तदा ।
ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ॥ 29 ॥

निपपात महेंद्रस्य शिखरे पादपाकुले ।
हर्षेणापूर्यमाणोऽसौ रम्ये पर्वतनिर्झरे ॥ 30 ॥

छिन्नपक्ष इवाऽकाशात्पपात धरणीधरः ।
ततस्ते प्रीतमनसस्सर्वे वानरपुंगवाः ॥ 31 ॥

हनुमंतं महात्मानं परिवार्योपतस्थिरे ।
परिवार्य च ते सर्वे परां प्रीतिमुपागताः ॥ 32 ॥

प्रहृष्टवदना स्सर्वे तमरोगमुपागतम् ।
उपायनानि चादाय मूलानि च फलानि च ॥ 33 ॥

प्रत्यर्चयन् हरिश्रेष्ठं हरयो मारुतात्मजम् ।
हनुमांस्तु गुरून् वृद्धांजांबवत्प्रमुखांस्तदा ॥ 34 ॥

कुमारमंगदं चैव सोऽवंदत महाकपिः ।
स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ॥ 35 ॥

दृष्टा सीतेति विक्रांत स्संक्षेपेण न्यवेदयत् ।
निषसाद च हस्तेन गृहीत्वा वालिनस्सुतम् ॥ 36 ॥

रमणीये वनोद्देशे महेंद्रस्य गिरेस्तदा ।
हनुमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् ॥ 37 ॥

अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ।
रक्षमाणा सुघोराभी राक्षसीभिरनिंदिता ॥ 38 ॥

एकवेणीधरा बाला रामदर्शनलालसा ।
उपवासपरिश्रांता जटिला मलिना कृशा ॥ 39 ॥

ततो दृष्टेति वचनं महार्थममृतोपमम् ।
निशम्य मारुतेस्सर्वे मुदिता वानराभवन् ॥ 40 ॥

क्ष्वेलंत्यन्ये नदंत्यन्ये गर्जंत्यन्ये महाबलाः ।
चक्रुः किलकिलामन्ये प्रतिगर्जंति चापरे ॥ 41 ॥

केचिदुच्छ्रितलांगूलाः प्रहृष्टाः कपिकुंजराः ।
आयतांचितदीर्घाणि लांगूलानि प्रविव्यधुः ॥ 42 ॥

अपरे च हनूमंतं वानरा वारणोपमम् ।
आप्लुत्य गिरिशृंगेभ्यस्संस्पृशंति स्म हर्षिताः ॥ 43 ॥

उक्तवाक्यं हनूमंतमंगदस्तमथाब्रवीत् ।
सर्वेषां हरिवीराणां मध्ये वचनमुत्तमम् ॥ 44 ॥

सत्त्वे वीर्ये न ते कश्चित्समो वानर विद्यते ।
यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ 45 ॥

अहो स्वामिनि ते भक्तिरहो वीर्यमहो धृतिः ।
दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ॥ 46 ॥

दिष्ट्या त्यक्ष्यति काकुत्स्थ श्शोकं सीतावियोगजम् ।
ततोऽंगदं हनूमंतं जांबवंतं च वानराः ॥ 47 ॥

परिवार्य प्रमुदिता भेजिरे विपुलाश्शिलाः ।
श्रोतुकामास्समुद्रस्य लंघनं वानरोत्तमाः ॥ 48 ॥

दर्शनं चापि लंकायास्सीताया रावणस्य च ।
तस्थुः प्रांजलयस्सर्वे हनुमद्वचनोन्मुखाः ॥ 49 ॥

तस्थौ तत्रांगदः श्रीमान् वानरैर्बहुभिर्वृतः ।
उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ 50 ॥

हनूमता कीर्तिमता यशस्विना तथांगदेनांगदबद्धबाहुना ।
मुदा तदाऽध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ॥ 51 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे सप्तपंचाशस्सर्गः ॥




Browse Related Categories: