View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.58 सुंदरकांड - अष्टपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टपंचाशस्सर्गः ।

ततस्तस्य गिरेः शृंगे महेंद्रस्य महाबलाः ।
हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ 1 ॥

तं ततः प्रीतिसंहृष्टः प्रीतिमंतं महाकपिम् ।
जांबवान्कार्यवृत्तांतमपृच्छदनिलात्मजम् ॥ 2 ॥

कथं दृष्टा त्वया देवी कथं वा तत्र वर्तते ।
तस्यां वा स कथंवृत्तः क्रूरकर्मा दशाननः ॥ 3 ॥

तत्त्वतस्सर्वमेतन्नः प्रब्रूहि त्वं महाकपे ।
श्रुतार्थाश्चिंतयिष्यामो भूयः कार्यविनिश्चयम् ॥ 4 ॥

यश्चार्थस्तत्त्र वक्तव्यो गतैरस्माभिरात्मवान् ।
रक्षितव्यं च यत्तत्र तद्भवान्व्याकरोतु नः ॥ 5 ॥

स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।
प्रणम्य शिरसा देव्यै सीतायै प्रत्यभाषत ॥ 6 ॥

प्रत्यक्षमेव भवतां महेंद्राग्रात्खामाप्लुतः ।
उदधेर्दक्षिणं पारं कांक्षमाण स्समाहितः ॥ 7 ॥

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।
कांचनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ 8 ॥

स्थितं पंधानमावृत्य मेने विघ्नं च तं नगम् ।
उपसंगम्य तं दिव्यं कांचनं नगसत्तमम् ॥ 9 ॥

कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ।
प्रहतं च मया तस्य लांगूलेन महागिरेः ॥ 10 ॥

शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ।
व्यवसायं च तं बुद्ध्वा स होवाच महागिरिः ॥ 11 ॥

पुत्त्रेति मधुरां वाणीं मनः प्रह्लादयन्निव ।
पितृव्यं चापि मां विद्धि सखायं मातरिश्वनः ॥ 12 ॥

मैनाकमिति विख्यातं निवसंतं महोदधौ ।
पक्षवंतः पुरा पुत्त्र बभूवुः पर्वतोत्तमाः ॥ 13 ॥

छंदतः पृथिवीं चेरुर्बाधमानाः समंततः ।
श्रुत्वा नगानां चरितं महेंद्रः पाकशासनः ॥ 14 ॥

चिच्छेद भगवान् पक्षान्वज्रेणैषां सहस्रशः ।
अहं तु मोक्षितस्तस्मात्तव पित्रा महात्मना ॥ 15 ॥

मारुतेन तदा वत्स प्रक्षिप्तोऽस्मि महार्णवे ।
रामस्य च मया साह्ये वर्तितव्यमरिंदम ॥ 16 ॥

रामो धर्मभृतां श्रेष्ठो महेंद्रसमविक्रमः ।
एतच्छ्रुत्वा वचस्तस्य मैनाकस्य महात्मनः ॥ 17 ॥

कार्यमावेद्य तु गिरेरुद्यतं च मनो मम ।
तेन चाहमनुज्ञातो मैनाकेन महात्मना ॥ 18 ॥

स चाप्यंतर्हितः शैलो मानुषेण वपुष्मता ।
शरीरेण महाशैलः शैलेन च महोदधौ ॥ 19 ॥

उत्तमं जवमास्थाय शेषं पंथानमास्थितः ।
ततोऽहं सुचिरं कालं वेगेनाभ्यागमं पथि ॥ 20 ॥

ततः पश्याम्यहं देवीं सुरसां नागमातरम् ।
समुद्रमध्ये सा देवी वचनं मामभाषत ॥ 21 ॥

मम भक्षः प्रदिष्टस्त्वममरैर्हरिसत्तम ।
अतस्त्वां भक्षयिष्यामि विहितस्त्वं चिरस्य मे ॥ 22 ॥

एवमुक्त स्सुरसया प्रांजलिः प्रणतः स्थितः ।
विवर्णवदनो भूत्वा वाक्यं चेदमुदीरयम् ॥ 23 ॥

रामो दाशरथिः श्रीमान् प्रविष्टो दंडकावनम् ।
लक्ष्मणेन सह भ्रात्रा सीतया च परंतपः ॥ 24 ॥

तस्य सीता हृता भार्या रावणेन दुरात्मना ।
तस्या स्संकाशं दूतोऽहं गमिष्ये रामशासनात् ॥ 25 ॥

कर्तुमर्हसि रामस्य साहाय्यं विषये सती ।
अथवा मैथिलीं दृष्ट्वा रामं चाक्लिष्टकारिणम् ॥ 26 ॥

आगमिष्यामि ते वक्त्रं सत्यं प्रतिशृणोमि ते ।
एवमुक्ता मया सा तु सुरसा कामरूपिणी ॥ 27 ॥

अब्रवीन्नातिवर्तेत कश्चिदेष वरो मम ।
एवमुक्तस्सुरसया दशयोजनमायतः ॥ 28 ॥

ततोर्थगुणविस्तारो बभूवाहं क्षणेन तु ।
मत्प्रमाणानुरूपं च व्यादितं च मुखं तया ॥ 29 ॥

तद्दृष्ट्वा व्यादितं चास्यं ह्रस्वं ह्यकरवं वपुः ।
तस्मिन्मुहूर्ते च पुनर्बभूवांगुष्ठमात्रकः ॥ 30 ॥

अभिपत्याशु तद्वक्त्रं निर्गतोऽहं ततः क्षणात् ।
अब्रवीत्सुरसा देवी स्वेन रूपेण मां पुनः ॥ 31 ॥

अर्थसिद्ध्यै हरिश्रेष्ठ गच्छ सौम्य यथासुखम् ।
समानय च वैदेहीं राघवेण महात्मना ॥ 32 ॥

सुखी भव महाबाहो प्रीताऽस्मि तव वानर ।
ततोऽहं साधु साध्विति सर्वभूतैः प्रशंसितः ॥ 33 ॥

ततोऽंतरिक्षं विपुलं प्लुतोऽहं गरुडो यथा ।
छाया मे निगृहीता च न च पश्यामि किंचन ॥ 34 ॥

सोऽहं विहतवेगस्तु दिशो दश विलोकयन् ।
न किंचित्तत्र पश्यामि येन मेऽपहृता गतिः ॥ 35 ॥

ततो मे बुद्धिरुत्पन्ना किन्नाम गगने मम ।
ईदृशो विघ्न उत्पन्नो रूपं यत्र न दृश्यते ॥ 36 ॥

अधोभागेन मे दृष्टि श्शोचता पातिता मया ।
ततोऽद्राक्षमहं भीमां राक्षसीं सलिलेशयाम् ॥ 37 ॥

प्रहस्य च महानादमुक्तोऽहं भीमया तया ।
अवस्थितमसंभ्रांतमिदं वाक्यमशोभनम् ॥ 38 ॥

क्वासि गंता महाकाय क्षुधिताया ममेप्सितः ।
भक्षः प्रीणय मे देहं चिरमाहारवर्जितम् ॥ 39 ॥

बाढमित्येव तां वाणीं प्रत्यगृह्णामहं ततः ।
अस्यप्रमाणादधिकं तस्याः कायमपूरयम् ॥ 40 ॥

तस्याश्चास्यं महद्भीमं वर्धते मम भक्षणे ।
न च मां साधु बुबुधे मम वा विकृतं कृतम् ॥ 41 ॥

ततोऽहं विपुलं रूपं संक्षिप्य निमिषांतरात् ।
तस्या हृदयमादाय प्रपतामि नभःस्थलम् ॥ 42 ॥

सा विसृष्टभुजा भीमा पपात लवणांभसि ।
मया पर्वतसंकाशा निकृत्तहृदया सती ॥ 43 ॥

शृणोमि खगतानां च सिद्धानां चारणैस्सह ।
राक्षसी सिंहिका भीमा क्षिप्रं हनुमता हता ॥ 44 ॥

तां हत्वा पुनरेवाहं कृत्यमात्ययिकं स्मरन् ।
गत्वा चाह महध्वानं पश्यामि नगमंडितम् ॥ 45 ॥

दक्षिणं तीरमुदधेर्लंका यत्र च सा पुरी ।
अस्तं दिनकरे याते रक्षसां निलयं पुरम् ॥ 46 ॥

प्रविष्टोऽहमविज्ञातो रक्षोभिर्भीमविक्रमैः ।
तत्र प्रविशतश्चापि कल्पांतघनसन्निभा ॥ 47 ॥

अट्टहासं विमुंचंती नारी काप्युत्थिता पुरः ।
जिघांसंतीं ततस्तां तु ज्वलदग्निशिरोरुहाम् ॥ 48 ॥

सव्यमुष्टिप्रहारेण पराजित्य सुभैरवाम् ।
प्रदोषकाले प्रविशं भीतयाऽहं तयोदितः ॥ 49 ॥

अहं लंकापुरी वीर निर्जिता विक्रमेण ते ।
यस्मात्तस्माद्विजेतासि सर्वरक्षांस्यशेषतः ॥ 50 ॥

तत्राहं सर्वरात्रं तु विचिन्वन् जनकात्मजाम् ।
रावणांतःपुरगतो न चापश्यं सुमध्यमाम् ॥ 51 ॥

तत स्सीतामपश्यंस्तु रावणस्य निवेशने ।
शोकसागरमासाद्य न पारमुपलक्षये ॥ 52 ॥

शोचता च मया दृष्टं प्राकारेण समावृतम् ।
कांचनेन विकृष्टेन गृहोपवनमुत्तमम् ॥ 53 ॥

स प्राकारमवप्लुत्य पश्यामि बहुपादपम् ।
अशोकवनिकामध्ये शिंशुपापादपो महान् ॥ 54 ॥

तमारुह्य च पश्यामि कांचनं कदलीवनम् ।
अदूरे शिंशुपावृक्षात्पश्यामि वरवर्णिनीम् ॥ 55 ॥

श्यामां कमलपत्राक्षीमुपवासकृशाननाम् ।
तदेकवासस्संवीतां रजोध्वस्तशिरोरुहाम् ॥ 56 ॥

शोकसंतापदीनांगीं सीतां भर्तृहिते स्थिताम् ।
राक्षसीभिर्विरूपाभिः क्रूराभिरभिसंवृताम् ॥ 57 ॥

मांसशोणितभक्षाभिर्व्याघ्रीभिर्हरिणीमिव ।
सा मया राक्षसीमध्ये तर्ज्यमाना मुहुर्मुहुः ॥ 58 ॥

एकवेणीधरा दीना भर्तृचिंतापरायणा ।
भूमिशय्या विवर्णांगी पद्मिनीव हिमागमे ॥ 59 ॥

रावणाद्विनिवृत्तार्था मर्तव्यकृतनिश्चया ।
कथंचिन्मृगशाबाक्षी तूर्णमासादिता मया ॥ 60 ॥

तां दृष्ट्वा तादृशीं नारीं रामपत्नीं यशस्विनीम् ।
तत्रैव शिंशुपावृक्षे पश्यन्नहमवस्थितः ॥ 61 ॥

ततो हलहलाशब्दं कांचीनूपुरमिश्रितम् ।
शृणोम्यधिकगंभीरं रावणस्य निवेशने ॥ 62 ॥

ततोऽहं परमोद्विग्नः स्वं रूपं प्रत्यसंहरम् ।
अहं तु शिंशुपावृक्षे पक्षीव गहने स्थितः ॥ 63 ॥

ततो रावणदाराश्च रावणश्च महाबलः ।
तं देशं समनुप्राप्ता यत्र सीताऽभवत् स्थिता ॥ 64 ॥

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।
संकुच्योरूस्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ 65 ॥

वित्रस्तां परमोद्विग्नां वीक्षमाणां ततस्ततः ।
त्राणं किंचिदपश्यंतीं वेपमानां तपस्विनीम् ॥ 66 ॥

तामुवाच दशग्रीवस्सीतां परमदुःखिताम् ।
अवाक्चिराः प्रपतितो बहुमन्यस्व मामिति ॥ 67 ॥

यदि चेत्त्वं तु दर्पान्मां नाभिनंदसि गर्विते ।
द्वौ मासावंतरं सीते पास्यामि रुधिरं तव ॥ 68 ॥

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।
उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ 69 ॥

राक्षसाधम रामस्य भार्याममिततेजसः ।
इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ॥ 70 ॥

अवाच्यं वदतो जिह्वा कथं न पतिता तव ।
किंचिद्वीर्यं तवानार्य यो मां भर्तुरसन्निधौ ॥ 71 ॥

अपहृत्याऽऽगतः पाप ते नादृष्टो महात्मना ।
न त्वं रामस्य सदृशो दास्येऽप्यस्य न युज्यसे ॥ 72 ॥

यज्ञीय स्सत्यवादी च रणश्लाघी च राघवः ।
जानक्या परुषं वाक्यमेवमुक्तो दशाननः ॥ 73 ॥

जज्वाल सहसा कोपाच्चितास्थ इव पावकः ।
विवृत्य नयने क्रूरे मुष्टिमुद्यम्य दक्षिणम् ॥ 74 ॥

मैथिलीं हंतुमारब्धः स्त्रीभिर्हाहाकृतं तदा ।
स्त्रीणां मध्यात्समुत्पत्य तस्य भार्या दुरात्मनः ॥ 75 ॥

वरा मंदोदरी नाम तया स प्रतिषेधितः ।
उक्तश्च मधुरां वाणीं तया स मदनार्दितः ॥ 76 ॥

सीतया तव किं कार्यं महेंद्रसमविक्रमः ।
देवगंधर्वकन्याभिर्यक्षकन्याभिरेव च ॥ 77 ॥

सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ।
ततस्ताभिस्समेताभिर्नारीभिस्स महाबलः ॥ 78 ॥

प्रसाद्य सहसा नीतो भवनं स्वं निशाचरः ।
याते तस्मिन् दशग्रीवे राक्षस्यो विकृताननाः ॥ 79 ॥

सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैस्सुदारुणैः ।
तृणवद्भाषितं तासां गणयामास जानकी ॥ 80 ॥

गर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ।
वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ॥ 81 ॥

रावणाय शशंसुस्ताः सीताध्यवसितं महत् ।
ततस्तास्सहितास्सर्वा निहताशा निरुद्यमाः ॥ 82 ॥

परिक्षिप्य समंतात्तां निद्रावशमुपागताः ।
तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ॥ 83 ॥

विलप्य करुणं दीना प्रशुशोच सुदुःखिता ।
तासां मध्यात्समुत्थाय त्रिजटा वाक्यमब्रवीत् ॥ 84 ॥

आत्मानं खादत क्षिप्रं न सीता विनशिष्यति ।
जनकस्यात्मजा साध्वी स्नुषा दशरथस्य च ॥ 85 ॥

स्वप्नो ह्यद्य मया दृष्टो दारुणो रोमहर्षणः ।
रक्षसां च विनाशाय भर्तुरस्या जयाय च ॥ 86 ॥

अलमस्मात्परित्रातुं राघवाद्राक्षसीगणम् ।
अभियाचाम वैदेहीमेतद्धि मम रोचते ॥ 87 ॥

यस्या ह्येवंविधस्स्वप्नो दुःखितायाः प्रदृश्यते ।
सा दुःखैर्विविधैर्मुक्ता सुखमाप्नोत्यनुत्तमम् ॥ 88 ॥

प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा ।
ततस्सा ह्रीमती बाला भर्तुर्विजयहर्षिता ॥ 89 ॥

अवोचद्यदि तत्तथ्यं भवेयं शरणं हि वः ।
तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।
चिंतयामास विक्रांतो न च मे निर्वृतं मनः ॥ 90 ॥

संभाषणार्थं च मया जानक्याश्चिंतितो विधिः ॥ 91 ॥

इक्ष्वाकूणां हि वंशस्तु ततो मम पुरस्कृतः ।
श्रुत्वा तु गदितां वाचं राजर्षिगणपूजिताम् ॥ 92 ॥

प्रत्यभाषत मां देवी बाष्पैः पिहितलोचना ।
कस्त्वं केन कथं चेह प्राप्तो वानरपुंगवः ॥ 93 ॥

का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ।
तस्यास्तद्वचनं श्रुत्वा ह्यहमप्यब्रुवं वचः ॥ 94 ॥

देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।
सुग्रीवो नाम विक्रांतो वानरेंद्रो महाबलः ॥ 95 ॥

तस्य मां विद्धि भृत्यं त्वं हनुमंतमिहागतम् ।
भर्त्राहं प्रेषितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ 96 ॥

इदं च पुरुषव्याघ्रः श्रीमान् दाशरथिः स्वयम् ।
अंगुलीयमभिज्ञानमदात्तुभ्यं यशस्विनि ॥ 97 ॥

तदिच्छामि त्वयाऽऽज्ञप्तं देवि किं करवाण्यहम् ।
रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ 98 ॥

एतच्छ्रुत्वा विदित्वा च सीता जनकनंदिनी ।
आहरावणमुत्साद्य राघवो मां नयत्विति ॥ 99 ॥

प्रणम्य शिरसा देवीं महमार्यामनिंदिताम् ।
राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ 100 ॥

अथ मामब्रवीत्सीता गृह्यतामयमुत्तमः ।
मणिर्येन महाबाहू रामस्त्वां बहुमन्यते ॥ 101 ॥

इत्युक्त्वा तु वरारोहा मणिप्रवरमद्भुतम् ।
प्रायच्छत्परमोद्विग्ना वाचा मां संदिदेशह ॥ 102 ॥

ततस्तस्यै प्रणम्याहं राजपुत्र्यै समाहितः ।
प्रदक्षिणं परिक्राममिहाभ्युद्गतमानसः ॥ 103 ॥

उक्तोऽहं पुनरेवेदं निश्चित्य मनसा तया ।
हनुमन्मम वृत्तांतं वक्तुमर्हसि राघवे ॥ 104 ॥

यथा श्रुत्वैव न चिरात्तावुभौ रामलक्ष्मणौ ।
सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ 105 ॥

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।
न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ 106 ॥

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।
उत्तरं च मया दृष्टं कार्यशेषमनंतरम् ॥ 107 ॥

ततोऽवर्धत मे कायस्तदा पर्वतसन्निभः ।
युद्धकांक्षी वनं तच्च विनाशयितुमारभे ॥ 108 ॥

तद्भग्नं वनषंडं तु भ्रांतत्रस्तमृगद्विजम् ।
प्रतिबुद्धा निरीक्षंते राक्षस्यो विकृताननाः ॥ 109 ॥

मां च दृष्ट्वा वने तस्मिन् समागम्य ततस्ततः ।
ता स्समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ 110 ॥

राजस्वनमिदं दुर्गं तव भग्नं दुरात्मना ।
वानरेण ह्यविज्ञाय तव वीर्यं महाबल ॥ 111 ॥

दुर्बुद्धेस्तस्य राजेंद्र तव विप्रियकारिणः ।
वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥ 112 ॥

तच्छ्रुत्वा राक्षसेंद्रेण विसृष्टा भृशदुर्जयाः ।
राक्षसाः किंकरा नाम रावणस्य मनोनुगाः ॥ 113 ॥

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।
मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥ 114 ॥

तेषां तु हतशेषा ये ते गत्वा लघुविक्रमाः ।
निहतं च महत्सैन्यं रावणायाचचक्षिरे ॥ 115 ॥

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ।
तत्रस्थान्राक्षसान् हत्वा शतं स्तंभेन वै पुनः ॥ 116 ॥

ललामभूतो लंकायास्स वै विध्वंसितो मया ।
ततः प्रहस्तस्य सुतं जंबुमालिनमादिशत् ॥ 117 ॥

राक्षसैर्बहुभिस्सार्धं घोररूपैर्भयानकैः ।
तं महाबलसंपन्नं राक्षसं रणकोविदम् ॥ 118 ॥

परिघेणातिघोरेण सूदयामि सहानुगम् ।
तच्छ्रुत्वा राक्षसेंद्रस्तु मंत्रिपुत्त्रान्महाबलान् ॥ 119 ॥

पदातिबलसंपन्नान् प्रेषयामास रावणः ।
परिघेणैव तान् सर्वान्नयामि यमसादनम् ॥ 120 ॥

मंत्रिपुत्त्रान्हतान्च्छृत्वा समरेऽलघुविक्रमान् ।
पंच सेनाग्रगाच्छ्रूरान्प्रेषयामास रावणः ॥ 121 ॥

तानहं सहसैन्यान्वै सर्वानेवाभ्यसूदयम् ।
ततः पुनर्दशग्रीवः पुत्रमक्षं महाबलम् ॥ 122 ॥

बहुभी राक्षसैस्सार्धं प्रेषयामास रावणः ।
तं तु मंदोदरीपुत्त्रं कुमारं रणपंडितम् ॥ 123 ॥

सहसा खं समुत्क्रांतं पादयोश्च गृहीतवान् ।
चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ 124 ॥

तमक्षमागतं भग्नं निशम्य स दशाननः ।
तत इंद्रजितं नाम द्वितीयं रावणस्सुतम् ॥ 125 ॥

व्यादिदेश सुसंकृद्धो बलिनं युद्धदुर्मदम् ।
तच्चाप्यहं बलं सर्वं तं च राक्षसपुंगवम् ॥ 126 ॥

नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ।
महतापि महाबाहुः प्रत्ययेन महाबलः ॥ 127 ॥

प्रेषितो रावणेनैव सह वीरैर्मदोत्कटैः ।
सोऽविषह्यं हि मां बुद्ध्वा स्वं बलं चावमर्दितम् ॥ 128 ॥

ब्राह्मणास्त्रेण स तु मां प्राबध्नाच्छातिवेगितः ।
रज्जुभिश्चाभिबध्नंति ततो मां तत्र राक्षसाः ॥ 129 ॥

रावणस्य समीपं च गृहीत्वा मामुपानयन् ।
दृष्ट्वा संभाषितश्चाहं रावणेन दुरात्मना ॥ 130 ॥

पृष्टश्च लंकागमनं राक्षसानां च तं वधम् ।
तत्सर्वं च मया तत्र सीतार्थमिति जल्पितम् ॥ 131 ॥

अस्याहं दर्शनाकांक्षी प्राप्तस्त्वद्भवनं विभो ।
मारुतस्यौरसः पुत्रो वानरो हनुमानहम् ॥ 132 ॥

रामदूतं च मां विद्धि सुग्रीवसचिवं कपिम् ।
सोऽहं दूत्येन रामस्य त्वत्सकाशमिहागतः ॥ 133 ॥

सुग्रीवश्च महातेजास्सत्वां कुशलमब्रवीत् ।
धर्मार्थकामसहितं हितं पथ्यमुवाच च ॥ 134 ॥

वसतो ऋश्यमूके मे पर्वते विपुलद्रुमे ।
राघवो रणविक्रांतो मित्त्रत्वं समुपागतः ॥ 135 ॥

तेन मे कथितं राज्ञा भार्या मे रक्षसा हृता ।
तत्र साहाय्यमस्माकं कार्यं सर्वात्मना त्वया ॥ 136 ॥

मया च कथितं तस्मै वालिनश्च वधं प्रति ।
तत्र साहाय्यहेतोर्मे समयं कर्तुमर्हसि ॥ 137 ॥

वालिना हृतराज्येन सुग्रीवेण महाप्रभुः ।
चक्रेऽग्निसाक्षिकं सख्यं राघवस्सह लक्ष्मणः ॥ 138 ॥

तेन वालिनमुत्पाट्य शरेणैकेन संयुगे ।
वानराणां महाराजः कृतस्स प्लवतां प्रभुः ॥ 139 ॥

तस्य साहाय्यमस्माभिः कार्यं सर्वात्मना त्विह ।
तेन प्रस्थापितस्तुभ्यं समीपमिह धर्मतः ॥ 140 ॥

क्षिप्रमानीयतां सीता दीयतां राघवाय च ।
यावन्न हरयो वीरा विधमंति बलं तव ॥ 141 ॥

वानराणां प्रभावो हि न केन विदितः पुरा ।
देवतानां संकाशं च ये गच्छंति निमंत्रिताः ॥ 142 ॥

इति वानरराजस्त्वामाहेत्यभिहितो मया ।
मामैक्षत ततः क्रुद्धश्चक्षुषा प्रदहन्निव ॥ 143 ॥

तेन वध्योऽहमाज्ञप्तो रक्षसा रौद्रकर्मणा ।
मत्प्रभावमविज्ञाय रावणेन दुरात्मना ॥ 144 ॥

ततो विभीषणो नाम तस्य भ्राता महामतिः ।
तेन राक्षसराजोऽसौ याचितो मम कारणात् ॥ 145 ॥

नैवं राक्षसशार्दूल त्यज्यतामेष निश्चयः ।
राजशास्त्रव्यपेतो हि मार्गः संसेव्यते त्वया ॥ 146 ॥

दूतवध्या न दृष्टा हि राजशास्त्रेषु राक्षस ।
दूतेन वेदितव्यं च यथार्थं हितवादिना ॥ 147 ॥

सुमहत्यपराधेऽपि दूतस्यातुलविक्रमः ।
विरूपकरणं दृष्टं न वधोऽस्तीति शास्त्रतः ॥ 148 ॥

विभीषणेनैवमुक्तो रावणस्संदिदेश तान् ।
राक्षसानेतदेवास्य लांगूलं दह्यतामिति ॥ 149 ॥

ततस्तस्य वचः श्रुत्वा मम पुच्छं समंततः ।
वेष्टितं शणवल्कैश्च जीर्णैः कार्पासजैः पटैः ॥ 150 ॥

राक्षसाः सिद्धसन्नाहास्ततस्ते चंडविक्रमाः ।
तदाऽदह्यंत मे पुच्छं निघ्नंतः काष्ठमुष्टिभिः ॥ 151 ॥

बद्धस्य बहुभिः पाशैर्यंत्रितस्य च राक्षसैः ।
ततस्ते राक्षसाश्शूरा बद्धं मामग्निसंवृतम् ॥ 152 ॥

अघोषयन्राजमार्गे नगरद्वारमागताः ।
ततोऽहं सुमहद्रूपं संक्षिप्य पुनरात्मनः ॥ 153 ॥

विमोचयित्वा तं बंधं प्रकृतिस्थः स्थितः पुनः ।
आयसं परिघं गृह्य तानि रक्षांस्यसूदयम् ॥ 154 ॥

ततस्तन्नगरद्वारं वेगेनाप्लुतवानहम् ।
पुच्छेन च प्रदीप्तेन तां पुरीं साट्टगोपुराम् ॥ 155 ॥

दहाम्यहमसंभ्रांतो युगांताग्निरिव प्रजाः ।
विनष्टा जानकी व्यक्तं न ह्यदग्धः प्रदृश्यते ॥ 156 ॥

लंकायां कश्चिदुद्धेशः सर्वा भस्मीकृता पुरी ।
दहता च मया लंकां दग्धा सीता न संशयः ॥ 157 ॥

रामस्य हि महत्कार्यं मयेदं वितथीकृतम् ।
इति शोकसमाविष्टश्चिंतामहमुपागतः ॥ 158 ॥

अथाहं वाचमश्रौषं चारणानां शुभाक्षराम् ।
जानकी न च दग्धेति विस्मयोदंतभाषिणाम् ॥ 159 ॥

ततो मे बुद्धिरुत्पन्ना श्रुत्वा तामद्भुतां गिरम् ।
अदग्धा जानकीत्येवं निमित्तैश्चोपलक्षिता ॥ 160 ॥

दीप्यमाने तु लांगूले न मां दहति पावकः ।
हृदयं च प्रहृष्टं मे वातास्सुरभिगंधिनः ॥ 161 ॥

तैर्निमित्तैश्च दृष्टाथैः कारणैश्च महागुणैः ।
ऋषिवाक्यैश्च सिद्धार्थैरभवं हृष्टमानसः ॥ 162 ॥

पुनर्दृष्ट्वा च वैदेहीं विसृष्टश्च तया पुनः ।
ततः पर्वतमासाद्य तत्रारिष्टमहं पुनः ॥ 163 ॥

प्रतिप्लवनमारेभे युष्मद्धर्शनकांक्षया ।
ततः पवनचंद्रार्कसिद्धगंधर्वसेवितम् ॥ 164 ॥

पंथानमहमाक्रम्य भवतो दृष्टवानिह ।
राघवस्य प्रभावेण भवतां चैव तेजसा ॥ 165 ॥

सुग्रीवस्य च कार्यार्थं मया सर्वमनुष्ठितम् ।
एतत्सर्वं मया तत्र यथावदुपपादितम् ॥ 166 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टपंचाशस्सर्गः ॥




Browse Related Categories: