View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.1 युद्धकांड - प्रथम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ प्रथमस्सर्गः ।

श्रुत्वा हनुमतो वाक्यं यथावदभिभाषितम् ।
रामः प्रीतिसमायुक्तो वाक्यमुत्तरमब्रवीत् ॥ 1 ॥

कृतं हनुमता कार्यं सुमहद्भुवि दुर्लभम् ।
मनसापि यदन्येन न शक्यं धरणीतले ॥ 2 ॥

न हि तं परिपश्यामि यस्तरेत महार्णवम् ।
अन्यत्र गरुडाद्वायोरन्यत्र च हनूमतः ॥ 3 ॥

देवदानवयक्षाणां गंधर्वोरगरक्षसाम् ।
अप्रधृष्यां पुरीं लंकां रावणेन सुरक्षिताम् ।
प्रवष्ट स्सत्त्वमाश्रित्यश्वसन्को नाम निष्क्रमेत् ॥ 4 ॥

को विशेत्सुदुराधर्षां राक्षसैश्च सुरक्षिताम् ।
यो वीर्यबलसंपन्नो न समस्याद्धनूमतः ॥ 5 ॥

भृत्यकार्यं हनुमता सुग्रीवस्य कृतंमहत् ।
स्वयं विधाय स्वबलं सदृशं विक्रमस्य च ॥ 6 ॥

यो हि भृत्यो नियुक्तस्सन्भर्त्रा कर्मणि दुष्करे ।
कुर्यात्तदनुरागेण तमाहुः पुरुषोत्तमम् ॥ 7 ॥

नियुक्तोयः परं कार्यं न कुर्यान्नृपतेः प्रियम् ।
भृत्योऽभृत्यस्समर्थोऽपि तमाहुर्मध्यमं नरम् ॥ 8 ॥

नियुक्तो नृपतेः कार्यं न कुर्याद्यस्समाहितः ।
भृत्यो युक्तस्समर्थश्च तमाहुः पुरुषाधमम् ॥ 9 ॥

तन्नियोगे नियुक्तेन कृतं कृत्यं हनूमता ।
न चात्मा लघुतां नीतस्सुग्रीवश्चापि तोषितः ॥ 10 ॥

अहं च रघुवंशश्च लक्ष्मणश्च महाबलः ।
वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः ॥ 11 ॥

इदं तु मम दीनस्य मनो भूयः प्रकर्षति ।
यदिहास्य प्रियाख्यातुर्न कुर्मि सदृशं प्रियम् ॥ 12 ॥

एष सर्वस्वभूते परिष्वंगो हनूमतः ।
मया कालमिमं प्राप्य दत्तस्तस्य महात्मनः ॥ 13 ॥

इत्युक्त्वा प्रीतिहृष्टांगो रामस्तं परिषस्वजे ।
हनूमंतं कृतात्मानं कृतकार्यमुपागतम् ॥ 14 ॥

ध्यात्वा पुनरुवाचेदं वचनं रघुनंदनः ।
हरीणामीश्वरस्यापि सुग्रीवस्योपशृण्वतः ॥ 15 ॥

सर्वथा सुकृतं तावत्सीतायाः परिमार्गणम् ।
सागरं तु समासाद्य पुनर्नष्टं मनो मम ॥ 16 ॥

कथं नाम समुद्रस्य दुष्पारस्य महांभसः ।
हरयो दक्षिणं पारं गमिष्यंति समागताः ॥ 17 ॥

यद्यप्येष तु वृत्तांतो वैदेह्या गदितो मम ।
समुद्रपारगमने हरीणां किमिहोत्तरम् ॥ 18 ॥

इत्युक्तवा शोकसंभ्रांतो राम श्शत्रुनिबर्हणः ।
हनूमंतं महाबाहुस्ततो ध्यानमुपागमत् ॥ 19 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे प्रथमस्सर्गः ॥




Browse Related Categories: