View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.114 युद्धकांड - चतुर्दशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्दशाधिकशततमस्सर्गः ।

तासांविलपमानानांतदाराक्षसयोषिताम् ।
ज्येष्ठापत्नीप्रियाजीनाभर्तारंसमुदैक्षत ॥ 1 ॥

दशग्रीवंहतंदृष्टवारामेणाचिंत्यकर्मणा ।
पतिंमंडोदरीतत्रकृपणापर्यदेवयत् ॥ 2 ॥

ननुनाममहाबाहोतववैश्रवणानुज ।
क्रुद्धस्यप्रमुखेस्थातुंत्रस्यत्यपिपुरंदरः ॥ 3 ॥

ऋषयश्चमहांतोऽपिगंधर्वाश्चयशस्विनः ।
ननुनामतवोद्वेगाच्चारणाश्चदिशोगताः ॥ 4 ॥

स त्वंमानुषमात्रेणरामेणयुधिनिर्जितः ।
न व्यपत्रपसेराजन् किमिदंराक्षसेश्वर ॥ 5 ॥

कथंत्रैलोक्यमाक्रम्यश्रियावीर्येणचान्वितम् ।
अविषह्यंजघानत्वांमानुषोवनगोचरः ॥ 6 ॥

मानुषाणामविषयेचरतःकामरूपिणः ।
विनाशस्तवरामेणसम्युगेनोपपद्यते ॥ 7 ॥

न चैतत्कर्मरामस्यश्रद्धधामिचमूमुखे ।
सर्वतस्समुपेतस्यतवतेनाभिमर्षणम् ॥ 8 ॥

यदैव च जनस्थानेराक्षसैर्भहुनिर्ववृतः ।
खरस्तवहतोभ्रातातदैवासौ न मानुषः ॥ 9 ॥

यदैवनगरींलंकांदुष्प्रवेशांसुरैरपि ।
प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ॥ 10 ॥

यदैववानरैर्घोरैर्बद्धस्सेतुर्महार्णवे ।
तदैवहृदयेनाहंशंकेरामममानुषम् ॥ 11 ॥

अथवारामरूपेणकृतांतस्स्वयमागतः ।
मायांतवविनाशायविधायाप्रतितर्किताम् ॥ 12 ॥

अथवावासवेनत्वंधर्षितोऽपिमहाबल ।
वासवस्यतुकाशक्तिस्त्वांद्रष्टुमपिसंयुगे ॥ 13 ॥

व्यक्तमेषमहायोगीपरमात्मासनातनः ।
अनादिमध्यनिधनोमहतंपरमोमहान् ॥ 14 ॥

तमसःपरमोधाताशंखचक्रगदाधरः ।
श्रीवत्सवक्षानित्यश्रीरजय्यश्शाश्वतोध्रुवः ॥ 15 ॥

मानुषंरूपमास्थायविष्णुस्सत्यपराक्रमः ।
सर्वैःपरिवृतोदेवैर्वानरत्वमुपागतैः ॥ 16 ॥

सर्वलोकेश्वर्श्रीमान्लोकानांहितकाम्यया ।
सराक्षसरपरीवारंहतवांस्त्वांमहाद्युतिः ॥ 17 ॥

इंद्रियाणिपुराजित्वाजितंत्रिभुवनंत्वया ।
स्मरद्भिरिवतद्वैरमिंद्रियैरेवनिर्जितः ॥ 18 ॥

यदैवहिजनस्थानेराक्षसैर्भहुभिर्वृतः ।
खरस्तुनिहतोभ्रातातदारामो न मानुषः ॥ 19 ॥

यदैवनगरींलंकांदुष्प्रवेशांसुरैरपि ।
प्रविष्टोहनुमान्वीर्यात्तदैवव्यथितावयम् ॥ 20 ॥

क्रियतामविरोधश्चराघवेणेतियन्मया ।
उच्यमानं न गृह्णासितस्येयंव्युष्टिरागता ॥ 21 ॥

अकस्माच्छाभिकामोऽसिसीतांराक्षसपुंगवः ।
ऐश्वर्यस्यविनाशायदेहस्यस्वजनस्य च ॥ 22 ॥

अरुंधत्याविशिष्टांतांरोहिण्याश्चापिदुर्मते ।
सीतांधर्षयतामान्यांत्वयाह्यसदृशंकृतम् ॥ 23 ॥

वसुधायाहिवसुधांश्रियःश्रींभर्तृवत्सलाम् ।
सीतांसर्वानवद्यांगीमरण्येविजनेशुभाम् ॥ 24 ॥

आनयित्वातुतांदीनांछद्मनात्मस्वदूषण ।
अप्राप्यतंचैवकामंमैथिलीसंगमेकृतम् ॥ 25 ॥

पतिव्रतायास्तपसानूनंदग्धोऽसिमेप्रभो ।
तदैवयन्नदग्धगद्धस्त्वंधर्षयंस्तनुममध्यमाम् ।
देवाभिभ्यतेतेसर्वेसेंद्राःसानाग्नीपुरोगमाः ॥ 26 ॥

अवश्यमेवलभतेफलंपापस्यकर्मणः ।
घोरंपर्यागतेकालेकर्तानास्त्यत्रसंशयः ॥ 27 ॥

न कुलेन न रूपेण न दाक्षिण्येनमैथिली ।
मयाधिकावातुल्यावातत्त्वंमोहान्नबुध्यसे ॥ 28 ॥

सर्वदासर्वभूतानांनास्तिमुत्युरलक्षणः ।
तवतावदयंमृत्युर्मैथिलीकृतलक्षणः ॥ 29 ॥

सीतानिमित्तजोमृत्युस्त्वयादूरादुपाहृतः ।
मैथिलीसहरामेणविशोकाविहरिष्यति ॥ 30 ॥

अल्पपुण्यात्वहंघोरेपतिताशोकसागरे ।
कैलासेमंदरेमेरौतथाचैत्ररथेवने ॥ 31 ॥

देवोद्यानेषुसर्वेषुविहृत्यसहितात्वया ।
विमानेनानुरूपेणयायाम्यतुलयाश्रिया ॥ 32 ॥

पश्यंतिविविधांदेशांस्तांस्तांश्चित्रस्रगंबरा ।
भ्रम्शिताकामभोगेभ्यःसास्मिवीरवधात्तव ॥ 33 ॥

सैवान्येवास्मिसम्वृत्ताधिग्राज्ञांचंचलाःश्रियः ।
हाराजन् सुकुमारंतेसुभ्रुसुत्वक्समुन्नसम् ॥ 34 ॥

कांतिश्रीद्युतिभिस्तुल्यमिंदुपद्मदिवाकरैः ।
किरीटकूटोज्ज्वलितंताम्रास्यंदीप्तकुंडलम् ॥ 35 ॥

मदव्याकुललोलाक्षंभूत्वायत्पानभूमिषु ।
विविधस्रग्धरंचारुवल्गुस्मितकथंशुभम् ॥ 36 ॥

तदेवाद्यतवैवंहिवक्त्रं न भ्राजतेप्रभो ।
रामसायकनिर्भिन्नंरक्तंरुधिरविस्रवैः ॥ 37 ॥

वीशीर्णमेदोमस्तिष्कंरूक्षस्यंदनरेणुभिः ।
हापश्चिमामेसंप्राप्तादशावैधव्यदायिनी ॥ 38 ॥

यामयासीन्नसुंबद्धाकदाचिदपिमंदया ।
पतादानवराजोमेभर्तामेराक्षसेश्वरः ॥ 39 ॥

पुत्रोमेशक्रनिर्जेताइत्यहंगर्विताभृशम् ।
दृप्तामर्दनाःशूराःप्रख्यातबलपौरुषाः ॥ 40 ॥

अकुतश्चिद्भयानाथाममेत्यासीन्मतिर्दृढा ।
तेषामेवंप्रभावाणांयुष्माकंराक्षसर्षभाः ॥ 41 ॥

कथंभयमसंबुद्धंमानुषादिदमागतम् ।
स्निग्धेंद्रनीलनीलंतुप्रांशुशैलोपमंमहत् ॥ 42 ॥

केयूरांगदवैडूर्यमुक्ताहारस्रगुज्ज्वलम् ।
कांतंविहारेष्वधिकंदीप्तांसंग्रामभूमिषु ॥ 43 ॥

भात्याभरणभाभिर्यद्विद्युद्भिरिवतोयदः ।
तदेवाद्यशरीरंतेतीक्ष्णैर्नैकशरैश्चितम् ॥ 44 ॥

पुनर्दुर्लभसंपर्शंपरिष्वक्तुं न शक्यते ।
श्वाविधःशलकैर्यद्वद्भाणैर्लग्नैर्निरंतरम् ॥ 45 ॥

स्वर्पितैर्मर्मसुभृशंसंछिन्नस्नायुबंधनम् ।
क्षितौनिपतितंराजन् श्यामंवैरुधिरच्छवि ॥ 46 ॥

वज्रप्रहाराभिहतोविकीर्णैवपर्वतः ।
हास्वप्नस्सत्यमेवेदंत्वंरामेणकथंहतः ॥ 47 ॥

त्वंमृत्योरपिमृत्युस्स्याःकथंमृत्युवशंगतः त्रैलोक्यवसुभोक्तारंत्रैलोक्योद्वेगदंमहत् ॥ 48 ॥

जेतारंलोकपालानांक्षेप्तारांशंकरस्य च ।
दृप्तानांनिग्रहीतारमाविष्कृतपराक्रमम् ॥ 49 ॥

लोकक्षोभयितारं च नादैर्भूतविराविणम् ।
ओजसादृप्तवाक्यानांवक्तारंरिपुसन्निधौ ॥ 50 ॥

स्वयूथभृत्यगोप्तारंहंतारंभीमकर्मणाम् ।
हंतारंदानवेंद्राणांयक्षाणां च सहस्रशः ॥ 51 ॥

निवातकवचानां च संग्रहीतारमाहवे ।
नैकयज्ञविलोप्तारंत्रातारंस्वजनस्य च ॥ 52 ॥

धर्मव्यवस्थाभेत्तारंमायास्रष्टारमाहवे ।
देवासुरनृकन्यानामाहर्तारंततस्ततः ॥ 53 ॥

शत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ।
लंकाद्वीपस्यगोप्तारंकर्तारंभीमकर्मणाम् ॥ 54 ॥

अस्माकंकामभोगानांदातारंरथिनांवरम् ।
एवंप्रभावंभर्तारंदृष्टवारामेणपातितम् ॥ 55 ॥

स्थिरास्मियादेहमिमंधारयामिहतप्रिया ।
शयनेषुमहार्हेषुशयित्वाराक्षसेश्वर ॥ 56 ॥

इहकर्मात्प्रसुप्तोऽसिधरण्यांरेणुगुंठितः ।
यदातेतनयश्शस्तोलक्ष्मणेनेंद्रजिद्युधि ॥ 57 ॥

तदात्वभिहतातीव्रमद्यत्वस्मिनिपातिता ।
साहंबंधुजनैर्हीनाहीनानाथेन च त्वया ॥ 58 ॥

विहीनाकामभोगैश्चशोचिष्येशाश्वतीस्समाः ।
प्रपन्नोदीर्घमध्वानंराजन्नद्यसुदुर्गमम् ॥ 59 ॥

नयमामपिदुःखार्तां न वर्तिष्येत्वयाविना ।
कस्मात्त्वंमांविहायेहकृपणांगंतुमिच्छसि ॥ 60 ॥

दीनांविलपतींमंदांकिंवामांनाभिभाषसे ।
दृष्टवा न खल्वभिक्रुद्धोमामिहानवकुंठिताम् ॥ 61 ॥

निर्गतांनगरद्वारात्पद्भ्यामेवागतांप्रभो ।
पश्येष्टदारदारांस्तेभ्रष्टलज्जावकुंठितान् ॥ 62 ॥

बहिर्निष्पतितान्सर्वान्कथंदृष्टवा न कुप्यसि ।
अयंक्रीडासहायस्तेऽनाथेलालप्यतेजनः ॥ 63 ॥

न चैवमाश्वासयसिकिंवा न बहुमन्यसे ।
याःस्त्वयाविधवाराजन्कृतानैकाःकुलस्त्रियः ॥ 64 ॥

पतिव्रताधर्मरतागुरुशुश्रूषणेरताः ।
ताभिश्शोकाभितप्ताभिश्शप्तःपरवशंगतः ॥ 65 ॥

त्वयाविप्रकृताभिर्यत्तदाशप्तंतदागतम् ।
प्रवादस्सत्यएवायंत्वांप्रतिप्रायशोनृप ॥ 66 ॥

प्रतिव्रतानांनाकस्मात्सपत्नत्यश्रूणिभूतले ।
कथं च नामतेराजन् लोकानाक्रम्यतेजसा ॥ 67 ॥

नारीचौर्यमिदंक्षुद्रंकृतंशौंडीर्यमानिना ।
अपनीयाश्रमाद्रामंयन्मृगच्छद्मनात्वया ॥ 68 ॥

आनीतारामपनतीसातत्तेकातर्यलक्षणम् ।
कातर्यं न च तेयुद्धेकदाचित्संस्मराम्यहम् ॥ 69 ॥

तत्तुभाग्यविपर्यासान्नूनंतेपक्वलक्षणम् ।
अतीतानागतार्थज्ञोवर्तमानविचक्षणः ॥ 70 ॥

मैथिलीमाहृतांदृष्टवाध्यात्वानिःश्वस्यचायतम् ।
सत्यवाक्यमहाबाहो देवरोमेयदब्रवीत् ॥ 71 ॥

अयंराक्षसमुख्यानांविनाशःपर्युपस्थितः ।
कामक्रोधसमुत्थेनव्यसनेनप्रसंगिना ॥ 72 ॥

निर्वृत्तस्त्वत्कृतेऽनर्थःसोऽयंमूलहरोमहान् ।
त्वयाकृतमिदंसर्वमनाधंराक्षसंकुलम् ॥ 73 ॥

हित्वंशोचितव्योमेप्रख्यातबलपौरुषः ।
स्त्रीस्वभावात्तुमेबुद्धिःकारुण्येपरिवर्तते ॥ 74 ॥

सुकृतंदुष्कृतं च त्वंगृहीत्वास्वांगतिंगतः ।
आत्मानमनुशोचामित्वद्विनाशेनदुःखिताम् ॥ 75 ॥

सुहृदांहितकामानां न श्रुतंवचनंत्वया ।
भ्रात्रूणांचैवकार्त्न्सनहितमुक्तंदशानन ॥ 76 ॥

हेत्वर्थयुक्तंविधिवच्छ्रेयस्करमदारुणम् ।
विभीषणेनाभिहितं न कृतंहेतुमत्त्वया ॥ 77 ॥

मारीचकुंभकर्णाभ्यांवाक्यंममपितुस्तथा ।
न श्रुतंवीर्यमत्तेनतस्येदंफलमीदृशम् ॥ 78 ॥

नीलजीमूतसंकाश पीतांबरशुभांगद ।
स्वगात्राणिविनिक्षिप्यकिंशेषेरुधिराप्लुतः ॥ 79 ॥

प्रसुप्तैवशोकार्तांकिंमां न प्रतिभाषसे ।
महावीर्यस्यदक्षस्यसम्युगेष्वपलायिनः ॥ 80 ॥

यातुधानस्यदौहित्रींकिंमां न प्रतिभाषसे ।
उत्तिष्ठोत्तिष्ठकिंशेषेनवेपरिभवेकृते ॥ 81 ॥

अद्यवैनिर्भयालंकांप्रविष्टांसूर्यरश्मयः ।
येनसूदयसेशत्रून् समरेसूर्यवर्चसा ॥ 82 ॥

वज्रंवज्रधरस्येवसोऽयंतेसततार्चितः ।
रणेबहुप्रहरणोहेमजापरिष्कृतः ॥ 83 ॥

परिघोव्यवकीर्णस्तेबाणैश्चिन्नैःसहस्रधा ।
अप्रियामिवोपसंगृह्यकिंशेषेरणमेदिनीम् ॥ 84 ॥

अप्रियामिवकस्माच्छमांनेच्छस्यभिभाषितुम् ।
धिगस्तुहृदयंयस्याममेदं न सहस्रधा ॥ 85 ॥

त्वयिपंचत्वमापन्नेफलतेशोकपीडितम् ।
इत्येवंविलपंतिसाबाष्पपर्याकुलेक्षणा ॥ 86 ॥

स्नेहोपस्कन्नहृदया तदा मोहामुपागमत् ।
कश्मलाभिहतासन्नाबभौसारावणोरसि ॥ 87 ॥

स्नध्यानुरक्तेजलदेदीप्ताविद्युदिवोज्ज्वला ।
तथागतंसमुत्थाप्यसपत्नयस्तांभृशातुराः ॥ 88 ॥

पर्यवस्थापयामासूरुदंत्योरुदतींभृशम् ।
न तेसुविदितादेविलोकानांस्थितिरध्रुवा ॥ 89 ॥

दशाविभागपर्यायेराज्ञांवैचंचलाःश्रियः ।
इत्येवमुच्यमानासासशब्दंप्ररुरोद ह ॥ 90 ॥

स्नापयंतीतदास्रेणस्तनौवक्रंसुनिर्मलम् ।
एतस्मिन्नंतरेरामोविभीषणमुवाच ह ॥ 91 ॥

संस्कारःक्रियतांभ्रातुःस्त्रीगणःपरिसांत्व्यताम् ।
तमुवाचततोधीमान् विभीषणैदंवचः ॥ 92 ॥

विमृश्यबुद्ध्याधर्मज्ञोधर्मार्थसहितंहितम् ।
त्यक्तधर्मव्रतंशूरंनृशंसमनृतंतथा ॥ 93 ॥

नाहमर्होऽस्मिसंस्कर्तुंपरदाराभिमर्शिनम् ।
भ्रातृरूपःहिमेशत्रुरेषसर्वाहितेरतः ॥ 94 ॥

रावणोनार्हतेपूजांपूज्योऽपिगुरुगौरवात् ।
नृशंसैतिमांराम वक्ष्यंतिमनुजाभुवि ॥ 95 ॥

श्रुत्वातस्यागुणान्सर्वेवक्ष्यंतिसुकृतंपुनः ।
तच्छ्रुत्वापरमप्रीतोरामोधर्मभृतांवरः ॥ 96 ॥

विभीषणमुवाचेदंवाक्यज्ञंवाक्यकोविदः ।
तवापिमेप्रियंकार्यंत्वत्प्रभावान्मयाजितम् ॥ 97 ॥

अवश्यंतुक्षमंवाच्योमयात्वांराक्षसेश्वर ।
अधर्मानृतसंयुक्तःकामंत्वेषनिशाचरः ॥ 98 ॥

तेजस्वीबलवान् शूरःसंग्रामेषु च नित्यशः ।
शतक्रतुमुखैर्वीरैःश्रूयते न पराजितः ॥ 99 ॥

महात्माबलसंपन्नोरावणोलोकरावणः ।
मरणानांतिवैराणिनिर्वृत्तंनःप्रयोजनम् ॥ 100 ॥

क्रियतामस्यसंस्कारोममाप्येषयथातव ।
त्वत्सत्सकाशाद्धशग्रीवस्संस्कारंविधिपूर्वकम् ॥ 101 ॥

क्षिप्रमर्हतिधर्मेणत्वंयशोभाग्भविष्यसि ।
राघवस्यवच्श्रुत्वात्वरमाणोविभीषणः ॥ 102 ॥

संस्कारयितुमारेभेभ्रातरंरावणंहतम् ।
सप्रविश्यपुरींलंकांराक्षसेंद्रोविभीषणः ॥ 103 ॥

रावणस्याअग्निहोत्रंतुनिर्यापयतिसत्वरम् ।
शकटान् दारुरूपाणिअग्नीनवैयाजकांस्तथा ॥ 104 ॥

तथाचंदनकाष्ठानिकाष्ठानिविविधानि च ।
अगरूणिसुगधनीनिगंधांश्चसुरभींस्तथा ॥ 105 ॥

मणिमुक्ताप्रवालानिनिर्यापयतिराक्षसः ।
आजगाममुहूर्तेनराक्षसैःपरिवारितः ॥ 106 ॥

ततोमाल्यवतासार्थंक्रियामेवचकारसः ।
सौवर्णींशिबिकांदिव्यामारोप्यक्षौमवासनम् ॥ 107 ॥

रावणंराक्षसाधीशमश्रुपूर्यमुखाद्विजाः ।
तूर्यघोषैश्चविविधैस्स्तुवद्भिश्चाभिनंदितम् ॥ 108 ॥

प्ताकाभिश्चचित्राभिस्सुमनोभिश्चचित्रिताम् ।
उत्क्षिप्यशिबिकांतांतुविभीषणपुरोगमाः ॥ 109 ॥

दक्षिणाभिमुखास्सर्वेगृह्यकाष्ठानिभेजिरे ।
अग्नयोदीप्यमानास्तेतदाध्वर्युसमीरिताः ॥ 110 ॥

शरणाभिगताःसर्वेपुरस्तात्तस्यतेययुः ।
अंतःपुराणिसर्वाणिरुदमानानिसत्वरम् ॥ 111 ॥

पृष्ठतोऽनुययुस्तानिप्लवमानानिसर्वतः ।
रावणंप्रयतेदेशेस्थाप्यतेभृशदुःखिताः ॥ 112 ॥

चितांचंदनकाष्ठैश्चपद्मकोशीसंवृताम् ।
ब्राह्म्यासम्वर्तयामासूरांकवास्तरणावृताम् ॥ 113 ॥

वर्ततेवेदविहितोराज्ञोवैपश्चिमःक्रतुः ।
प्रचक्रुःराक्षसेंद्रस्यपितृमेधमनुक्रमम् ॥ 114 ॥

वेदिं च दक्षिणप्राच्यांयथास्थानं च पावकम् ।
पृषदाज्येनसंपूर्णंस्रुवंसर्वेप्रचिक्षिपुः ॥ 115 ॥

पादयोश्शकटंप्रादुरंतरूर्वोरुलूखलंतदा ।
दारुपात्राणिसर्वाणिआरणिंचोत्तारारणिम् ॥ 116 ॥

दत्त्वातुमुसलंचान्यथास्थानंविचक्षणाः ।
शास्त्रादृष्टेनविधिनामहर्षिविहितेन च ॥ 117 ॥

तत्रमेध्यंपशुंहत्वाराक्षसेंद्रस्यराक्षसाः ।
परिस्तरणिकांराज्ञोघृताक्तांसमवेशयन् ॥ 118 ॥

गंधैर्माल्यैरलंकृत्यरावणंदीनमानसाः ॥ 119 ॥

विभीषणसहायास्तेवस्त्रैश्चविविधैरपि ।
लाजैरश्चावकिरंतिस्मबाष्पपूर्णमुखास्तदा ॥ 120 ॥

ददौ च पावकंतस्यविधियुक्तंविभीषणः ।
स्नात्वाचैवार्द्रवस्त्रेणतिलांदूर्वाभिमिश्रितान् ॥ 121 ॥

उदकेन च सम्मिश्रान्प्रदायविधिपूर्वकम् ।
प्रदायचोदकंतस्मैमूर्ध्नाचैनंनमस्य च ॥ 122 ॥

ताःस्त्रियोऽनुनयामाससांतमुक्त्वापुनःपुनः ।
गम्यतामितितास्सर्वाविविशुर्नगरीतदा ॥ 123 ॥

प्रविष्टासुसर्वासुराक्षसीषुविभीषणः ।
रामपार्श्वमुपागम्यतदातिष्ठद्विनीतवत् ॥ 124 ॥

रामोऽपिसहसैन्येनससुग्रीवस्सलक्ष्मणः ।
हर्षंलेभेरिपुंहत्वायथावृत्रंशतक्रतुः ॥ 125 ॥

ततोविमुक्त्वासशरंशरासनंमहेंद्रदत्तंकवचं च तन्महत् ।
विम्युचरोषंरिपुनिग्रहात्ततोरामःसुसौम्यत्वमुपागतोऽरिहा ॥ 126 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्दशाधिकशततमस्सर्गः ॥




Browse Related Categories: