View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.126 युद्धकांड - षड्विंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षड्विंशत्यधिकशततमस्सर्गः ।

अनुज्ञातंतुरामेणतद्विमानमनुत्तमम् ।
हंसयुक्तंमहानादमुत्पपातविहायसम् ॥ 1 ॥

पातयित्वाततश्चक्षुस्सर्वतोरघुनंदनः ।
अब्रवीन्मैथिलींसीतांरामश्शशिनिभाननाम् ॥ 2 ॥

कैलासशिखराकारेत्रिकूटशिखरेस्थिताम् ।
लंकामीक्षस्ववैदेहीनिर्मितांविश्वकर्मणा ॥ 3 ॥

एतदायोधनंपश्यमांसशोणितकर्दमम् ।
हरीणांराक्षसानां च सीते विशसनंमहत् ॥ 4 ॥

अत्रदत्तवरश्शेतेप्रमाथीराक्षसेश्वरः ।
तवहेतोर्विशालाक्षीनिहतोरावणोमया ॥ 5 ॥

कुंभकर्णोऽऽत्रनिहतःप्रहस्तश्चनिशाचरः ।
धूम्राक्षश्चात्रनिहतोवानरेणहनूमता ॥ 6 ॥

विद्युन्मालीहतश्चात्रसुषेणेनमहात्मना ।
लक्ष्मणेनेंद्राजिच्चात्ररावणिर्निहितोरणे ॥ 7 ॥

अंगदेनात्रनिहतोविकटोनामराक्षसः ।
विरूपाक्षश्चदुर्धर्षोमहापार्श्वमहोदरौ ॥ 8 ॥

अकंपनश्चनिहतोबलिनोऽऽन्ये च राक्षसाः ।
त्रिशिराश्चातिकायश्चदेवांतकनरांतकौ ॥ 9 ॥

युद्धोन्मत्तश्चमत्तश्चराक्षसप्रवरावुभौ ।
निकुंभश्चैवकुंभश्चकुंभकर्णात्मजौबली ॥ 10 ॥

वज्रदंष्ट्रश्चदंष्ट्रश्चबहवोराक्षसाहताः ।
मकराक्षश्चदुर्धर्षोमयायुधिनिपातितः ॥ 11 ॥

अकंपनश्चनिहतःशोणिताक्षश्चवीर्यवान् ।
यूपाक्षश्चप्रजंघश्चनिहतौतुमहाहवे ॥ 12 ॥

विद्युज्जिह्वोऽऽत्रनिहतोराक्षसोभीमदर्शनः ।
यज्ञशत्रुश्चनिहतःसुप्तघ्नश्चमहाबलः ॥ 13 ॥

सूर्यशत्रुश्चनिहतोब्रह्मशत्रुस्तथापरः ।
अत्रमंदोदरीनामभार्यातंपर्यदेवयत् ॥ 14 ॥

सपत्नीनांसहस्रेणसाग्रेणपरिवारिता ।
तत्तुदृश्यतेतीर्थंसमुद्रस्यवरानने ॥ 15 ॥

यत्रसागरमुत्तीर्यतांरात्रिमुषितावयम् ।
एषसेतुर्मयाबद्धस्सागरेसलिलार्णवे ॥ 16 ॥

तवहेतोर्विशालाक्षिनलसेतुःसुदुष्करः ।
पश्यसागरमक्षोभ्यंवैदेहिवरुणालयम् ॥ 17 ॥

अपारमभिगर्जंतंशंखशुक्तिसमाकुलम् ।
हिरण्यनाभंशैलेंद्रंकांचनंपश्यमैथिलि ॥ 18 ॥

विश्रमार्थंहनुमतोभित्त्वासागरमुत्थितम् ।
एततत्कुक्षौसमुद्रस्यस्कंधावारनिवेशनम् ॥ 19 ॥

अत्रपूर्वंमहादेवःप्रसादमकरोत्प्रभुः ।
एतत्तुदृश्यतेतीर्थंसागरस्यमहात्मनः ॥ 20 ॥

दूषणं चाग्रतो हत्वा त्रिशिरास्तदनंतम् ।
ततस्तेनार्दिता बाला रावणं समुपागता ॥ 21 ॥

अत्रराक्षसराजोऽऽयमाजगामविभीषणः ।
एषासादृश्यतेसीतेकिष्किंधाचित्रकानना ॥ 22 ॥

सुग्रीवस्यपुरीरम्यायत्रवालीमयाहतः ।
अथदृष्टवापुरींसीताकिष्किंधांवालिपालिताम् ॥ 23 ॥

अब्रवीत्पश्रितंवाक्यंरामंप्रणतसाध्वसा ।
सुग्रीवप्रियभार्याभिस्ताराप्रमुखतोनृप ॥ 24 ॥

अन्येषांवानरेंद्राणांस्त्रीभिःपरिवृताह्यहम् ।
गंतुमिच्छेसहायोध्यांराजधानींत्वयासह ॥ 25 ॥

एवमुक्तोऽऽथवैदेह्याराघवःप्रत्युवाचताम् ।
एवमस्त्वितिकिष्किंधांप्राप्यसंस्थाप्यराघवः ॥ 26 ॥

विमानंप्रेक्ष्यसुग्रीवंवाक्यमेतदुवाच ह ।
ब्रूहिवानरशूर्दूल सर्वान्वानरपुंगवान् ॥ 27 ॥

सीतां गृहीत्वा गच्छंतं वानराः पर्वतोपमाः ।
ददृशुर्विस्मितास्तत्र रावणं राक्षसाधिपम् ॥ 28 ॥

अभित्वरस्वसुग्रीव गच्छामःप्लवगाधिप ।
एवमुक्तस्तुसुग्रीवोरामेणामिततेजसा ॥ 29 ॥

वानराधिपतिश्रीमांस्स्सैश्चसर्वैस्समावृतः ।
प्रविश्यांतःपुरंशीघ्रंतारामुवदीक्ष्यसोऽऽब्रवीत् ॥ 30 ॥

प्रिये त्वंसहनाराभिर्वानराणांमहात्मनाम् ।
राघवेणाभ्यनुज्ञातामैथिलीप्रियकाम्यया ॥ 31 ॥

त्वरत्वमभिगच्छामोगृह्यवानरयोषितः ।
अयोध्यांदर्शयिष्यामःसर्वादशरथस्त्रियः ॥ 32 ॥

सुग्रीवस्य व चःश्रुत्वातारासर्वांगशोभना ।
आहूयचाब्रवीत्सर्वावानराणांतुयोषितः ॥ 33 ॥

सुग्रीवेणाभ्यनुज्ञातागंतुंसर्वैश्चवानरैः ।
ममचापिप्रियंकार्यमयोध्यादर्वनेन च ॥ 34 ॥

प्रवेशंचैवरामस्यपौरजानपदैस्सह ।
विभूतिंचैवसर्वासांस्त्रीणांदशरथस्य च ॥ 35 ॥

तारयाचाभ्यनुज्ञातास्सर्वावानरयोषितः ।
नेपथ्यविधिपूर्वंतुकृत्वाचापिप्रदक्षिणम् ॥ 36 ॥

अध्यारोहन्विमानंतत्सीतादर्शनकांक्षया ।
ताभिःसहोत्थितंशीघ्रंविमानंप्रेक्ष्यराघवः ॥ 37 ॥

ऋष्यमूकसमीपेतुवैदेहींपुनरब्रवीत् ।
दृश्यतेऽऽसौमहान्सीते सविद्युदिवतोयदः ॥ 38 ॥

ऋष्यमूकोगिरिवरःकांचनैर्धातुभिर्वृतः ।
त्राहंवानरेंद्रेणसुग्रीवेणसमागतः ॥ 39 ॥

समयश्चकृतःसीतेवधार्थंवालिनोमया ।
एषासादृश्यतेपंपानलिनीचित्रकानना ॥ 40 ॥

त्वयाविहीनोयत्राहंविललापसुदुःखितः ।
अस्यास्तीरेमयादृष्टाशबरीधर्मचारिणी ॥ 41 ॥

अत्रयोजनबाहुश्चकबंधोनिहतोमया ।
दृश्यतेऽऽसौजनस्थानेश्रीमान्सीते वनस्पतिः ॥ 42 ॥

जटायुश्चमहातेजास्तवहेतोर्विलासिनि ।
रावणेनहतोयत्रपक्षिणांप्रवरोबली ॥ 43 ॥

खरश्चनिहतोयत्रदूषणश्चनिपातितः ।
त्रिशिराश्चमहावीर्योमयाबाणैरजिह्मगैः ॥ 44 ॥

एतत्तदाश्रममदमस्माकंवरवर्णिनि ।
पर्णशालातथाचित्रादृश्यतेशुभदर्शने ॥ 45 ॥

यत्रत्वंराक्षसेंद्रेणरावणेनहृताबलात् ।
एषागोदावरीरम्याप्रसन्नसलिलाशुभा ॥ 46 ॥

अगस्त्यस्याश्रमश्चैव दृश्यते कदलीवृतः ।
दीप्तशैवाश्रमोह्येषसुतीक्षणस्यमहात्मनः ॥ 47 ॥

वैदेहिदृश्यतेचैवशरभंगाश्रमोमहान् ।
उपयातःसहस्राक्षोयत्रशक्रःपुरंदरः ॥ 48 ॥

एतेहितापसावासादृश्यंतेतनुमध्यमे ।
अत्रिःकुलपतिर्यत्रसूर्यवैश्वानरोपमः ॥ 49 ॥

अस्मिन् देशेमहाकायोविराधोनिहतोमया ।
अत्रसीते त्वयादृष्टवातापसीधर्मचारिणी ॥ 50 ॥

असौसुतनुशैलेंद्रत्रकूटःप्रकाशते ।
अत्रमांकैकयीपुत्रप्रसादयितुमागतः ॥ 51 ॥

एषासायमुनारम्यादृश्यतेचित्रकानना ।
भरद्वाजाश्रमःश्रीमांदृश्यतेचैषमैथिलि ॥ 52 ॥

इयं च दृश्यतेगंगापुण्यात्रिपथगानदी ।
नानाद्विजगणाकीर्णासंप्रपुष्पितकानना ॥ 53 ॥

शृंगिबेरपुरंचैतद्गुहोयत्रसखामम ।
एषासादृश्यतेसीतेसरयूर्यूपमालिनी ॥ 54 ॥

नानातरुशताकीर्णासंप्रपुष्पितकानना ।
एषासादृश्यतेसीतेराजधानीपितुर्मम ॥ 55 ॥

अयोध्यांकुरुवैदेहिप्रणामंपुनरागता ।
ततस्तेवानरास्सर्वेराक्षसास्सविभीषणाः ॥ 56 ॥

उत्पत्योत्पत्यसम्हृष्टास्तांपुरींददृशुस्तदा ।
ततस्तुतांपांडुरहर्म्यमालिनींविशालकक्ष्यांगजवाजिभिर्वृताम् ।
पुरीमपश्यन्प्लवगास्सराक्षसाःपुरींमहेंद्रस्ययथामरावतीम् ॥ 57 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षड्विंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: